श्री गुणरत्नकोशः
श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितः
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १॥
उल्लासपल्लवितपालितसप्तलोकी-
निर्वाहकोरकित नेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां
श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २॥
अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफाः
रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३॥
यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः
वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति ।
भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४॥
यद्यावत्तववैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः ।
अप्येवं तव देवि! वाङ्मनसयोर्भाषानभिज्ञं पदं
का वाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५॥
स्तोतारं तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः
क्षान्त्यौदार्यदयादयो भगवति! स्वां प्रस्नुवीरन् प्रथाम् ॥ ६॥
सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्भनगौरवैर्यां
कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७॥
अनाघ्रातावद्यं बहुगुणपरीणाहि मनसो
दुहानं सौहार्दं परिचितमिवाथापि गहनम् ।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः
त्वमेव श्रीर्मह्यं बहुमुखय वाणीविलसितम् ॥ ८॥
श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्यां भगवतीं
श्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम् ।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९॥
देवि! श्रुतिं भगवतीं प्रथमे पुमांसः
त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास-
सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १०॥
आहुर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतत्
राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।
भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्षुः
ये ते श्रीरङ्गहर्म्याङ्गणकनकलते! न क्षणं लक्ष्यमासन् ॥ ११॥
मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसिनिगूढं लक्ष्मि! ते वीक्षमाणाः ।
निधिमिव महिमानं भुञ्जते येऽपि धन्याः
ननु भगवति! दैवीं सम्पदं तेऽभिजाताः ॥ १२॥
अस्येशाना जगत इतितेऽधीमहे यां समृद्धिं
श्रीः! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः
तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥ १३॥
उद्बाहुस्त्वामुपनिषदसावाह नैका नियन्त्रीं
श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः
नित्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४॥
आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्
ऐश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये ।
तुङ्गं मङ्गलमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषाः विप्रुषः ॥ १५॥
एको मुक्तातपत्रप्रचलमणिघणत्कारिमौलिर्मनुष्यः
दृप्यद्दन्तावळस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् ।
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपङ्क्ती
तत्ते श्रीरङ्गराजप्रणयिनि नयनोदञ्चितान्यञ्चिताभ्याम् ॥ १६॥
रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः
सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता ।
ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥ १७॥
सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः
अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् ।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि! तत्ताण्डवम् ॥ १८॥
काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः
भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्सर्वतः
श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥ १९॥
शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् ।
पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥ २०॥
यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छ्तो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां
तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥ २१॥
हेलायामखिलं चराचरमिदं भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२॥
आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां
याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥ २३॥
तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः ।
स्नेहादास्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यै-
रानन्दैकार्णवं श्रीर्भगवति! युवयोराहुरास्थानरत्नम् ॥ २४॥
तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हता त्वामसङ्ख्यैः
अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि! बध्नासि भोगान् ॥ २५॥
भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा
याभिस्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६॥
ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैः
भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः
हे श्रीः! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७॥
स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने!
त्वदाश्लेषोत्कर्षात् भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः! श्रीः! कमितुरिदमित्थं त्वविभवः
तदन्तर्भावात्त्वां न पृथगभिदधत्ते श्रुतिरपि ॥ २८॥
तव स्पर्शादीशं स्पृशति कमले! मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।
प्रसूनं पुष्यन्तीमपि परिमलर्धिं जिगदिषुः
न चैवं त्वा देवं स्वदत इति कश्चित्कवयते ॥ २९॥
अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभू-
दमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३०॥
स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एवैश भगवान्
त्वदायत्तर्धित्वेऽप्यभवदपराधीनविभवः ।
स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं
न कुण्ठस्वातन्त्र्यं भवति न चान्याहितगुणम् ॥ ३१॥
प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा-
प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे!
तव भगवतश्चैते साधारणाः गुणराशयः ॥ ३२॥
अन्येऽपि यौवनमुखाः युवयोस्समानाः
श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति!
तस्मिंस्तव त्वयि च तस्य परस्परेण
संस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३॥
युवत्वादौ तुल्येऽप्यरवशताशत्रुशमन-
स्थिरत्वादीन्कृत्वा भगवति! गुणान् पुंस्त्वसुलभान् ।
त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणा-
क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥ ३४॥
घनकनकद्युती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥ ३५॥
अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः
क्षीराब्धेः किमृजीषतामुपगताः मन्ये महार्घास्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६॥
प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन ।
कनकनिकषचञ्चच्चम्पकस्रक्समान-
प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७॥
एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् ।
त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष-
स्फारापाङ्गतरङ्गमम्ब! मधुरं मुग्धं मुखं बिभ्रतीम् ॥ ३८॥
सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः
तव कमलपलाशप्रक्रियं पादयुग्मम् ।
वहति यदुपमर्दैर्वैजयन्ती हिमाम्भः
प्लुतिरिव नवत्वं कान्तबाहान्तराले ॥ ३९॥
त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते
साक्षाल्लक्ष्मि! तवावलोकविभवः का क्वा कया वर्ण्यते ॥ ४०॥
आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-
प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः ।
पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः
ऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥ ४१॥
पादारुन्तुदमेवपङ्कजरजश्चेटीभृशालोकितैः
अङ्गम्लानिरथाम्ब! साहसविधौ लीलारविन्दग्रहः
डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं
केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२॥
आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-
भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वाऽयशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं
भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३॥
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि! कोमलाङ्गसुमनस्सन्दर्भणं देवि ते
कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥ ४४॥
मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः
कान्तोपभोगललितैर्लुलिताङ्गयष्टिः ।
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वं देवि! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५॥
कनकरशनामुक्ताताटङ्कहारललाटिका-
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके!
प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैः
वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥ ४६॥
सामान्यभोग्यमपि कौस्तुभवैजयन्ती-
पञ्चायुधादि रमणः स्वयमेव बिभ्रत् ।
तद्भारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि! गाहते त्वाम् ॥ ४७॥
यदि मनुजतिरश्चां लीलया तुल्यवृत्तेः
अनुजनुरनुरूपा देवि! नावातरिष्यः ।
असरसमभविष्यन्नर्म नाथस्य मातः
दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८॥
स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेः
भगवति दधिमाथं मथ्नतः श्रान्तिशान्त्यै ।
भ्रमदमृतरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥ ४९॥
मातर्मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया
रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता
काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः
सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥ ५०॥
मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिं
पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥ ५१॥
पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीतित्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२॥
नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु ।
क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने
जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३॥
अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं
हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि ।
अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥ ५४॥
दशशतपाणिपादवदनाक्षिमुखैरखिलैः
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन् कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५॥
जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-
क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६॥
औदार्यकारुणिकताश्रितवत्सलत्व-
पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या ॥ ५७॥
ऐश्वर्यमक्षरगतिं परमं पदं वा
कस्मै चिदञ्जलिभरं वहते वितीर्य
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!
त्वं लज्जसे कथय कोऽयमुदारभावः ॥ ५८॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहं
इच्छाधिकारशकनानुशयानभिज्ञः ।
आगांसि देवि युवयोरपि दुस्सहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९॥
इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब! सत्यवचसः पुरुषान् पुराणान् ।
यद्वा न मे भुजबलं तव पादपद्म-
लाभे त्वमेव शरणं विधितः कृताऽसि ॥ ६०॥
श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् ।
युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पिता
सर्वं च त्वमसि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१॥
इति श्रीपराशरभट्टार्यैरनुगृहीतः श्रीगुणरत्नकोशः समाप्तः