लघुसन्ध्याविधिः

लघुसन्ध्याविधिः 


पवित्रासने शुद्धभूमावुपविष्य शुद्धजले तुलसीं निक्षिप्य

“ॐ विं विरजायै नमः”
इत्युच्चार्य
श्वेततिलकं हस्ते घर्षणम्

तत्र मन्त्रः
ॐ विष्णोर्नुकं वीर्याणि प्रबोचं यः पार्थिवानिव्विममे रजा गुं सि ।

योऽअस्कभा यदुत्तर गूं सधस्थं विचक्रमाणस्त्रेधोरुगाय॥

ततो मध्ये विलिख्य ततः परितः षट्कोणं विलिख्य
मूलेन मन्त्रेण अभिमन्त्र्य विष्णुगायत्र्या तर्जन्या अङ्गुल्या ललाटे धारयेत्
तत्र श्वेततिलकधारणमन्त्रः

ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥

पश्चात्
अवशेषतिलकं हस्तं प्रक्षाल्य “ॐ वासुदेवाय नमः” इत्युच्चार्य शिरसि धारयेत् वा शुद्धवाससि ।

ततः श्रीचूर्णं हस्ते घर्षणम्
तत्र मन्त्रः

ॐ गन्धद्वारां दुराधर्षान्नित्यपुष्टां करीषिणीम् ।

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥


इति घर्षयित्वा
श्रीं विलिख्य दशवारं श्रीं श्रियै नमः इत्यनेन मन्त्रेणाभिमन्त्रणं कृत्वा
लक्ष्मीगायत्र्या

ॐ महालक्ष्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥

वा
ॐ श्रीं श्रियै नमः इत्युच्चार्य ललाटे धारयेत् ।

पश्चात् अवशेषं श्रीचूर्णं हस्तं प्रक्षाल्य ॐ महालक्ष्म्यै नमः इत्युच्चार्य शिरसि वा शुद्धवाससि धारयेत् ।

ततः श्रीवाक्यगुरुपरम्परां श्लोकगुरुपरम्पराञ्च उच्चार्य श्रीपादतीर्थञ्च स्वीकृत्य आचमेत्

तत आचमनम्

ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नमः
इति त्रिभिर्मन्त्रैः त्रिबारं आचम्य ॐ विष्णवे नमः इति हस्तं प्रक्षालनम् कुर्यात्

संकल्पं कुर्यात्

हरिः ॐ तत्सत् हरिः ॐ तत्सत् हरिः ॐ तत्सत् ॐ विष्णुर्विष्णुर्विष्णुः अद्येह शुभपुण्यतिथौ अमुकगोत्रोपन्न अमुकप्रवरान्वित अमुकनामोऽहं भगवदाज्ञया भगवन्मुखोल्लासार्थं प्रातः / मध्याह्ने  / सायं  सन्ध्योपासनमहं करिष्ये ।

सर्वाङ्गं कुशैर्मार्जनं कुर्यात्
  ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोपिवा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

आसनशुद्धिं कुर्यात्
ॐ पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता ॥
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥

प्राणायामः

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं ॐ भर्गो देवस्य धीमहि ।
ॐ धियो यो नः प्रचोदयात् ॐ आपोज्योतिरसोमृतं ब्रह्मभूर्भुवः । स्वरोम् ।
इति पूरकं कृत्वा, एवं प्रकारेण कुम्भकं रेचकञ्चकुर्यात् ॥

प्रातः काले 
 ॐ सूर्यश्चमा मन्न्युश्च मन्न्युपतयश्च मन्न्युकृतेभ्यः पापेभ्यो रक्षन्ताम् ।
यद्रात्र्यापापमकार्षम्मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना।
रात्रिस्तदवलुम्पतु यत्किञ्चिदुरितं मयि इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ॥

मध्यान्नकाले

 ॐ आपः पुनन्तुपृथिवीपृथ्वी पूता पुनन्तु माम् ।

पुनन्तु ब्रमणस्पतिर्ब्रह्म पूता पुनन्तु माम् ।

यदुच्छिष्टमभोज्यञ्च यद्वा दुश्चरितं मम ।

सर्वम्पुनन्तुमामापोऽसताञ्चप्रतिग्रह गुं स्वाहा ॥

सायं काले

ॐ अग्निश्च मा मन्न्युश्च मन्न्युपतयश्च मन्न्युकृतेभ्यः पापेभ्यो रक्षन्ताम् ।

यदह्ना पापमकार्षम्मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना। 
अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि ।

इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥

पवित्रं गृहीत्वा आत्मानं जलं प्रोक्षयेत्

ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्म्मिभिः ॥

तस्य ते पवित्रपते पवित्र पूतस्य यत्काम पुने तच्छकेयम् ॥

वक्षमाण मन्त्रेण मूलमन्त्रमुच्चारयजलं परिक्रामयेत्

ॐ अपसर्पन्तु ये भूता ये भूता भूमिसंस्थिताः।

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥

ततो मार्जयेत्-

ॐ भूः पुनातु शिरसि ॐ भुवः पुनातु नेत्रयोः ॐ स्वः पुनातु कण्ठे ॐ महः पुनातु हृदये ॐ जनः पुनातु नाभ्याम् ॐ तपः पुनातु पादयोः ॐ सत्यं पुनातु पुनः शिरसि ॐ खं ब्रह्म पुनातु सर्वत्र ॥

पुनश्च मार्जनम्

 ॐ आपोहिष्ठामयोभुवः इति मस्तके ।
ॐ तान ऊर्जे दधातनः इति भूमौ ।
ॐ महेरणाय चक्षस इति हृदये ।
ॐ योवः शिवतमोरस इति हृदये।
ॐ तस्य भाजयतेहनः इति भूमौ ।
ॐ उशतीरिव मातरः इति मस्तके ।
ॐ तस्मा अरङ्ग मामवः इति मस्तके ।
ॐ यस्य क्षयाय जिन्वथः इति हृदये ।
ॐ आपो जनयथाचनः इति भूमौ ।

वामहस्ते जलं संस्थाप्य दक्षिणहस्तेन पिधाय मन्त्रं पठित्वा माजयेत्।

ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिवः ।

पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥

विनियोगः

दक्षिणहस्तस्थजलं नासिका समीपं नीत्वा मन्त्रं पठित्वा दर्शनं विनैव वामभागे क्षिपेत् ।

ॐ ऋतं च सत्यं चाभीद्धा तपसोऽध्यजायत ।

ततो रात्र्यजायत ततः समुद्रोऽअर्णवः ।

समुद्रादर्णवादधि संवत्सरोऽअजायत।

अहोरात्राणि विधदद्विश्वस्य मिषतो वशी।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।

दिवञ्च पृथिवीञ्चान्तरिक्षमथोस्वः ॥

 निम्नमन्त्रं पठित्वा जलाचमनं कुर्यात्

ॐ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।

त्वं यज्ञस्त्वं वषट्कार आपो ज्योति रसोमृतम्॥

मूलेन संपुटीकृत्य गायत्रीमन्त्रेण त्रिवारं सूर्यनारायणाय अर्घ्यं ददातु ।

अथवा
वक्षमाणमन्त्रेण चतुर्थवारं दद्यात् ।

ॐ आकृष्णेन रजसावर्तमानो निवेशयन्मृतं मर्त्यञ्च ।

हिरण्ययेन सविता रथेन देवो याति भुवनानि पश्यन् ।

ततो हस्तौ उपरिकृत्य सूर्याभिमुखो भूत्वा
मन्त्रं पठेत्

ॐ उद्वयन्तमसस्प्परिस्वः पश्यन्त उत्तरम् देवन्देवक्त्रा सूर्यमगन्न्म ज्ज्योतिरुत्तमम् ॥

ॐ उदुत्यञ्जातवेदसन्देवं व्वहन्ति केतवः दृशे विश्श्वाय सूर्यम् ॥


ॐ चित्रन्देवानामुदगादनीकञ्चक्षुर्मित्त्रस्य व्वरुणस्याग्नेः ।

आप्राद्यावा पृथिवीऽअन्तरिक्ष गुं  सूर्य आत्मा जगतस्तस्त्थुषश्च ॥


अत्र ब्याघ्रचक्षुषमुद्रयात्र सूर्यमण्डल वर्तिं नारायणं पश्यन्ति

ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्।

पश्येमशरदः शतञ्जीवेमशरदः शत गुं श्रृणुयामशरदः शतं प्रब्रवामशरदः शतमदीनाः ।

स्यामशरदः शतम्भूयश्च शरदः शतात् ।

श्रीसूर्यनारायणस्य प्रार्थनां कुर्यात् 
ॐ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥


