श्रीयोगिराजस्वामिमङ्गलाशासनम्

श्रीयोगिराजस्वामिमङ्गलाशासनम्

मङ्गलं योगिवर्याय लक्ष्मीशप्रतिमूर्तये
कौशिकाब्धीशचन्द्राय कमलाक्षाय सूरये ॥ १॥
मङ्गलं रामकृष्णाद्यवतारोत्सवकारिणे ।
श्रीशानुभवसिद्धाय कमलाक्षाय योगिने ॥ २ ॥
मङ्गलं वादिभीकार्यानन्ताचार्यदयावसात् ।
लब्धसर्वार्थशास्त्राय कमलाक्षाय योगिने ॥ ३ ॥
मङ्गलं गुरुवर्याय श्रीसनातनवैदिकम् ।
धर्मलोप्तुं प्रवृत्तानां शिरोवज्रवराङ्घ्रये ॥ ४ ॥
यज्ञैः सुविततैर्लोके देवानां मोदकारिणे ।
कमलाक्षाय सेव्याय नित्यश्रीर्नित्यमंगलम् ॥ ५ ॥
योगसिद्ध्याद्भूतैः कार्यैः लोकमङ्गलभाविने ।
कमलाक्षाय सर्वत्र नित्यश्रीर्नित्यमङ्गलम् ॥ ६ ॥
रामानुजार्यदिव्याज्ञावृद्धये देशचारिणे ।
मुनये कमलाक्षाय नित्यश्रीर्नित्यमङ्गलम् ॥ ७ ॥
सर्वलोकहितार्थाय भूटाननगरादिषु ।
विष्णुधर्मप्रचाराय योगिराजाय मङ्गलम् ॥८ ॥
पयोमात्रकृताहारसम्भूतामलमूर्तये ।
सूरये कमलाक्षाय नित्यश्रीर्नित्यमंगलम् ॥ ९ ॥
इति श्रीयोगिराजस्वामिमङ्गलाशासनम्

Leave a Reply

Your email address will not be published. Required fields are marked *