चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनाम् मंगलशासनम्

विशिष्टाद्वैताख्यं सकलगुरुभिः स्थापितमतं,
वितन्वानो नित्यं विपुलतमभूमौ गुरुवरः ।
त्रयीणां संत्राता रघुपतिपदन्यस्तहृदयः
चिरं जीयात् विद्वान् यतिपतिरसौ विश्वविजयी ॥

विद्यावेत्ता विमलहृदयो, विश्वविख्यातकीर्तिः
आम्नायानामनघकवचः, छात्ररक्षाप्रवीणः ।
श्रीमद्रामानुजमुनिमतस्थापको दीर्घदर्शी,
श्रीमन्नारायणयतिपतिः दीर्घकालं सुजीयात् ॥

जयतु जयतु नित्यं वेदविद्याप्रदीपः
जयतु जयतु नित्यं वैष्णवेष्वग्रगण्यः ।
जयतु जयतु नित्यं मानमेयैकवेत्ता,
जयतु जयतु नित्यं चिन्नजीयर् महीयान् ॥

स्वस्त्यस्तु ते गुरुवराय गुणार्णवाय
सन्मंगलं भवतु त्वत्कमनीयकीर्त्यै ।
नारायणार्ययतिशेखर ते नमः स्तात्
स्वाती सदा सकलमंगलदाऽस्तु तारा ॥

श्रीमत्काश्यपवंशभूषणमणिः कारुण्यवारान्निधिः
विश्वत्राणपरायणो गुणनिधिः सच्छात्रसेव्यस्स्दा
श्रीरामानुजकीर्तिव्याप्तिकरणे दत्तावधानो भृशं
षष्ट्यब्दीं परिपूरयन् विजयते नारायणार्यो यतिः ॥

प्रज्ञाभूमिर्महिष्ठः सुविपुलमहिमा, रक्षिता वाङ्मयस्य
संस्कर्ता मानवानां, रघुपतिविजयख्यापने बद्धदीक्षः ।
द्रष्टा लक्ष्यस्य नित्यं, सुमधुरवचसां सर्जकः शास्त्रवेत्ता,
श्रीमन्नारायणाख्यो जयतु यतिपतिः दीर्घकालं दयालुः ॥

॥ स्वस्ति ॥  

Leave a Reply

Your email address will not be published. Required fields are marked *