श्री वेदान्तदेशिक प्रपत्तिः
श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीमद्वेङ्कटनाथाख्यौ साधुचक्रमहादरौ ।
परमानन्दनिलयौ प्रपद्ये देवदेशिकौ ॥
स्थित्वा पुरो यस्य गुरोस्स्ववक्त्रात्
लालासुधां वाजिमुखः प्रसन्नः ।
विश्राणयामास विबोधहेतुं
तं वेदचूडार्यमहं प्रपद्ये ॥
श्रीभाष्यकार-चरणांबुज-चञ्चरीकं
रामानुजार्य-मतघोषणबद्धदीक्षम् ।
सर्वेषु तन्त्रविषयेषु निरङ्कुशं तं
वेदान्तदेशिकमहं शरणं प्रपद्ये ॥
प्रख्यापयन् निगममौळियुगं बुधानां
तद्रक्षणाय विविधाः कुरु सत्कृतीस्त्वम् ।
इत्युक्तवान् यतिपतिर्गुरवे तु यस्मै
स्वप्ने तमद्भुतगुणं शरणं प्रपद्ये ॥
भवावर्ते भीमे भ्रममुपगतानां प्रतिपदं
जनानां रक्षार्थं जगति गतिमन्यामविदुषाम् ।
प्रकृष्टां यश्चक्रे परमपदसोपानपदवीं
प्रपद्ये तं वादिद्विप-विघटनासिंहमनिशम् ॥
यदीयचरितं सतां सुचरितव्यवस्थापकं
यदीयवचनं परं सकलसंशयोन्मूलनम् ।
यदीयकरुणागतिः सकलधर्मशून्यात्मनां
स नश्शरणमस्त्वसौ सकलतन्त्रनिर्वाहकः ॥
श्रीभाष्यटीका सुभगा रणाग्रे संरक्षिता येन गुरूत्तमेन ।
प्रवर्तिता सन्नतशिष्यवर्गे पादांबुजं तस्य शुभं प्रपद्ये ॥
विश्वोपकार-करणाय कृतावतारौ
विस्तारसंसृति-महार्णव-कर्णधारौ ।
वेधोमुखैरपि सुरैर्विहितप्रणामौ
वेदान्तसूरिचरणौ शरणं प्रपद्ये ॥
वीथीषु रङ्गनगरे कृतचंक्रमौ यौ
विद्याविनीत-जनता-विहितानुसारौ ।
विद्वेषिवादि-मुकुटीकृतकुट्टनौ तौ
वेदान्तसूरिचरणौ शरणं प्रपद्ये ॥
विख्यातता-मरसशङ्खरथाङ्गचिह्नौ
विस्मेरकेसरलसन्मृदुलाङ्गुलीकौ ।
विश्वंभरामतितरामपि पावयन्तौ
वेदान्तसूरिचरणौ शरणं प्रपद्ये ॥
विश्वासविष्णुपदभक्तिविरक्तिशून्यं
विभ्रष्टकृत्यमपि मां विषयेषु सक्तम् ।
विद्वत्सभानुगतियोग्यमिहादधानौ
वेदान्तसूरिचरणौ शरणं प्रपद्ये ॥
किं च मम मानसमिदं च समुदञ्चितमिहान्यविषये
आञ्चति न जातु कविवादिकरिपञ्चमुख! तावकपदम् ।
वञ्चनपरं शठमकिञ्चन जनप्रिय! सपञ्चशरधिं
चञ्चलमिदं पुनरचञ्चलतरं कुरु भवच्चरणगम् ॥
कर्माद्युपाया इह केचन स्युः केचित्तु लक्ष्मीरमणाङ्घ्र्युपायाः ।
श्रीमद्यतीन्द्रप्रियवेङ्कटेश-गुर्वङ्घ्र्युपाया वयमेव धन्याः ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः