॥ यतिराजविंशति: ॥
य: स्तुतिं यतिपतिप्रसादनीं
व्याजहार यतिराजविंशतिम्।
तं प्रपन्नजनचातकाम्बुदं
नैमि सौम्यवरयोगिपुङ्गवम्॥
श्रीमाधवाङ्घ्रिजलजयद्वयनित्यसेवा
प्रेमाविलाशयपराङ्कुशपादभक्तम्।
कामादिदोषहरमात्मपदाश्रितानां
रामानुजं यातिपतिं प्रणमामि मूर्ध्ना॥१॥
श्रीरङ्गराजचरणाम्बुजराजहंसं
श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम्।
श्रीभट्टनाथपरकालमुखाब्जमित्रं
श्रीवत्सचिह्नशरणं यतिराजमीडे॥२॥
वाचा यतीन्द्र! मनसा वपुषा च युष्मत्
पादारविन्दयुगलं भजतां गुरूणाम्।
कूराधिनाथ-कुरुकेशमुखाद्यपुंसां
पादानुचिन्तनपरस्सततं भवेयम्॥३॥
नित्यं यतीन्द्र! तव दिव्यवपुस्स्मृतौ मे
सक्त्तं मनो भवतुवाग्गुणकीर्तनेऽसौ।
कृत्यं च दास्यकरणे तु करद्वयस्य
वृत्त्यन्तरेऽस्तु विमुखं करणत्रयं च॥४॥
अष्टाक्षराख्यमनुराजपदत्रयार्थ-
निष्ठां ममात्र वितराद्य यतीन्द्र नाथ।
शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे
हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धि:॥५॥
अल्पापि मे न भवदीयपदाब्जभक्ति:
शब्दादिभोगरुचिरन्वहमेधते हा।
मत्पापमेव हि निदानममुष्य नान्यत्
तद्वारयार्य यतिराज दयैकसिन्धो!॥६॥
वृत्या पशुर्नरवपुस्त्वहमीदृशोऽपि
श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोऽयम्।
इत्यादरेण कृतिनोऽपि मिथ: प्रवक्तुम्
अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते॥७॥
दुःखावहोऽहमनिशं तव दुष्टचेष्टः
शब्दादिभोगनिरतश्शरणागताख्यः।
त्वत्पादभक्त इव शिष्टजनौघमध्ये
मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः॥८॥
नित्यं त्वहं परिभवामि गुरुं च मन्त्रं
तद्देवतामपि न किञ्चिदहो बिभेमि।
इत्थं शठोऽप्यशठवद् भवदीये संघे
हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः॥९॥
हा हन्त हन्त मनसा क्रियया च वाचा
योऽहं चरामि सततं त्रिविधापचारान्।
सोऽहं तवाप्रियकरः प्रियकृद्वदेव
कालं नयामि यतिराज ततोऽस्मि मूर्खः॥१०॥
पापे कृते यदि भवन्ति भयानुताप-
लज्जा पुनः करणमस्य कथं घटेत।
मोहेन मे न भवतीह भयादिलेशः
तस्मात्पुनः पुनरघं यतिराज कुर्वे॥११॥
अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्
अन्धः पुरःस्थितमिवाहमवीक्षमाणः।
कन्दर्पवश्यहृदयस्सततं भवामि
हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः॥१२॥
तापत्रयीजनितदुःखनिपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ।
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद्यतिराज शीघ्रम्॥१३॥
वाचामगोचरमहागुणदेशिकाग्य्र-
कूराधिनाथकथिताखिलनैच्यपात्रम्।
एषोऽहमेव न पुनर्जगतीदृशस्तत्
रामानुजार्यकरुणैव तु मद्गतिस्ते॥१४॥
शुद्धात्मयामुनगुरूत्तमकूरनाथ-
भट्टाख्यदेशिकवरोक्त्तसमस्तनैच्यम्।
अद्यास्त्यसंकुचितमेव मयीह लोके
तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते॥१५॥
शब्दादिभोगविषया रुचिरस्मदीया
नष्टा भवत्विह भवद्दयया यतीन्द्र।
त्वद्दासदासगणना चरमावधौ यः
तद्दासतैकरसताऽविरता ममास्तु॥१६॥
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः
प्रत्यक्षतामुपदतः त्विह रङ्गराजः।
वश्यस्सदा भवति ते यतिराज तस्मात्
शक्तः स्वकीयजनपापविमोचने त्वम्॥१७॥
कालत्रयेऽपि करणत्रयनिर्मिताति
पापक्रियस्य शरणं भगवत्क्षमैव।
सा च त्वयैव कमलारमणेऽर्थिता यत्
क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम्॥१८॥
श्रीमन् यतीन्द्र तव दिव्यपदाब्जसेवां
श्रीशैलनाथकरुणापरिणामदत्ताम्।
तामन्वहं मम विवर्धय नाथ तस्याः
कामं विरुद्धमखिलं च निवर्तय त्वम्॥१९॥
विज्ञापनं यदिदमद्य तु मामकीनम्
अङ्गीकुरुष्व यतिराज दयाम्बुराशे।
अज्ञोऽयमात्मगुणलेशविवर्जितश्च
तस्मादनन्यशरणो भवतीति मत्वा॥२०॥
इति यतिकुलधुर्यमेधमानैः
श्रुतिमधुरैरुदितैः प्रहर्षयन्तम्।
वरवरमुनिमेव चिन्तयन्ती
मतिरियमेति निरत्ययं प्रसादम्॥
॥ इति यतिराजविंशति: ॥