श्रीवैकुण्ठगद्यम्
यामुनार्यसुधाम्भोधिमवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं,
क्लेशकर्माद्यशेषदोषासंस्पृष्टं,स्वाभाविकानवधिकातिश-ज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं,
परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च
परिगृह्य ऐकान्तिकात्यन्तिकतत्पादाम्बुजद्वयपरिचर्यैकमनोरथः,
तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि
साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्याखिलसत्त्व-
दयैकसागरस्यानालोचितगुणगणाखण्डजनानुकूलमर्यादाशीलवतः
स्वाभाविकानवधिकातिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजन-
हृदयानन्दनस्य आश्रितवात्सल्यैकजलधेः भक्तजनसंश्लेषैकभोगस्य
नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूतेः
श्रीमच्चरणारविन्दयुगलमनन्यात्मसञ्जीवनेन तद्गतसर्वभावेन
शरणमनुव्रजेत् ॥
ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ।
चतुर्दशभुवनात्मकमण्डं दशगुणितोत्तरं चावरणसप्तकं
समस्तं कार्यकारणजातमतीत्य परमव्योमशब्दाभिधेये
ब्रह्मादीनां वाङ्मनसाऽगोचरे श्रीमति वैकुण्ठे दिव्यलोके
सनकविधिशिवादिभिरपि अचिन्त्यस्वभावैश्वर्यैः
नित्यसिद्धैरनन्तैः भगवदानुकूल्यैकभोगैः दिव्यपुरुषैः
महात्मभिरापूरिते, तेषामपि इयत्परिमाणमियदैश्वर्यं
ईदृशस्वभावमिति परिच्छेत्तुमयोग्ये दिव्यावरणशतसहस्रावृते
दिव्यकल्पकतरूपशोभिते दिव्योद्यानशतसहस्रकोटिभिरावृते
अतिप्रमाणे दिव्यायतने कस्मिंश्चिद्विचित्रदिव्यरत्नमयदिव्यास्थानमण्डपे
दिव्यरत्नस्तम्भशतसहस्रकोटिभिरुपशोभिते
दिव्यनानारत्नकृतस्थलविचित्रिते दिव्यालङ्कारालङ्कृते
परितः पतितैः पतमानैः पादपस्थैश्च नानागन्धवर्णैः
दिव्यपुष्पैः शोभमानदिव्यपुष्पोपवनैरुपशोभिते,
सङ्कीर्णपारिजातादिकल्पद्रुमोपशोभितैरसङ्कीर्णैश्च
कैश्चिदन्तस्थपुष्परत्नादिनिर्मितदिव्यलीलामण्टपशतसहस्रोप-
शोभितैस्सर्वदानुभूयमानैरप्यपूर्ववदाश्चर्यमावहद्भिः
क्रीडाशैलशतसहस्रैरलङ्कृतैः कैश्चिन्नारायणदिव्यलीलाऽसाधारणैः
कैश्चित्पद्मवनालया दिव्यलीलासाधारणैः
कैश्चिच्छुकशारिकामयूरकोकिलादिभिः कोमलकूजितैराकुलैः
दिव्योद्यानशतसहस्रकोटिभिरावृते, मणिमुक्ताप्रवालकृतसोपानैः
दिव्यामलामृतरसोदकैः दिव्याण्डजवरैरतिरमणीयदर्शनैः
अतिमनोहरमधुरस्वरैराकुलैः अन्तस्स्थमुक्तामयदिव्यक्रीडास्थानोपशोभितैः
दिव्यसौगन्धिकवापीशतसहस्रैः दिव्यराजहंसावलीविराजितैरावृते,
निरस्तातिशयनानन्दैकरसतया चानन्त्याच्च प्रविष्टानुन्मादयद्भिः
क्रीडोद्देशैर्विराजिते, तत्र तत्र कृतदिव्यपुष्पपर्यङ्कोपशोभिते,
नानापुष्पासवास्वादमत्तभृङ्गावलीभिरुद्गीयमानदिव्यगान्धर्वेणापूरिते
चन्दनागरुकर्पूरदिव्यपुष्पावगाहि मन्दानिलासेव्यमाने, मध्ये
पुष्पसञ्चयविचित्रिते, महति दिव्ययोगपर्यङ्के अनन्तभोगिनि,
श्रीमद्वैकुण्ठैश्वर्यादि दिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या
शेषशेषाशनादि सर्वं परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या,
शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनं,
प्रत्यग्रोन्मीलितसरसिजसदृशनयनयुगलं, स्वच्छनीलजीमूतसङ्काशं
अत्युज्वलपीतवाससं स्वया प्रभयाऽतिनिर्मलयाऽतिशीतलयाऽतिकोमलया
स्वच्छमाणिक्याभया कृत्स्नं जगद्भावयन्तं
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतसागरं,
अतिसौकुमार्यादीषत्प्रस्विन्नवदालक्ष्यमाणललाटफलक-
