लक्ष्मीनारायण मन्दिर धनघडीको गुरुपरम्परा

श्रीगुरुपरम्परापाठ

सर्वदेशदशाकालेष्वव्याहतपराक्रमा।
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥

श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला।
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥

श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥

नमः श्रीशैलनाथाय कुन्तीनगरजन्मने।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥

श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥

लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥

माता पिता युवतयस्तनया विभूति:
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥

भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥

गुरुमुखमनधीत्य प्राह वेदानशेषान्,
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्,
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥

अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम्
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥

श्रीयोगिराजरघुनाथगुरोः प्रशिष्यम्,
श्रीमज्जनार्दनगुरूत्तमशिष्यरत्नम् ।
वेदान्तयुग्मनिपुणं सुलभं सुशीलम्,
श्रीदेवराजगुरुवर्यमहं प्रपद्ये ॥१२॥

श्रीमच्छ्ठारियतिशेखरपादभक्तम्,
वाधूलरङ्गगुरुपादसरोजभृङ्गम् ।
श्रीदेशिकेन्द्ररघुनाथकृपैकपात्रम्,
श्रीमज्जनार्दनगुरुं शरणं प्रपद्ये, ॥१२॥

श्रीवैष्णवान्वयपयोनिधिपुर्णचन्द्रम्,
श्रीमुक्तिनाथचरणाम्बुजमूलदासम् ।
स्वाचार्यनिष्ठरघुनाथकृपैकपात्रम्,
तोताद्रिदेशिकमहं शरणं प्रपद्ये ॥१४॥

श्रीमद्वसिष्ठकुलवारिधिपूर्णचन्द्रम्,
स्वाचार्यभागवतपादसरोजभृङ्गम् ।
वेदान्तज्ञानपरिपूर्णसुयोगिराजम्,
श्रीसद्वरिष्ठरघुनाथगुरुं प्रपद्ये ॥ ॥

श्रीकाश्यपान्वयपयोनिधिपूर्णचन्द्रम्,
श्रीरामदेशिकपदाम्बुजभृङ्गराजम्, ॥
श्रीमन्नृसिंहचरणार्चनसक्तचित्तम्,
आचार्यवर्यगुरुभागवतं नमामि ॥

श्रीकान्यकुब्जकुलवारिधिपूर्णचन्द्रम्,
श्रीरामदेशिकपदाम्बुजभृङ्गराजम् ।
श्रीमन्नृसिंहपदपङ्गजचञ्चरीकम्,
श्रीमाधवं गुरुवरं सततं स्मरामि ॥
श्रीभागवताचार्य स्वामीजीका गुरुभ्राताको तनियन्-

श्रीव्यासगोत्रकुलवारिधिपूर्णचन्द्रम्,
श्रीरङ्गदेशिकपदाब्जरसैकभृङ्गम्, ।
श्रीमच्छ्ठारिकृपयाप्तसमस्तबोधम्,
श्रीरामदेशिकमहं शरणं प्रपद्ये

सम्पत्कुमारमुनिवर्यदयैकपात्रम्,
श्रीरङ्गदेशिककटाक्षविवृद्धबोधम्, ।
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम्,
श्रीमच्छ्ठारिमुनिवर्यमहं प्रपद्ये ॥
श्रीरङ्गदेशिक स्वामीजीका अत्यन्त सहयोगी शठकोप स्वामीजीको तनियन्

अगाडि पनि हेर्नुहोस्

Leave a Reply

Your email address will not be published. Required fields are marked *