साष्टाङ्ग दण्डवत्
ओम् भगवन्नाशयणाभिमतानुरूप स्वरूपरूप
गुणविभव ऐश्वर्य शीलादि अनवधिकातिशय
असंख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं
श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्य-
महिषीम् अखिलजगन्मातरम् अस्मन्मातरम्
अशरण्यशरण्याम् अनन्यशरण: शरणमहं प्रपद्ये ॥
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्टः कथमहमितो दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥
न धर्मनिष्ठोऽस्मि न चात्मवेदी
न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिश्शरण्यः
त्वत्पादमूलं शरणं प्रपद्ये ॥