श्रीगुरुपरम्परापाठ

श्रीगुरुपरम्परापाठ

सर्वदेशदशाकालेष्वव्याहतपराक्रमा। 
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥
श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला। 
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥
 
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने। 
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
 यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥
 
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥
 
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥
माता पिता युवतयस्तनया विभूति: 
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं 
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥
भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान् 
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥
गुरुमुखमनधीत्य प्राह वेदानशेषान्, 
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्, 
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम् 
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥

॥ अब आफ्नो आफ्नो गुरुपरम्परा अनुसार गुरुपरम्परा पाठ गर्नु पर्दछ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *