श्रीमहासुदर्शनकवचम्
ॐ अस्य श्रीसुदर्शनकवचस्तोत्रमहामन्त्रस्य अहित भगवान् ऋषिः,
अनुष्टुप् छन्दः श्रीसुदर्शनमहानृसिंहो देवता सहस्रारमिति बीजं,
सुदर्शनमिति शक्तिः , चक्रमिति कीलकं ,
सर्वरक्षार्थे श्रीसुदर्शनपुरुषश्रीनृसिंहप्रीत्यर्थे (पाठे) विनियोगः।
करन्यास:
ॐ सं आचक्राय स्वाहा, अङ्गुष्ठाभ्यां नमः।
ॐ हं विचक्राय स्वाहा, तर्जनीभ्यां नमः।
ॐ स्रां सुचक्राय स्वाहा, मध्यमाभ्यां नमः।
ॐ रं सूर्यचक्राय स्वाहा, अनामिकाभ्यां नमः।
ॐ हुं ज्वालाचक्राय स्वाहा, कनिष्ठिकाभ्यां नमः।
ॐ फट् सुदर्शनचक्राय स्वाहा, करतलकरपृष्ठाभ्यां नमः।
अङ्गन्यास:
ॐ सं आचक्राय स्वाहा हृदयाय नमः।
ॐ हं विचक्राय स्वाहा शिरसे स्वाहा।
ॐ रां सुचक्राय स्वाहा शिखायै वषट्।
ॐ रं सूर्यचक्राय स्वाहा कवचाय हुम्।
ॐ हुं ज्वालाचक्राय स्वाहा नेत्राभ्यां वौषट्।
ॐ फट् सुदर्शनचक्राय स्वाहा अस्त्राय फट्।
ॐ भूर्भुव: स्वरोमिति दिग्बन्धः ।
ध्यानम्
शङ्ख चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशास्त्रं,
विभ्राणं वज्रखेटौ हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूर भूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुकुलप्राणसंहारचक्रम् ॥
सुदर्शन कवचम्
ॐ नमो भगवते सुदर्शनाय, भो भो सुदर्शन! दुष्टं दारय दारय, दुरितं हन हन, पापं दह दह, रोगं मर्दय मर्दय, आरोग्यं कुरु कुरु, ॐ ॐ, ह्रां ह्रां ह्रीं ह्रीं, ह्रूं ह्रूं, फट् फट, दह दह, हन हन, भीषय भीषय स्वाहा।
अथ कवचम्
मस्तकं मे सहस्रार: भालं पातु सुदर्शन: ।
भ्रुवौ मे चक्रराट् पातुनेत्रेद्वेsर्केन्दुलोचन: ॥ १ ॥
कर्णौ वेदै: स्तुत: पातु पातु घ्राणं विभीषण: ।
महादीप्त: कपोलौ मे ओष्ठं रुद्रवरप्रद: ॥ २ ॥
दन्तान्पातु जगद्वन्द्यो रसानां मम सर्वदा ।
सर्वविद्यार्णव: पातु गिरं वागीश्वरो मम ॥ ३ ॥
वीरसिंहो मुखं पातु चिबुकं भक्तवत्सल: ।
सर्वदा पातु मे कण्ठं मेघगम्भीरनिस्वन: ॥ ४ ॥
मम स्कन्धयुगं पातु धराभारापहारक: ।
बाणासुरभुजारण्यदावाग्नि: पातु मे भुजौ ॥ ५ ॥
कालनेमिशिरश्छेत्ता पातु मे कूर्परद्वयम् ।
करौ दिव्यायुध: पातु नखान्वज्रनखोपम: ॥ ६ ॥
कुक्षौ पातु महाशूर: स्तनौ शत्रुनिषूदन: ।
पातु मे हृदयं भक्तजनानन्दश्च सर्वदा ॥ ७ ॥
सर्वशास्त्रार्थसद्भूतिहेतु: पातूदरं मम ।
वक्ष: पातु महाधारो दिवि दानवमर्दन: ॥ ८ ॥
पार्श्वौ मे पातु दीनार्तशरणागतवत्सल: ।
सर्वदा पृष्ठदेशं में देवानामभयप्रद: ॥ ९ ॥
नाभिंषट्कोणधामा मे पातु घंटारव: कटिम् ।