दिव्यालकावलीविराजितं, प्रबुद्धमुग्धाम्बुजचारुलोचनं,
सविभ्रमभ्रूलतमुज्वलाधरं, शुचिस्मितं, कोमलगण्डमुन्नसं,
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरं,
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः
चतुर्भिराजानुविलम्बिभिर्भुजैर्विराजितं, अतिकोमल
दिव्यरेखालङ्कृताताम्रकरतलं, दिव्याङ्गुलीयकविराजितं
अतिकोमलदिव्यनखावलीविराजितमतिरक्ताङ्गुलीभिरलङ्कृतं,
तत्क्षणोन्मीलितपुण्डरीकसदृशचरणयुगलमतिमनोहरकिरीटमकुटचूडावतंस-
मकरकुण्डलग्रैवेयकहारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बर-
काञ्चीगुणनूपुरादिभिरत्यन्तसुखस्पर्शैर्दिव्यगन्धैर्भूषणैर्भूषितं, श्रीमत्या वैजयन्त्या
वनमालया विराजतं, शङ्खचक्रगदासिशार्ङ्गादिदिव्यायुधैः सेव्यमानं,
स्वसङ्कल्पमात्रावकॢप्तजगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने
न्यस्तसमस्तात्मैश्वर्यं, वैनतेयादिभिः स्वभावतो निरस्तसमस्तसांसारिकस्वभावैः भगवत्परिचर्याकरणयोग्यैर्भगवत्परिचर्यैकभोगैः नित्यसिद्धैरनन्तैर्यथायोगं
सेव्यमानमात्मभोगेनानुसंहितपरादिकालं,
दिव्यामलकोमलावलोकनेन विश्वमाह्लादयन्तमीषदुन्मीलित-
मुखाम्बुजोदरविनिर्गतेन दिव्याननारविन्दशोभाजननेन
दिव्यगाम्भीर्यौदार्यसौन्दर्यमाधुर्याद्यनवधिकगुणगणविभूषितेन
अतिमनोहरदिव्यभावगर्भेण दिव्यलीलालापामृतेन
अखिलजनहृदयान्तराण्यापूरयन्तं भगवन्तं नारायणं
ध्यानयोगेन दृष्ट्वा ततो भगवतो नित्यस्वाम्यमात्मनो
नित्यदास्यं च यथावस्थितमनुसन्धाय कदाहं भगवन्तं
नारायणं मम कुलनाथं मम कुलदैवतं मम कुलधनं मम भोग्यं मम मातरं मम पितरं मम सर्वं साक्षात्करवाणि चक्षूषा ।
कदाहं भगवत्पादाम्बुजद्वयं शिरसा सङ्ग्रहीष्यामि ।
कदाहं भगवत्पादाम्बुजद्वयं परिचर्याऽऽशया निरस्तसमस्तेतर-
भोगाशोऽपगतसमस्तसांसारिकस्वभावः तत्पादाम्बुजद्वयं
प्रवेक्ष्यामि । कदाहं भगवत्पादाम्बुजद्वयं परिचर्याकरणयोग्यः
तत्पादौ परिचरिष्यामि । कदा मां भगवान् स्वकीययाऽतिशीतलया
दृशाऽवलोक्य स्निग्धगम्भीरमधुरया गिरा परिचर्यायां
आज्ञापयिष्यतीति भगवत्परिचर्यायामाशां वर्धयित्वा
तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य दूरादेव
भगवन्तं शेषभोगे श्रिया सहासीनं वैनतेयादिभिः
सेव्यमानं “समस्तपरिवाराय श्रीमते नारायणाय नम”
इति प्रणम्योत्थायोत्थाय पुनः पुनः प्रणम्य अत्यन्त
साध्वसविनयावनतो भूत्वा भगवत्पारिषदगणनायकैर्द्वारपालैः
कृपया स्नेहगर्भया दृशाऽवलोकितः सम्यगभिवन्दितैः
तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण मां
ऐकान्तिकात्यन्तिकपरिचर्याकरणाय परिगृह्णीष्वेति याचमानः
प्रणम्यात्मानं भगवते निवेदयेत् ।
ततो भगवता स्वयमेवात्मसञ्जीवनेन मर्यादाशीलवता
अतिप्रेमान्वितेनावलोकनेनावलोक्य सर्वदेशसर्वकाल-
सर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातश्च
अत्यन्तसाध्वसविनयावनतः किङ्कुर्वाणः कृताञ्जलिपुटो
भगवन्तमुपासीत ।
ततश्चानुभूयमानभावविशेषः निरतिशयप्रीत्याऽन्यत्किञ्चित्
कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानो
भगवन्तमेव अविच्छिन्नस्त्रोतोरूपेणावलोकयन्नासीत ।
ततो भगवता स्वयमेवात्मसञ्जीवनेनावलोकनेनावलोक्य
सस्मितमाहूय समस्तक्लेशापहं निरतिशयसुखावहमात्मीयं
श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वाऽमृतसागरान्तः
निमग्नसर्वावयवः सुखमासीत ॥
॥ इति श्रीवैकुण्ठगद्यम् ॥