॥ श्रीवामन स्तोत्रम् ॥
अदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रवश्श्रवण मङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः
कृधीश भगवन्नसि दीननाथः ॥ १ ॥
विश्वाय विश्वभवनस्थिति सम्यमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितवूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥
आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्यौभूरसास्सकलयोगगुणास्त्रिवर्गः ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टा-
त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥
॥ इति श्रीमद्भागवते श्रीवामन स्तोत्रम् ॥