आदिमूल: पुमान्पातु गुह्यदेशंनिरन्तरम् ॥ १० ॥
उरु पातु महाशूरो जानुनी भीमविक्रम: ।
जंघे पातु महावेगो गुल्फे पातु महाबल: ॥ ११ ॥
पादौ पातु सदा श्रीदो ब्रह्माद्यैरभिवन्दित: ।
पातु पादतलद्वन्द्वं विश्वाभारो निरन्तरम् ॥ १२ ॥
सुदर्शननृसिंहो मे शरीरं पातु सर्वदा ।
ममसर्वाङ्गरोमाणि ज्वालाकेशस्स रक्षतु ॥ १३ ॥
अन्तर्बहिश्च मे पातु विश्वात्मा विश्वतोमुख: ।
रक्षाहीनञ्च यत्स्थानं प्रचण्डस्तत्र रक्षतु ॥ १४ ॥
सर्वतो दिक्षु मे पातु ज्वालाशतपरीवृत: ।
त्रिनेमि: पातुमत्प्राणान् भ्रातन्पात्वनलद्युति: ॥ १५ ॥
भार्यां लक्ष्मीसख: पातु पुत्रान्पातु सुदर्शन: ।
श्रीकरो मे श्रिय:पातु बन्धून्पातु बलाधिक: ॥ १६ ॥
गोपांश्चैव पशून्पातु सहस्रारधर: सदा ।
क्षेत्रं विश्वम्भर: पातु मित्रं पात्वघनाशन: ॥ १७ ॥
दिवारात्रौ च मां पातु अहिर्बुध्न्यवरप्रद: ।
षोडशोत्तुङ्गबाहुस्तु पातु में राजसंमुखम् ॥ १८ ॥
वैरिविद्वेषसङ्घे तु संग्रामे शत्रुसूदन: ।
अवान्तरा अबाधाश्च त्रासयेत्सार्वकालिकम् ॥ १९ ॥
आधिव्याधिमहाव्याधि मध्यतोपद्रवेsपि च ।
अल्पमृत्युमहामृत्यू नाशयेच्चक्रनायक: ॥ २० ॥
परप्रयुक्तमन्त्रांश्च यन्त्रतन्त्रविभञ्जन: ।
सुदर्शनोsयमस्माकं दुर्दशादु:खनाशन: ॥ २१॥
सर्वसम्पत्प्रदाता मां चक्रराजो निरन्तरम् ।
जपं पातु जगद्वन्द्यो मानसामक्षयप्रद: ॥ २२ ॥
प्रमादांश्चास्त्रधामासौ ज्ञानं रक्षतु सर्वदा ।
अणिमादिमहैश्वर्य्यं पातुसाम्राज्यसिद्धिद: ॥ २३ ॥
तिर्यग्ज्वालाग्निरुपश्च नष्टराज्यार्थदो मम ।
राज्यं पातु सहस्रार: पदार्तिं पातु वाच्युत: ॥ २४ ॥
चतुरङ्गबलस्तोमं रक्ष त्वं चक्रभावन ।
ज्योतिर्मयश्चक्रराज: सर्वान्वरुणरक्षक: ॥ २५॥
अखण्डमण्डित: पातु परचक्रापहारक: ।
त्रिविक्रमश्चक्रराज: पातु धैर्यं सदा मम ॥ २६ ॥
नभो दशदिशव्याप्तिकीर्ति पातु सुदर्शन: ।
आयुर्बलं धृतिं पातु लोकत्रयभयापह: ॥ २७ ॥
सुधामण्डलसंविष्टो मायापञ्च सुशीतल: ।
राजद्वारे सभामध्ये पातु मां चण्डविक्रम: ॥ २८ ॥
पूर्वे सुदर्शन: पातु आग्नेये पातु चक्रराट् ।
याम्ये रथाङ्गक: पातु त्रिनेमि: पातुनैॠते ॥ २९ ॥
लोकत्रयप्रभाकारज्वालो रक्षतुपश्चिमे ।
षट्कोण: पातु वायव्ये ह्यस्रराजोत्तरां दिशम् ॥ ३० ॥
ऐशान्यं चक्रराट् पातु मध्ये भूचक्रचक्रिण: ।
अनन्तादित्यसङ्काश: क्ष्मान्तरिक्षौ च पातु मे ॥ ३१ ॥
सर्वतो दिक्षु मे पातु ज्वाला साहस्रसंवृत: ।
एवं सर्वत्र संरक्ष सर्वदा सर्वरुपवान् ॥ ३२ ॥
सकार: पृथिवी ज्ञेयो हकार उप उच्यते ।
