श्रीयादगिरि लक्ष्मीनृसिंह प्रपत्तिः
लक्ष्मीनृसिंह ललनाम् जगतोस्यनेत्रीम्
मातृस्वभाव महिताम् हरितुल्य शीलाम् ।
लोकस्य मङ्गळकरीम् रमणीय रूपाम्
पद्मालयाम् भगवतीम् शरणम् प्रपद्ये ॥ १॥
श्रीयादनामकमुनीन्द्रतपोविशेषात्
श्रीयादशैलशिखरे सतत प्रकाशौ ।
भक्तानुरागभरितौ भवरोग वैद्यौ
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ २॥
देवस्वरूप विकृतावपिनैजरुपौ
सर्वोत्तरौ सुजन सरु निशेव्यमानौ ।
सर्वस्य जीवनकरौ सद्रृशस्वरूपौ
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ३॥
लक्ष्मीशते प्रपदने सहकारभूतौ
त्वत्तोप्यति प्रियतमौ शरणागतानाम् ।
रक्षाविचक्षण पटू करुणालयौ श्री
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ४॥
प्रह्लाद पौत्र बलिदानव भूमिदान
कालप्रकाशित निजान्य जघन्य भावौ ।
लोकप्रमाण करणौ शुभदौ सुरानाम्
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ५॥
कायादवीय शुभमानस राजहंसौ
वेदान्त कल्पतरु पल्लव टल्लि जौतौ ।
सद्भक्त मूलधनमित्युदित प्रभावौ
लक्ष्मीनृसिंह चरणौ शरणम् प्रपद्ये ॥ ६॥ ।
॥ इति नरसिंहाचार्य विरचितं श्रीयादगिरिलक्ष्मीनृसिंह प्रपत्तिः ॥