नारायणहृदयस्तोत्रम्
विनियोगः
ॐ अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजम्, नमः शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायणप्रीत्यर्थे पाठे विनियोगः ।
ऋष्यादिन्यासः
ॐ भार्गव ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीलक्ष्मीनारायणदेवतायै नमः हृदि । ॐ बीजाय नमः गुह्ये । नमः शक्त्यै नमः पादयोः । नारायणायेति कीलकाय नमः नाभौ । श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः
ॐ नारायणः परं ज्योतिः अङ्गुष्ठाभ्यां नमः । ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः । ॐ नारायणः परोदेव इति मध्यमाभ्यां नमः । ॐ नारायणः परो ध्यायेति अनामिकाभ्यां नमः । ॐ नारायणः परो धामेति कनिष्ठिकाभ्यां नमः । ॐ नारायणः परो धर्म इति करतलकरपृष्ठाभ्याम् नमः
।
हृदयादिन्यासः
ॐ नारायणः परं ज्योतिः हृदयाय नमः । ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा । ॐ नारायणः परोदेव इति शिखायै वषट् । ॐ नारायणः परो ध्यायेति कवचाय हुं । ॐ नारायणः परो धामेति नेत्र-त्रयाय वौषट् । ॐ नारायणः परो धर्म इति अस्त्राय फट् ।
दिग्रक्षणः
ॐ नमः सुदर्शनायास्त्राय हुं फट् बध्नामि नमश्चक्राय स्वाहा ।
येन मन्त्रेण दिक् रक्षणं कुर्यात्
अथ ध्यानम्
उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् ।
शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ॥ १॥
लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।
ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥ २॥
सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् ।
मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ॥ ३॥
उद्यदादित्यसङ्काशं पीतवाससमच्युतम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ ४॥
॥ “ॐ नमो नारायणाय” इति मन्त्रजपं (१०८ ) कृत्वा ॥
मूलाष्टकम्
ॐ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ १॥
नारायणः परो देव दाता नारायणः परः ।
नारायणः परो ध्याता नारायण नमोऽस्तु ते ॥ २॥
नारायणः परं धाम ध्यानं नारायणः परः ।
नारायणः परो धर्मो नारायण नमोऽस्तु ते ॥ ३॥
नारायणः परो वेद्यो विद्या नारायण परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ४॥
नारायणद्विधिर्जातो नारायणाच्छिवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥ ५॥
रविर्नारायणं तेजश्चान्द्रं नारायणं महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ ६॥
नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ ७॥
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
सेव्यो नारायणः शुद्धो नारायण नमोऽस्तु ते ॥ ८॥
॥ इति मूलाष्टकम् ॥
॥ प्रार्थनादशकम् ॥
ॐ नारायणस्त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरकः प्रेर्य्यभाणानां त्वया प्रेरितमानसः ॥ १॥
त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासन मार्गाणां भवहृद्भावबोधकः ॥ २॥
भावार्थकृद्भावभूतो भावसौख्यप्रदो भव ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ ३॥
त्वदधिष्ठानमात्रेण सैषा सर्वार्थकरिणी ।
त्वमेव तां पुरस्कृत्य मम कामान्समर्प्पय ॥ ४॥
न मे त्वदन्यस्त्राताऽस्ति त्वदन्यन्नहि दैवतम् ।
त्वदन्यं नहि जानामि पालकं पुण्यरुपकम् ॥ ५॥
यावत् सांसारिको भावो मनःस्थो भावनात्मकः ।
तावत् सिद्धिर्भवेत् साध्या सर्वथा सर्वदा विभो ॥ ६॥
पापिनामहमेवाग्य्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७॥
त्वयाऽण्यहं न सृष्टश्चेन्न स्यात् तव दयालुता ।
आमयो नैव सृष्टश्चेदौषधस्य वृथोदयः ॥ ८॥
पापसङ्घपरिक्रान्तः पापात्मा पापरूपधृक् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्राता मे जगतीतले ॥ ९॥
त्वमेव माता च पिता त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या च गुरुस्त्मेव सर्वं मम देव देव ॥ १०॥
॥ फलश्रुतिः ॥
प्रार्थानदशकं चैव मूलाष्टकमुदाहृतम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ ११॥
नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विना कृतम् ॥ १२॥
सत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
एतत् सम्पुटितं स्तोत्रं सर्वकामफलप्रदम् ॥ १३॥
लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
जपेद्यः सम्पुटिकृत्य सर्वाभीष्टमवाप्नुयात् ॥ १४॥
नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥ १५॥
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीकृतं जपेत् ।
पुनर्नारायणं जाप्यं सङ्कलीकरणं भवेत् ॥ १६॥
एवं मध्ये द्विवारेण जपेत्सङ्कलितं हि तत् ।
लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥ १७॥
तद्वज्जपादिकं कुर्यादेतत् सङ्कलितं शुभम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ १८॥
गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रमादौ ब्रह्मादिकैः पुरा ॥ १९॥
तस्मात्सर्वप्रयत्नेन गोपयेत् साधयेत् सुधीः ।
यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ।
भूतपैशाचवेतालाः न स्थितास्तत्र सर्वदा ॥ २०॥
लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ।
भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ॥ २१॥
सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥ २२॥
इत्यथर्वणरहस्ये उत्तरभागे नारायणहृदयम्