यतिराजस्तोत्रम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो।
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो॥
श्रीरङ्गेशयजयाश्रयकेतुः श्रितजनसंरक्षणजीवातुः ।
भवभयजलधेरेव हि सेतुः पद्मानेतुः प्रणतौ हेतुः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १॥
आदौ जगदाधारः शेषः तदनु सुमित्रानन्दनवेषः ।
तदुपरि धृतहलमुसलविशेषः तदनन्तरमभवद्गुरुरेषः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २॥
भुङ्क्ते वैषयिकं सुखमन्यः प्रचकास्त्येव अनश्नन्नन्यः ।
इति यस्तत्वं प्राह वदान्यः तस्मादधिकः को नु वदान्यः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३॥
नष्टे नयने कस्यालोकः चित्ते मत्ते कस्य विवेकः ।
क्षीणे पुण्ये कः सुरलोकः कामे धूते कस्तव शोकः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ४॥
निशि वनितासुखनिद्रालोलः प्रातः परदूषणपटुशीलः ।
अन्तर्याति निजायुष्कालः किं जानाति नरः पशुलीलः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ५॥
केचिल्लीलालालसगतयः केचिद्बालालालितरतयः ।
केचिद्दोलायितहमतयः केऽपि न सन्त्यर्चितयतिपतयः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ६॥
यावानबलो जरया देहः तावान् प्रबलो विषये मोहः ।
वचसि विरक्तिः श्रुतिपरिवाहः मनसि हितस्त्वपरोऽपि विवाहः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥॥ ७॥
कलुषनिकायं ललनाकायं पश्यन्मुह्यसि सायं सायम् ।
जहि जहि हेयं तद्व्यवसायं स्मर निरपायं चरमोपायम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ८॥
रात्रिंदिवमपि भिक्षाचर्या कलहायैवागच्छति भार्या ।
मध्ये बान्धवसेवा कार्या कथय कदा तव देवसपर्या
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ९॥
अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् ।
तस्मिन् काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १०॥
तालच्छदकृतकुब्जकुटीरः प्रतिगृहसन्ध्याकबलाहारः ।
विविधपटच्चरभारः क्रूरः सोऽपि विधातृसमाहङ्कारः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ११॥
मन्त्रद्रव्यविशुद्धो यागः सर्वारम्भविरागस्त्यागः ।
कर्तुं शक्यो न कलौ योगः किन्तु यतीशगुणामृतभोगः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १२॥
उपरि महोपलवर्षासारो मार्गे कण्टककर्दमपूरः ।
कक्षे भारः शिरसि किशोरः सुखयति घोरः कं संसारः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १३॥
भजसि वृथा विषयेषु दुराशां विविधविचित्रमनोरथपाशाम् ।
कियदपि लभसे न हि तत्रैकं किन्तु व्रजसि महान्तं शोकम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १४॥
कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः ।
तस्मिन्वृद्धे तं सकलत्रः शपति हि रण्डासुत इति पुत्रः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १५॥
मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिपं वा ।
ममताहङ्कृतिमलिनो लोको निन्दति निन्दति निन्दत्येव
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १६॥
पापहतो वा पुण्ययुतो वा सुरनरतिर्यग्जातिगतो वा ।
रामानुजपदतीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १७॥
गुणगुणिनोर्भेदः किल नित्यः चिदचिद्द्वयपरभेदः सत्यः ।
तद्द्वयदेहो हरिरिति तत्त्वं पश्य विशिष्टाद्वैतं तत्त्वं
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १८॥
यतिपतिपदजलगणिकासेकः चतुरक्षरपदयुग्मविवेकः ।
यस्य तु सालनगर्यवलोकः तस्य पदेन हतो यमलोकः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ १९॥
चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् ।
तस्मात् कस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २०॥
यश्चतुरक्षरमन्त्ररहस्यं वेद तमेव वृणीहि सदस्यम् ।
तच्चरणद्वयदास्यमुपास्यं तद्विपरीतं मतमपहास्यम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २१॥
वैष्णवकुलगुणदूषणचिन्तां मा कुरु निजकुलशीलाहन्ताम् ।
यतिपतिरेव हि गुरुरेतेषामिति जानीहि महत्वं तेषाम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २२॥
सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् ।
गतजीवितमतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २३॥
विद्यानिपुणा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये ।
सत्कुलजाता वयमित्यन्ये तेषु कलिं परिपूर्णं मन्ये
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २४॥
यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले ।
दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २५॥
नरवाहनगजतुरगारूढा नारीसुतपोषणगुणमूढाः ।
नानारञ्जकविद्याप्रौढा नागरिकाः किं यतयो मूढाः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २६॥
यस्य मुखस्था यतिपतिसूक्तिः तस्य करस्था विलसति मुक्तिः ।
नरके पतितं नवनवयुक्तिः नहि रक्षति सामान्यनिरुक्तिः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २७॥
श्रुतिशिरसामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् ।
प्रथमम् मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृतभाष्यं
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २८॥
तस्करजारविदूषकधूर्ता मस्करिमौनिदिगम्बरवृत्ताः ।
गुप्तधनीकृत धनमदमत्ताः गुरवः किं परवञ्चकचित्ताः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ २९॥
कान्तिमतीसुकुमारकुमारं केशवयज्वकिशोरमुदारम् ।
रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३०॥
काषायाम्बरकवचितगात्रं कलितकमण्डलुदण्डपवित्रं ।
विधृतशिखाहरिणाजिनसूत्रं व्याख्यातद्वैपायनसूत्रम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३१॥
यामुनपूर्णकृपोज्ज्वलगात्रं रामाब्जाक्षमुनीक्षणपात्रम् ।
कोमलशठरिपुपदयुगमात्रं श्रीमाधवसेनापतिमित्रम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३२॥
सालग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् ।
तत्कुलदैवतहितपुरुषार्थं सकलोपायाधिकचरमार्थम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३३॥
प्रवचनसक्तः प्रज्ञायुक्तः परहितसक्तः परमविरक्तः ।
नानादैवतभक्त्या युक्तः न भवति मुक्तो भवति न मुक्तः
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३४॥
सन्त्यज सकलमुपायाचरणं व्रज रामानुजचरनौ शरणाम् ।
पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३५॥
भगवद्रामानुजषट्त्रिंशः सालग्रामगुरूत्तमवंश्यः ।
कौण्डिन्यः कविराह पवित्रं रङ्गार्यो यतिराजस्तोत्रम्
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ ३६॥
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो॥
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥
भज यतिराजं स्तोत्रम् सम्पूर्णम्