नित्यगुरुपरम्परा
श्रीरामचरमश्लोकः
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम।।
मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्।।
सीताचरमश्लोक :
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ।।
वराहचरमश्लोक:
स्थिते मनसि सुस्वस्थ शरीरे सति यो नः
धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ।
ततस्तं म्रियमाणं तु काष्ठ-पाषाण-सन्निभम्
अहं स्मरामि मद्भक्तं नयामि परमां गतिम्
श्रीनरसिंहचरमश्लोक:
सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहुः
यो मां मुकुन्द ! नरसिंह! जनार्दनेति।
जीवन् जपत्यनुदिनं मरणे ऋणीव
पाषाण काष्ठ सदृशाय ददामि मुक्तिम्
श्रीरंगनायचरम श्लोक:
मामेवाऽनुस्मरस्व त्वं त्वामहं संस्मरामि च।
उपायमपवर्गस्य रहस्यमपि मे श्रुणु।।
सर्वकर्माणि सन्त्यज्य सर्वकर्मफलानि च।
शरणं मां प्रपद्यस्व सर्वबन्धविमुक्तये।।
श्रीसुदर्शनचरमश्लोक:
सुदर्शन! महाज्वाल! कोटिसूर्यसमप्रभ! ।
अज्ञानान्धस्य मे देव! विष्णोर्मार्गं प्रदर्शय।।
श्रीपाञ्चजन्यचरमश्लोक: स्तुतिः
पाञ्चजन्य ! निजध्वान ध्वस्त पातक सञ्चय!।
पाहि मां पापिनं घोरसंसारार्णव पातिनम्।।
गुरुपरम्परा
श्रीमन्नानारायण चिन्नजीयर स्वामीको नित्य तनियन्
काश्यपान्वयसंजातं नारायणपदाश्रितम् ।
श्रीमन्नारायणं वन्दे यतीश्वरश्रिया जुषम् ॥ १ ॥
नारायणार्ययतिशेखर पादभक्तं,
गोपालदेशिकवराप्तसमस्तबोधम् ।
श्रीजानकीशचर णार्पितमानसाब्जं
नारायणार्ययतिवर्यमहं प्रपद्ये ॥ २ ॥
श्रीमन्नारायणाचार्य ( बडे जीयर ) स्वामीको तनियन्
वेदान्तद्वयतत्वज्ञं मन्त्रमन्त्रार्थदं गुरुम् ।
श्रीमन्नारायणाचार्यरामानुजयतिं भजे ॥ ३ ॥
श्रीकृष्णमाचार्य स्वामीजीको तनियन्
काश्यपान्वयसंजातं कल्याणगुणसागरम् ।
काङ्क्षितार्थप्रदं वन्दे कृष्णमार्य गुरूत्तमम् ॥ ४ ॥
श्रीवरवरमुनिस्वामिस्तुतिः
श्रीशैलेशदयापात्रं धी भक्त्यादि गुणार्णवम्।
यतीन्द्र प्रवणं वन्दे रम्यजामातरं मुनिम्।।
श्रीशैलनाथाचार्यस्वामि-तनियन् ।
नमश्श्रीशैल नाथाय कुन्ती नगरजन्मने।
प्रसादलब्ध परमप्राप्यकैङ्कर्य शालिने।।
पिल्लेलोकाचार्यस्वामिस्तुतिः
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे।
संसार भोगि सन्दष्टजीवजीवातवे नमः।।
श्रीकृष्णपादस्वामिस्तुतिः
श्रीकृष्णपाद पादाब्जे नमामि शिरसा सदा।
यत्प्रसादप्रभावेण सर्वसिद्धिरभून्मम।।।
श्रीकालीवैरिदासस्वामिस्तुतिः
वेदान्तवेद्याऽमृतवारिराशेः वेदार्थसारामृतपूरमग्र्यम्।
आदाय वर्षं तमहं प्रपद्ये कारुण्यपूर्णं कलिवैरिदासम्।।
वेदान्तीस्वामिस्तुतिः
नमो वेदान्तवेद्याय जगन्मंगळहेतवे।।
यस्य वागामृतासारपूरितं भुवनत्रयम्।।
श्रीपराशरभट्टरस्वामिस्तुतिः
श्रीपराशरभट्टार्यः श्रीरंगेश पुरोहितः।
श्रीवत्साङ्कसुतश्श्रीमान् श्रेयसे मेऽस्तु भूयसे।।
श्रीगोविन्दभट्टरस्वामिस्तुतिः
रामानुज पदच्छाया गोविन्दाह्वान पायिनी।
तदायत्त स्वरूपा सा जीयान्मद्विश्रमस्थली।।
श्रीरामानुजस्वामिस्तुतिः
यो नित्यमच्युत पदाम्बुज युग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये।।
श्रीमहापूर्णस्वामिस्तुतिः
कमलापति कल्याण-गुणामृतनिषेवया।
पूर्णकामाय सततं पूर्णाय महते नमः।।
श्रीयामुनाचार्यस्वामिस्तुतिः
यत्पदांभोरुहध्यानविध्वस्ताशेषकल्मषः।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम्।।
श्रीराममिश्रस्वामिस्तुतिः
अयत्नतो यामुन मात्मदासं मलर्क पत्रार्पणनिष्क्रयेण।
यः क्रीतवानास्थितयौवराज्यं नमामि तं राम ममेयसत्त्वम्।।
श्रीपुण्डरीकाक्षस्वामिस्तुतिः
नमः पङ्कजनेत्राय नाथश्रीपादपङ्कजे।
न्यस्त सर्वभरायास्मत्-कुलनाथाय धीमते।।
श्रीमन्नाथमुनिस्वामिस्तुतिः
नमोऽचिन्त्याद्भुताऽक्लिष्टज्ञानवैराग्यराशये।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे।।
श्रीशठकोप आल्वारस्तुतिः ।
माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम्।
आद्यस्य नः कुलपतेर्वकुळाभिरामं
श्रीमत्तदङ्घ्रियुगळं प्रणमामि मूर्ध्ना ।।।
श्रीविष्वक्सेनस्तुतिः
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम्।
यो निर्वहत्यनिश मंगुलिमुद्रयैव
सेनान्यमन्यविमुखाः मशिश्रयाम।।
श्रीरङ्गनाथस्तुतिः
नमश्श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः।
ईशेशितव्यवैषम्य निम्नोन्नतमिदं जगत्।।
श्रीरङ्गनाथस्तुति
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये।
चिन्तामणिमिवोद्भान्तमुत्सङ्गेऽनन्तभोगिनः।।