अष्टश्लोकी स्तोत्रम्

॥ अष्टश्लोकी स्तोत्रम् ॥

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥


 अकारार्थो विष्णुर्जगदुदयरक्षा प्रलयकृत्
मकारार्थो जीव: तदुपकरणं वैष्णवमिदम् ।
उकारो नन्यार्हं नियमयति सम्बन्धमनयो:
त्रयी सारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १ ॥


मन्त्रब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं गति:
गम्यं शिक्षितमीक्षितेन पुरत: पश्चादपि स्थानत:।
स्वातन्त्र्यं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता
तस्यैवेति हरेर्विवीच्य कथितं स्वस्यापि नार्हं ततः ॥ २ ॥


अकारार्थायैव स्वमहमथ मह्यं न निवहाः
नराणां नित्यानामयनमिति नारायणपदम् ।
यमाहास्मै कालं सकलमपि सर्वत्र सकलासु –
अवस्थास्वावि: स्युर्मम सहज कैंकर्यविधय: ॥ ३ ॥


देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं
स्वातन्त्र्यान्धो यदि स्यात् प्रथममितरशेषत्वधिश्चेद्द्वितीयम् ।
आत्मत्रहाणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोल:
शब्दं नारायणाख्यं विषयचपलधीश्चेत् चतुर्थीं प्रपन्न: ॥ ४ ॥


नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनञ्चो-
पायं कर्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धं ।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्
मन्तारं त्रायते चेत्यधिगत निगम: षट्पदोयं द्विखण्ड: ॥ ५ ॥


ईशानां जगतामधीशदयितां नित्यानपायां श्रियम्
संश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।
इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थये
कर्तुं दास्यमसेशमप्रतिहतं नित्यं त्वहं निर्मम: ॥ ६ ॥


मत्प्राप्त्यर्थतया मयोक्तमखिलं संत्यज्य धर्मं पुनः
मामेकं मदवाप्तये शरणमित्यार्तोवसायं कुरु ।
त्वामेवं व्यवसाययुक्तमखिलज्ञानादिपूर्णोह्यहम्
मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७ ॥


निश्चित्य त्वदधीनतां मयी सदा कर्माद्युपायान् हरे !
कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुल:।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयम्
कर्तासीति दृढोस्मि ते तु चरमं वाक्यं स्मरन् सारथे: ॥ ८ ॥


॥ इति श्रीपराशरभट्टविरचिता अष्टश्लोकी ॥

Leave a Reply

Your email address will not be published. Required fields are marked *