श्रीयोगिराजस्वामिनां मुक्तकश्लोकाः
भाद्रमासे शुभे कृष्णे दशम्यां रविवासरे ।
आर्द्राभे भुवि जाताय (श्री) कमलाक्षाय मङ्गलम् ॥१॥
श्रीकौशिकान्वयपयोनिधिपूर्णचन्द्र,
श्रीस्वाम्यनन्तगुरुवर्यपदाब्जभृङ्गम् ।
अष्टयङ्गयोगनिपुणं चरमार्थनिष्ठं
भक्त्या भजामि महितं कमलाक्षसूरिम् ॥२॥
जगद्वन्द्यं श्रीमत्कुशिककुलचन्द्रं द्विजवरं
सदानन्ताचार्ये गुरुकुलमणावाहितधियम् ।
यमादीनां विज्ञं चरमपुरुषार्थैकविभवं
भजे भक्त्या नित्यं कमलनयनार्यं गुरुवरम् ॥३॥
सकलजगति सिद्धं चन्द्रकान्त्याभकीर्ति
कुशिककुलकदीपं साधिताष्यङ्गयोगम्।
परमगुरुमनन्ताचार्यपादैकभृङ्ग,
कमलनयनमार्यं योगिराजं भजामि ॥४॥
लक्ष्मीशवंशजनपङ्कजभास्करेन्द्रः,
संसारकर्दमजनस्य यथा वसन्तः ।
षड्वर्गवेगशमनाय यथा नरेन्द्रो
निर्वैदिकासुरजनेषु यथा सुरेन्द्रः ॥५॥
तादृग्गुणो गुरुवरो मम देशिकेन्द्रो
विश्वंभराक्रमकृते भगवानुपेन्द्रः ।
विद्याप्रसन्नगतिको भुवि मानवानां
तस्मै नमो गुरुवराय दयाश्रयाय ॥६॥
प्राच्यादिपश्चागिरिपूतपादो,
ह्यब्भक्षशब्देन च चक्षमाणः ।
के खे स्थितं सर्वजगन्निदानं
साक्षाद्धि कुर्वन् दहरे सरोजे ॥७॥
गोदानदक्षं विनयैर्विलक्ष्यं,
परेऽपि मैत्रेण च सञ्चरन्तम् ।
आचार्यवर्यङ्करणैरहार्यं
तं नौमि नित्यं कमलाक्षसूरिम् ॥८॥
भवसागरजीवसमुद्धरणे
जितमानसरावणदुःकरणे ।
परितोदधिमेखलका पृथिवी
जठरानलशामितनिष्करणे ॥९॥
परलोकपथे प्रणनाय मतौ
मम सर्वगतौ कमलेशयतौ ।
जय हे जय हे जय हे जय हे
जयतां जयतां जयतां जयताम् ॥१०॥
॥ इति मुक्तकश्लोकाः ॥