श्री नृसिंह अष्टोत्तरशतनामस्तोत्रम्

श्रीनृसिंह अष्टोत्तरशतनामस्तोत्रम्

नारसिंहो महासिंहो दिव्यसिंहो महाबलः 
उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१॥
रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः 
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥२ ॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः 
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ ३॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः 
महादंष्ट्रायुधः प्राज्ञः चण्डकोपी सदाशिवः ॥ ४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः 
गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥ ५ ॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः 
शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः॥ ६॥
भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः 
अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥ ६॥
विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः 
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः॥ ७॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः 
वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥ ८॥
सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः 
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः॥ ९ ॥
वैशाखशुक्लसंभूतो शरणागतवत्सलः 
उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः॥ १०॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः 
श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापी जगन्मयः॥ ११॥
जगत्पालो जगन्नाथः महाकायो द्विरूपभृत् 
परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥ १२॥
परतत्त्वॊ परंधाम सच्चिदानन्दविग्रहः 
लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः॥ १३॥
श्री नृसिंह अष्टोत्तरशतनामस्तोत्रम्


Leave a Reply

Your email address will not be published. Required fields are marked *