स्रकारो वायुरुक्तश्च रकारोम्बर उच्यते ॥ ३३ ॥
हुंकारमग्निरित्याहु: फट्कारं सूर्यरुपकम् ।
स्वाहाकारं न्यसेन्मूर्ध्नि पीतरक्तसुवर्णकम् ॥ ३४ ॥
सकारं नासिकायान्तु हकारं वदने न्यसेत् ।
स्रकारं हृदयेचैव सृष्टिसंहारकारणम् ॥ ३५ ॥
रकारं विन्यसेद्गुह्य हुंकारं जानुदेशके ।
फकारं गुल्फदेशेतु टकारं पादयोर्न्यसेत् ॥ ३६ ॥
सर्वाणि चैव वर्णानि जाप्यान्यंगुलिपर्वसु ।
क्षिप्रं सौदर्शनञ्चक्रं ज्वालामालातिभीषणम् ॥ ३७ ॥
सर्वदैत्यप्रशमनं कुरु देववराच्युत ।
सुदर्शन महाज्वाला छिन्धि छिन्धि सुवेदनाम् ॥ ३८ ॥
परयन्त्रञ्च तन्त्रञ्च छिन्धि मन्त्रौषधादिकम् ।
सुदर्शन महाचक्र गोविन्दस्य करायुध ॥ ३९ ॥
सूक्ष्माधारमहावेग छिन्धि छिन्ध सुभैरवम् ।
छिन्धि पातञ्च लूतञ्च छिन्धि घोरं महद्विषम् ॥ ४० ॥
इति सौदर्शनं दिव्यं कवचं सर्वकामदं ।
सर्वबाधाप्रशमनं सर्वव्याधिविनाशकम् ॥ ४१ ॥
सर्वशत्रुक्षयकरं सर्वमंगलदायकम् ।
त्रिसन्ध्यं विजयं नृणां सर्वदा विजयप्रदम् ॥ ४२ ॥
सर्वपापप्रशमनं भोगमोक्षैकसाधनम् ।
प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नर: ॥ ४३ ॥
तस्य सर्वेषु कालेषु विघ्न: क्वापि न जायते ।
यक्षराक्षसवेताल भैरवाश्च विनायका: ॥ ४४ ॥
शाकिनी डाकिनी ज्येष्ठानिद्राबालग्रहादय: ।
भूतप्रेतपिशाचाद्या अन्येदुष्टग्रहा अपि ॥ ४५ ॥
कवचस्यास्य जप्तारं दृष्टमात्रेण तेsखिला: ।
पलायन्ते यथा नागा:पक्षिराजस्य दर्शनात् ॥ ४६ ॥
अस्यायुतं पुरश्चर्यं दशांशं तिलतर्पणम् ।
हवनं तर्पणञ्चैव तर्पणं गंधवारिणा ॥ ४७ ॥
पुष्पाञ्जलिर्दशांशं च मिष्टान्नं सघृतप्लुतम् ।
चतुर्विंशद्विजान् भोज्य तत: कार्याणि साधयेत् ॥ ४८ ॥
विन्यस्याङ्गेष्विदंधीरो युद्धार्थं योsभिगच्छति ।
रणे जित्वाखिलाञ्छ्त्रून्विजयी भवतिध्रुवम् ॥ ४९ ॥
मंत्रिताम्बुत्रिवारं वा पिबेत्सप्तदिनावधि ।
व्याधय: प्रविनश्यन्ति सकला: कुक्षिसंभवा: ॥ ५० ॥
मुखप्रक्षालने नेत्रनासिकारोगनाशनम् ।
भीतानामभिषेकञ्च महाभयनिवारणम् ॥ ५१ ॥
सप्ताभिमन्तृतानेन तुलसीमूलमृत्तिका ।
लोपन्न्श्यन्ति ते रोगा:सद्य: कुष्ठादयोsखिला: ॥ ५२ ॥
ललाटे तिलकं स्त्रीणां मोहनं सर्ववश्यकृत् ।
परेषां मन्त्रयन्त्राणि तन्त्राण्यपि विनाशकृत् ॥ ५३ ॥
व्याल सर्पादि सर्वेषां विषापहरणं परम् ।
सौवर्णे रजतेवापि भूर्जे ताम्रादिकेsपिवा ॥ ५४ ॥
लिखित्वात्वर्चयेद्भक्त्या स श्रीमान्भवतिध्रुवम् ।
बहुना किमिहोक्तेन यद्यद्वाञ्छति यो नर: ।
सकलं प्राप्नुयादस्य कवचस्य प्रसादत: ॥ ५५ ॥
श्रीमहासुदर्शनकवचम्