आचार्यवैभवम्

आचार्यवैभवम् 

श्रीरङ्गमङ्गलमहोत्सववर्धनाय 
वेदान्तपान्थपरमार्थसमर्थनाय ।
कैङ्कर्यलक्षणविलक्षणमोक्षभाजो 
रामानुजो विजयते यतिराजराजः ॥ १॥ 
श्रीरङ्गमङ्गलमणिं करुणानिवासं 
श्रीवेङ्कटाद्रिशिखरालयकालमेघम् ।
 श्रीहस्तिशैलशिखरोज्जलपारिजातं 
श्रीशं नमामि शिरसा यदुशैलदीपम् ॥ २॥
काषायशोभिकमनीयशिखानिवेशं 
दण्डत्रयोज्ज्वलकरं विमलोपवीतम् । 
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपूण्डूं 
रूपं तवास्तु यतिराज ! दृशोर्ममाग्रे ॥३॥ 
भक्तामृतं विश्वजनानुमोदनं 
सर्वार्थदं श्रीशठकोपवाङ्मयम् । 
सहस्रशाखोपनिषत्समागमं 
नमाम्यहं द्राविडवेदसागरम् ॥ ४॥ 
नमामि रामानुजपादपङ्कजं 
वदामि रामानुजनामनिर्मलम् ।
स्मरामि रामानुजदिव्यविग्रहं 
करोमि रामानुजदासदास्यताम् ॥ ५॥ 
रामानुजस्य पदपङ्कजमाश्रयामि 
रामानुजस्य करुणामनुसन्दधामि । 
रामानुजस्य जनपादरजो वहामि 
रामानुजाय नम इत्यनिशं वदामि ॥ ६॥
बौद्धान्धकारपरिहारदिवाकराय
श्रीवैष्णवाम्बुनिधिपूर्णनिशाकराय ।
अद्वैतवादिकरियूथमृगाधिपाय 
तस्मै नमोऽस्तु सततं यतिपुङ्गवाय ॥ ७॥ 
त्रिदण्डहस्तं सितयज्ञसूत्रं 
काषायवस्त्रं लसदूर्ध्वपुण्ड्रम् ।
 रथाङ्गशंखाङ्कितबाहुमूलं 
रामानुजार्यं शरणं प्रपद्ये ॥ ८॥
॥ इति ॥

Leave a Reply

Your email address will not be published. Required fields are marked *