श्रीगोदास्तुतिः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवों मे सन्निधत्तां सदा हृदि ॥
श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं
श्रीरङ्गराजहरिचन्दनयोगदृश्याम्।
साक्षात् क्षमा करुणया कमलामिवान्यां
गोदामनन्यशरणः शरणं प्रपद्ये ॥ १ ॥
वैदेशिकः श्रुतिगिरामपि भूयसीनां
वर्णेषु माति महिमा न हि मादशां ते।
इत्थं विदन्तमपि मां सहसैव गोदे
मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २ ॥
त्वत्प्रेयसः श्रवणयोरमृतायमानां
तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम्।
गोदे त्वमेव जननि त्वदभिष्टवाहीँ
वाचं प्रसन्नमधुरां मम संविधेहि ॥ ३ ॥
कृष्णान्वयेन दधतीं यमुनानुभावं
तीर्थैर्यथावदवगाह्य सरस्वती ते।
गोदे विकस्वरधियां भवतीकटाक्षात्
वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥ ४ ॥
अस्मादृशामपकृतौ चिरदीक्षितानाम्
अह्राय देवि दयते यदसौ मुकुन्दः।
तन्निश्चितं नियमितस्तव मौळिदाम्ना
तन्त्रीनिनादमधुरैश्च गिरां निगुम्भैः ॥ ५ ॥
शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा
वाचां प्रवाहनिवहेऽपि सरस्वती त्वम्।
अप्राकृतैरपि रसैर्विरजा स्वभावात्
गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६ ॥
वल्मीकतः श्रवणतो वसुधात्मनस्ते
जातो बभूव स मुनिः कविसार्वभौमः।
गोदे किमद्भतमिदं यदमी स्वदन्ते
वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः ॥ ७ ॥
भोक्तुं तव प्रियतमं भवतीव गोदे
भक्तिं निजां प्रणयभावनया गृणन्तः।
उच्चावचैर्विरहसङ्गमजैरुदन्तैः ।
शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८ ॥
मातः समुत्थितवतीमधिविष्णुचित्तं
विश्वोपजीव्यममृतं वचसा दुहानाम्।
तापच्छिदं हिमरुचेरिव मूर्तिमन्यां
सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम् ॥ ९ ॥
तातस्तु ते मधुभिदः स्तुतिलेशवश्यात्
कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम्।
त्वन्मौळिगन्धसुभगामुपहृत्य मालां
लेभे महत्तरपदानुगुणं प्रसादम् ॥ १० ॥
दिक् दक्षिणाऽपि परिपक्त्रिमपुण्यलभ्यात्
सर्वोत्तरा भवति देवि तवावतारात्।
यत्रैव रङ्गपतिना बहुमानपूर्वं
निद्राळुनाऽपि नियतं निहिताः कटाक्षाः ॥ ११ ॥
प्रायेण देवि भवतीव्यपदेशयोगात्
गोदावरी जगदिदं पयसा पुनीते।
यस्यां समेत्य समयेषु चिरं निवासात्
भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः ॥ १२ ॥
नागेशयः सुतनु पक्षिरथः कथं ते
जातः स्वयंवरपतिः पुरुषः पुराणः।
एवंविधाः समुचितं प्रणयं भवत्याः
सन्दर्शयन्ति परिहासगिरः सखीनाम् ॥ १३ ॥
त्वद्भुक्तमाल्यसुरभीकृतचारुमौळे:
हित्वा भुजान्तरगतामपि वैजयन्तीम्।
पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः
बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥ १४ ॥
आमोदवत्यपि सदा हृदयङ्गमाऽपि
रागान्विताऽपि लळिताऽपि गुणोत्तरापि।
मौळिस्रजा तव मुकुन्दकिरीटभाजा
गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५ ॥
त्वन्मौळिदामनि विभोः शिरसा गृहीते
स्वच्छन्दकल्पितसपीतिरसप्रमोदाः।
मञ्जुस्वना मधुलिहो विदधुः स्वयं ते
स्वायंवरं कमपि मङ्गळतूर्यघोषम् ॥ १६ ॥
विश्वायमानरजसा कमलेन नाभौ
वक्षःस्थले च कमलास्तनचन्दनेन।
आमोदितोऽपि निगमैर्विभुरङियुग्मे
धत्ते नतेन शिरसा तव मौळिमालाम् ॥ १७ ॥
चूडापदेन परिगृह्य तवोत्तरीयं ।
मालामपि त्वदळकैरधिवास्य दत्ताम्।
प्रायेण रङ्गपतिरेष बिभर्ति गोदे
सौभाग्यसम्पदभिषेकमहाधिकारम् ॥ १८ ॥
तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः
यं सर्वगन्ध इति सादरमुद्वहन्ति।
आमोदमन्यमधिगच्छति मालिकाभिः
सोऽपि त्वदीयकुटिलाळकवासिताभिः॥ १९ ॥
धन्ये समस्तजगतां पितुरुत्तमाङ्गे
त्वन्मौळिमाल्यभरसम्भरणेन भूयः।
इन्दीवरस्रजमिवादधति त्वदीया –
न्याकेकराणि बहुमानविलोकितानि ॥ २० ॥
रङ्गेश्वरस्य तव च प्रणयानुबन्धात्
अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः।।
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं
न्यूनाधिकत्वसमताविषयैर्विवादैः ॥ २१ ॥
दूर्वादळप्रतिमया तव देहकान्त्या
गोरोचनारुचिरया च रुचेन्दिरायाः।
आसीदनुज्झितशिखावळकण्ठशोभं
माङ्गळ्यदं प्रणमतां मधुवैरिगात्रम् ॥ २२ ॥
अर्घ्यं समर्च्य नियमैर्निगमप्रसूनैः
नाथं त्वया कमलया च समेयिवांसम्।
मातश्चिरं निरविशन् निजमाधिराज्यं
मान्या मनुप्रभृतयोऽपि महीक्षितस्ते ॥ २३ ॥
आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने।
पार्श्वे परत्र भवती यदि तत्र नासीत्
प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४ ॥
गोदे गुणैरपनयन् प्रणतापराधान्
भ्रूक्षेप एव तव भोगरसानुकूलः।
कर्मानुबन्धिफलदानरतस्य भर्तुः
स्वातन्त्र्यदुर्व्यसनमर्मभिदानिदानम् ॥ २५ ॥
रङ्गे तटिगुणवतो रमयैव गोदे
कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ २६ ॥
जातापराधमपि मामनुकम्प्य गोदे
गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः।
वात्सल्यनिर्भरतया जननी कुमारं
स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ २७ ॥
शतमखमणिनीला चारुकल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः।
अळकविनिहिताभिः स्रग्भिराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८ ॥
इति विकसितभक्तेरुत्थितां वेङ्कटेशात्
बहुगुणरमणीयां वक्ति गोदास्तुतिं यः।
स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ २९ ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ इति श्रीगोदास्तुतिः समाप्ता ॥