श्रीरङ्गदेशिकस्वामिनां प्रपत्तिः
वृन्दावने विनमतां महतां वृतौ द्वौ
वृन्दावने स्थितिमतामपि देहभाजाम् ।
मन्दारकल्प-मणिकल्पवदान्यभावौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥१॥
प्राभातिकाम्बुरुहडम्बरचौर्यनिघ्न-
प्राभातिकाम्यनिज-सुन्दरविग्रहौ द्वौ ।
भोग्यौ तथा विनमदिष्टविधानयोग्यौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥२॥
ज्ञानं च भक्तिरपि यस्य च शास्त्रसाह्यं
कालक्षपाप्रसहनं ननु तस्य भक्त्या ।
प्राप्यं हि तद्विरहितस्य सुगेयतस्तौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥३॥
कामाद्युपायमवलम्ब्य कथंचिदन्यैः
कर्माखिलं ननु जिहासितमास कष्टम् ।
अस्मादृशां यदवलम्बनमेव न्यायात्
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥४॥
स्वं पारतन्त्र्यविभवं विमृशन्नुपाया-
नन्यान् विरुद्धगतिकानवलोक्य तस्य ।
बुद्ध्यैव तान् विजहदात्मगुणानुरूपौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥५॥
कर्मेति धीरिति च भक्तिरिति ह्युपाया-
नासन् मनोहरतराः सुकरा प्रपत्तिः ।
कान्तापि तुल्यविभवा नहि सापि याभ्यां
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥६॥
सत्यं च सत्यमपि सत्यमृजुस्वबाहु
प्रोद्धृत्य राजपथमध्यमधिष्ठितः सन् ।
याभ्यां परं न जगतीति वदेद् विपश्चित्
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥७॥
अत्राप्यमुत्र च गतिर्मम यौ भवेतां
निर्मूलने हतककर्मततेः क्व तस्थौ ।
पंफुल्यमाननवतामरसाभिरामौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥८॥
मत्सन्ततेर्नियमतो ननु यावभूतां
माता पिता तनयबन्धुसुहृत्समाजः ।
तौ द्वौ परस्परसदृक्षनिजस्वरूपौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥९॥
ध्वान्तं हृदन्तरनिरूढ-महार्यमन्यै-
र्ध्वस्तं ययोर्नखसितांशु-गभस्तिभिर्नः ।
तावङ्गुलीनखशिखाद्युतिशोभमानौ
तावङ्गुलीनखशिखाद्युतिशोभमानौ
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥१०॥
श्रीमत्त्रयीशिखरयुग्मविहारचारु-
श्रीरङ्गराजचरणार्थनया तथैव ।
श्रीलिप्सया प्रतिभुवौ भजतां जनानां
श्रीरङ्गसूरिचरणौ शरणं प्रपद्ये ॥११॥
आकस्मिकी हरिदयापि कृतावतारा
संशोषयेन् न खलु संसृतिसागरं हि।
यस्याभिमानसहकारमृते गुरोर्मे
तस्याब्जतुल्यचरणौ शरणं प्रपद्ये ॥१२॥
॥ इति श्रीरङ्गदेशिकस्वामिनां प्रपत्तिः ॥