अष्टोत्तरशतनामस्तोत्रम्<!–॥वः ॥
वैभवश्लोकमालिका
श्रीमद्बालयतिर्ज्ञानी विश्वविख्यातवैभवः ।
वेदान्तद्वयविज्ञाता काश्यपान्वयसम्भवः ॥ १ ॥
श्रीमन्नारायणाचार्ययतीश्वरपदाश्रितः ।
गोपालाचार्यसान्निध्यलब्धविद्यामहानिधिः ॥ २
जीयर्शैक्षिकसंस्थानस्थापको वेदरक्षकः ।
भगवच्छास्त्रसंत्राता छात्रकल्पतरुर्महान् ॥ ३
सहस्रकुण्डसद्यागनिर्वाहकुशलो गुणी ।
श्रीरामानुजसिद्धान्तप्रचारैकरतस्सुधीः ॥ ४
त्रव्यंतार्थप्रतिष्ठाता तत्त्वबोधनतत्परः ।
चतुर्वेदपरित्राता बहुग्रंथप्रमुद्रकः ॥ ५
सर्वसंशयविच्छेत्ता स्मयमानमुखांबुजः ।
यावद्भारतसत्तीर्थपावनीकृतसत्पदः ॥ ६
श्रीमदष्टाक्षरीक्षेत्र व्यवस्थापरिवर्धकः ।
वेदान्तद्वयसत्पीठनिर्वाहनिपुणः सुधीः ॥ ७
श्रीमद्विष्णुसहस्राख्यनामवैभवबोधकः ।
मंदसास्थानमहिमोद्धारकः सफलाशयः ॥
श्रीमद्भक्तिनिवेदाख्यपत्रिकाधिपतिर्गुरुः ।
गीताभाष्यादिसद्ग्रन्थनिगूढार्थोपदेशकः ॥ ८
रामायणरहर्यार्थप्रबोधनपरायणः ।
वदान्यो मधुरालापो विनयादिविभूषितः ॥ ९
शास्त्रज्ञः सत्यसङ्कल्पः सारासारविचक्षणः ।
विशिष्टाद्वैतसिद्धान्तप्रख्यापनधुरंधरः ॥ १०
स्वाचार्यपादुकासेवानिरतो विपुलाशयः ।
श्रीसीतारामपादाब्जनित्याराधनसद्व्रतः ॥ ११
शुभ्रोर्ध्वपुण्ड्रविलसल्ललाटो मधुरस्वरः ।
दिव्यसूरिप्रबन्धार्थव्याख्याता विजयी बुधः ॥ १२
सर्ववैदिकसिद्धान्तसारांशग्रहणक्षमः ।
धाराप्रवाहवेदान्तशास्त्रज्ञानप्रबोधकः ॥ १३
पादयात्राप्रचारी च वेदयात्राविधायकः ।
श्रीमन्मानसरोयात्रा निर्वाहनिपुणः स्थिरः ॥ १४
जीवासंस्थाप्रतिष्ठाता वैद्यविद्याप्रवर्धकः ।
श्रीमज्जीयपुरस्कारप्रतिष्ठाता गुणालयः ॥ १५
गोपालोपायनाभिख्यपुरस्कारप्रवर्तकः ।
वेदवेदान्तशास्त्रज्ञसम्मानैकपरायणः ॥ १६
बाह्यदृष्टिविहीनानामुच्चविद्याप्रदायकः ।
देशांतरसुविख्यात भगवद्भक्तिगौरवः ॥ १७
प्रज्ञापुस्तकनिर्माणप्रबोधितसुसंस्कृतिः ।
दिव्यसाकेतनिर्माता सत्समाजप्रवर्धकः ॥ १८
जीयर्शताब्दिसंदर्भकृतभूरिमहोत्सवः ।
बहुभाषाविशेषज्ञः स्वाचार्यादृतमार्गगः ॥ १९
नाथयामुनसिद्धान्तपरित्राणपरायणः ।
श्रीमुक्तिनाथसत्क्षेत्रयात्रा- पावितसज्जनः ॥ २०
यादाद्रियदुगिर्यादितदीयाराधनोद्यतः ।
भूकंपादिमहादुःखमग्नानामवलंबकः ॥ २१
विशालहृहयो धीमान् ज्ञानभक्त्यभिवर्षुकः ।
श्रीमद्गोधनसंत्राता गोसंवर्धनतत्परः॥ २२
पूर्वाचार्यमहाग्रन्थरहस्योद्घाटनक्षमः ।
सच्छात्रनिलयो विद्वान् विद्यादानपरायणः ॥ २३
प्रसन्नवदनो दान्तः सर्वभूतदयापरः ।
नदीपुष्करसंदर्भब्रह्मयज्ञविधायकः ॥ २४
बहुशिष्यविनिर्माता बहुदेशप्रचारवान् ।
स्वाचार्यपरमाचार्यसद्वैभवप्रकाशकः ॥ २५
रामानुज सहस्राब्दीमहोत्सवप्रवर्धकः ।
समतामूर्तिसंस्फूर्तिकेंद्रनिर्माणतत्परः॥ २६ ॥
अंताराष्ट्रियसद्भक्तसंसेवितपदांबुजः ।
सौलभ्यगुणसंपन्नः सौशील्यगुणशेवधिः ॥ २७॥
इतिहासपुराणादिव्याख्याग्रन्थसुमुद्रकः ।
मितभाषी मधुरवाक् वेदवाङ्मयरक्षकः ॥ २८ ॥
मन्त्रमन्त्रार्थदो मान्यो माधवाङ्घ्रिसमाश्रितः ।
तुलास्वात्यवतीर्णोऽथ दीपावलिप्रभान्वितः॥ २९ ॥
श्रीमद्विजयकीलाद्रिमंदिरस्थापकोत्तमः ।
रंगधामप्रतिष्ठाता बहुविद्यालयाधिपः ॥ ३०॥
श्रीजीयर्मठनिर्माता जगबंधुर्जयावहः ।
कृष्णमाचार्यवर्येण समर्पितमिदं मुदा
अष्टोत्तरशतं नाम्नां यतीश्वरपदाब्जयोः ॥ ३१ ॥
तुलास्वात्यवतीर्णाय विश्वविख्यातकीर्तये ।
श्रीमन्नारायणाभिख्ययतिराजाय मंगलम् ॥ ३२ ॥
चिन्नश्रीमन्नारायणरामानुजजीयरस्वामिनां अष्टोत्तरशतनामस्तोत्रम्