श्रीत्रिदण्डिविंशतिः
यस्सदा विजयते त्रिदंडिना
शैशवप्रभृतिसौहृदश्रिया ।
तं भजामि निगमांतदेशिकं
तॆल्किचर्लकुलगोपदेशिकम् ॥ ॥
श्रीश्रीनिवास यतिशेखरनित्यपूजा
कैंकर्यनिर्वहणधुर्य महार्यधैर्यम् ।
अज्ञानिनां भवजुषां शरणं त्रिदंडि-
नारायणार्यगुरुचंदिरमाश्रयामि ॥ १॥
तोताद्रिपीठगुरुवर्य निदेशलब्ध
काषायदंडमखसूत्रशिखाभिरामम् ।
बद्धात्मनां हृदयतापहरं शरण्यं
नारायणार्ययमिनं मनसा स्मरामि ॥ २ ॥
स्वामिन्! त्रिदंडिकुलभूषण! वासुदास
दिव्याश्रम स्थलकुटीर तटीनिवास!
संसारकर्दमगळावधि मग्नमेनम्
उद्धृत्य पाहि कृपया परया महात्मन्! ॥ ३ ॥
विद्वन्! गुरूत्तम! बहिर्विषयाभिलाष
गाढांधकारनिबिडीकृतदुष्टमार्गे ।
संसाररूपगहने विषमे चरंतं-
मामेत्य देहि भवदीयकटाक्षदीपम् ॥ ४ ॥
आकस्मिकप्रणयशीतलवीक्षणेन
नारायणेन कलितो हि तवावतारः ।
तत्तादृशस्य भवतः पदयोर्निवेश्य
भारं चरामि यतिशेखर ! यावदायुः ॥ ५ ॥
स्वामिन्! हिमाद्रिशिखरे बदरीप्रदेशे
यत्तप्तमार्षविधिना कठिनव्रतेन ।
तन्मंत्रतत्वमुपदिश्य भवार्तिभाजां
नारायणो मुनिरिवासि कलौ महात्मन् ॥ ६ ॥
जात्या द्विजत्वमुपगम्य गुरोस्समीपे
श्रीभाष्यमेत्य भगवद्विषयं प्रपद्य ।
गार्हस्थ्यधर्ममवलंब्य विसृज्य पश्चात्
श्रीभाष्यकार इव भाति भवान् त्रिदंडिन् ! ॥ ७ ॥
कंदाडवंशकलशोदधिपूर्णिमेन्दुं-
रामानुजार्यकरुणाविदितागमांतम् ।
गोपालसूरि सुहृदाशयबद्धभावं
नारायणार्ययतिवर्यमहं नमामि ॥ ८ ॥
अष्टाक्षरस्मरणसौरभपूरितेन
दिव्येन भक्तिमकरंदरसांचितेन ।
चित्ताम्बुजेन मृदुना परिशीतलेन
सोयं मदीय इति भावय देशिकेंद्र ! ॥ ९ ॥
सोऽयं पशुस्त्रिविध दोषपरीतचेताः
सर्वेश्वरो वदति मां प्रति न क्षमामि ।
कृत्वा रमाऽपि घटनां विफला बभूव
किं वा करोमि भगवन्! शरणं त्वमेव ॥ १०॥
नानाजनुष्कृतदुरंतमहाघरूप
पंके ममास्य हृदयं स्खलितं नित्तान्तम् ।
तत् क्षाळयामि यतिराज ! भवत्पवित्र
श्रीपाद तीर्थमधुना मयि संप्रसीद ॥ ११॥
तत्त्वं श्रियःपतिरिति प्रतिबोध्य लोकान्
आसेतुशीतनगपर्यटनं करोषि ।
तस्मात्पुनर्जनुसखाप स भाष्यकर्ते –
त्यालोच्य ते पदयुगं शरणं गतोऽस्मि ॥ १२॥
कृत्वा क्रतून् बहुविधान् सफलान् विशिष्टा –
द्वैतप्रचारक सभामपि कल्पयित्वा ।
भक्तिप्रभावमभितः कलयन् प्रजानां
उत्तारको भवसि संयमिसार्वभौम ॥ १३ ॥
मंत्रोपदेशविधिना च सुदर्शनांक –
दानेन पंडितसभाविषयप्रचारैः ।
सीतारघूत्तमचरित्रमहोत्सवाद्यैः
विभ्राजते भवदमानुषशक्तिरद्य ॥ १४ ॥
धन्योहमद्य गुरुशेखर! युष्मदंघ्रि-
संसेवनाश्रयणदर्शनपादतीर्थैः ।
मंत्रार्थदातरि गुरौ मनुजत्वबुद्धिः
अद्यैव मे विनिहता हृदयं प्रशांतम् ॥ १५ ॥
सत्यं वदामि यतिभूषण! किं बहूक्त्या
संसारभोगविषयाननुभूय चेतः ।
विष्णुं न कांक्षति नचेच्छति विष्णुभक्तान्
प्रारब्धकर्मवशतश्शरणं त्वमेव ॥ १६ ॥
अस्मादृशां विषयदोषमलीमसानां
स्वप्नेप्यलभ्यविषयं बदरीप्रयाणम् ।
तत्तादृशं यतिकुलोत्तम ! नस्त्वदीय
पादाब्जसंश्रयवशात्सफलं बभूव ॥ १७॥
विद्यार्थिनां च विदुषां विदुषीमणीनां
पूर्वार्जितेन सुकृतेन भवान् प्रसन्नः ।
तज्ज्ञानसंपदखिला भवता गृहीता
तत्त्वप्रचारविषये सफला बभूव ॥ १८ ॥
स्वामिन्! शुचिस्मितमुखोल्लसदूर्ध्वपुंड्र !
काषायवेष ! मृदुभाष! सुहृत्त्वभूष ।
श्रीमत्त्रिदण्डि गुरुदेव! मनोज्ञभाव !
रामानुजाख्ययतिराज! मयि प्रसीद ॥ १९ ॥
अस्मिन् कलौ गुरुकुलोचितधर्मशाली
ज्ञानोचिताचरणभाक् विजितेंद्रियश्च
नारायणार्ययतिशेखर एक एव
सत्यं ब्रवीमि सुजनाः! शृणुतास्मदुक्तिम् ॥ २०॥
विज्ञप्तिमित्थमकरोत्कविरत्ननामा
विज्ञानरत्नरुचिराय यतीश्वराय ।
अज्ञानतः प्रतिपदस्खलितापचारान्
प्रज्ञाघनास्सहृदयाः! कृपया क्षमध्वम् ॥ २१ ॥
इति यतिकुलराण्णरायणार्य
स्तुतिमिह विंशतिमादराच्छ्रितानाम् ।
वितरति भगवानखंडलक्ष्मीं
मतिमतुलां च निरत्ययं प्रसादम् ॥
श्रीत्रिदण्डिविंशतिः