ॐ पूषन्नेकर्षे यमसूर्यप्राजापत्य व्यूहरस्मीन् समूहतेजोयत्ते रूपं

कल्याणतमं तत्ते पश्यामि योसावसौ पुरुषः सोहमस्मि ॥


ॐ वायुरनिलममृतमथेदं भस्मान्त गुं शरीरम्

ॐ क्रतोश्मर क्लीवेश्मर कृत गुं श्मर ॥


ॐ अग्नेनय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम ॥

अत्र द्विवारं विष्णुगायत्रीं जपेत्

ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ।

ततः सूर्यन्नमस्कुयात्

ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।

संबाहूभ्यान्धमति संपतत्रैवाभूमिं जनयन्देव एकः ।

आसने स्थित्वा आचम्य न्यासं कुर्यात्

करन्यासः 
ॐ भूः अङ्गुष्ठाभ्यां नमः। ॐ भुवः तर्जनीभ्यां नमः ।
ॐ स्वः मध्यमाभ्यां नमः ।
ॐ तत्सवितुर्वरेण्यं अनामिकाभ्यां नमः ।
ॐ भर्गो देवस्य धीमहि । कनिष्ठिकाभ्यां नमः ।
ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ।

ततोऽङ्गन्यासः 
ॐ भूः ज्ञानाय हृदयाय नमः । ॐ भुवः ऐश्वर्याय शिरसे स्वाहा ।
ॐ स्वः शक्त्यै शिखायै वषट् । ॐ तत्सवितुर्वरेण्यं बलाय कवचाय हुम् ।
ॐ भर्गो देवस्य धीमहि तेजसे नेत्राभ्यां वौषट् । ॐ धियो यो नः प्रचोदयात् अस्त्रायफट् ॥

करन्यासः 
ॐ ॐ अङ्गुष्ठाभ्यां नमः ॐ नं तर्जनीभ्यां नमः ।
ॐ मों मध्यमाभ्यां नमः । ॐ नां अनामिकाभ्यां नमः
ॐ रां कनिष्ठिकाभ्यां नमः ॐ यं करतलकरपृष्ठाभ्यां नमः
ॐ णां दक्षिणनखेषु ।ॐ यं वामनखेषु ।

अङ्गन्यासः 
ॐ ॐ ज्ञानाय हृदयाय नमः । ॐ नं ऐश्वर्याय शिरसे स्वाहा ।
ॐ मों शक्त्यै शिखायै वषट् । ॐ नां बलाय कवचाय हुम् ।
ॐ रां तेजसे नेत्राभ्यां वौषट् । ॐ यं वीर्याय अस्त्राय फट् ।
ॐ णां उदरे। ॐ यं पृष्ठे ॥

 आवाहनमुद्रया गायत्रीं आवाहयेत्
  ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि प्रियन्देवाना मना धृष्टृन्देव यजनमसि ॥

गायत्रीप्रार्थना

बहुरूपिणि गायत्रि दिव्ये संध्ये सरस्वति ।
अजरे अमरे देवि ब्रह्मयोने नमोस्तु ते॥

जलं क्षिपेत् 
ब्रह्मशापाद्विमुक्ता भव ।
वशिष्ठशापाद्विमुक्ता भव ।
विश्वामित्र शापाद्विमुक्ता भव ।

ततश्चतुर्विंशति मुद्रा करणम्
सुमुखं संपुटं चैव विततं विस्तृतं तथा।

द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा ।

षण्मुखाधोमुखौ चैव व्यापकाञ्जलिकं तथा ।

शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ।

प्रलम्बं मुष्ठिकं चैव मत्स्यकूर्मवराहकम् ।

सिंहक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥

 मूलेन संपुटीकृत्य अर्थानुसंधानपूर्वकं सव्याहृतीकां गायत्रीं जपेत् ।

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृते: स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि 

सर्वं श्रीकृष्णार्पणमस्तु
हरिः ॐ तत्सत्

Leave a Reply

Your email address will not be published. Required fields are marked *