सुन्दरबाहुस्तवः

श्री श्रीवत्सचिह्नमिश्रैः विरचितायां पञ्चस्तव्याम्

सुन्दरबाहुस्तवः

श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥
श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः ।
निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १॥
सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिमास्थितम् ।
यत्र सुप्रथितनूपुरापगातीर्थमर्थितफलप्रदं विदुः ॥ २॥
क्वचित्त्वरितगामिनी क्वचन मन्दमन्दलसा
     क्वचित्स्खलितविह्वला क्वचन फेनिला सारवा ।
पतन्त्यपि किल क्वचिद्व्रजति नूपुराह्वा नदी
     सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३॥
उदधिगमन्दराद्रिमथिमन्थनलब्धप-
     योमधुररसेन्दिराह्वसुधसुन्दरदोःपरिघम् ।
अशरणमादृशात्मशरणं शरणार्थिजन-
     प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४॥
शशधररिङ्खणाढ्यशिखमुच्छिखरप्रकरं-
      तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् ।
वनगिरिमावसन्तमुपयामि हरिं शरणं-
      भिदुरितसप्तलोकसुविश‍ृङ्खलशङ्खरवम् ॥ ५॥
यत्तुङ्गश‍ृङ्गविनिषङ्गिसुराङ्गनानां-
      न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् ।
दर्पण्यभूद्धृतमपाङ्कशशाङ्कपृष्ठं-
      तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६॥
यदीयशिखरागतां शशिकलां तु शाखामृगा-
      निरीक्ष्य हरशेखरीभवनमामृशन्तस्ततः ।
स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं-
      स एष सुमहातरुव्रजगिरिर्गृहं श्रीपतेः ॥ ७॥
सुन्दरदोर्दिव्याज्ञालम्भनकातरवशानुयायिनि करिणि ।
प्रणयजकलहसमाधिर्यत्र वनाद्रिस्स एष सुन्दरदोष्णः ॥ ८॥
स एष सौन्दर्यनिधेर्धृतश्रियो वनाचलो नाम सुधाम यत्र हि ।
भुजङ्गराजस्य कुलस्य गौरवान्न खण्डिताः कुण्डलिनश्शिखण्डिभिः ॥ ९॥
वृषगिरिरयमच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः ।
खगतिचरणौ खगाश्शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥ १०॥
हरिकुलमखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः ।
निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११॥
वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु ।
द्रवति दृषदपि प्रसक्तगानास्विह वनशैलतटीषु सुन्दरस्य ॥ १२॥
भृङ्गी गायति हंसतालनिभृतं तत्पुष्णती कोकिला-
     ऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते ।
निष्पन्दस्तिमिताः कुरङ्गततयश्शीतं शिलासैकतं
     सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥ १३॥
पीताम्बरं वरदशीतलदृष्टिपात-
     माजानुलम्बिभुजमायतकर्णपाशम् ।
श्रीमन्महावनगिरीन्द्रनिवासदीक्षं
     लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४॥
जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते ।
तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवमहं भजे महः ॥ १५॥
सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा
     व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः ।
निस्तुल्याधिकमद्वितीयममृतं तं पुण्डरीकेक्षणं
     प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६॥
पतिं विश्वस्यात्मेश्वरमिति परं ब्रह्म पुरुषः
     परं ज्योतिस्तत्वं परमिति च नारायण इति ।
श्रुतिर्ब्रह्मेशादींस्तदुदितविभूतींस्तु गृणती
     यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥ १७॥
पृथिव्याद्यात्मान्तं नियमयति यस्तत्त्वनिकरं
     तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् ।
स एष स्वैश्वर्यं नविजहदशेषं वनगिरिं
     समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८॥
प्रत्यगात्मनि कदाऽप्यसम्भवद्भूमभूमिमभिवक्ति यं श्रतिः ।
तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥ १९॥
वन्देय सुन्दरभुजं भुजगेन्द्रभोग-
     सक्तं महावनगिरिप्रणयप्रवीणम् ।
यं तं विदुर्दहरमष्टगुणोपजुष्टं
     आकाशमौपनिषदीषु सरस्वतीषु ॥ २०॥
यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेषा-
     नन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः ।
विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य-
     स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१॥
गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य ।
तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२॥
अतिपतितावधिस्वमहिमानुभवप्रभवत्सुख-
     कृतनिस्तरङ्गजलधीयितनित्यदशम् ।
प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं
     हरिमिह सुन्दराह्वमुपयामि वनाद्रितटे ॥ २३॥
सदा षाड्गुण्याख्यैः पृथुलबलविज्ञानशकन-
     प्रभावीर्यैश्वर्यैरवधिविधुरैरेधितदशम् ।
द्रुमस्तोमक्ष्माभृत्परिसरमहोद्यानमुदितं
     प्रपद्येऽध्यारूढश्रियमिममहं सुन्दरभुजम् ॥ २४॥
सौशील्याश्रितवत्सलत्वमृदुतासौहार्दसाम्यार्जवैः-
     धैर्यस्थैर्यसुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः ।
सौन्दर्यान्वितसौकुमार्यसमतालावण्यमुख्यैर्गुणै-
     र्देवः श्रीतरुषण्डशैलनिलयो नित्यं स्थितस्सुन्दरः ॥ २५॥
येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं
     कुर्यात्तादृशवैभवैरगणितैर्निस्सीमभूमान्वितैः ।
नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयै-
     रिद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६॥
सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः ।
स ईदृज्ञाननिधिर्निधिस्तुर्नास्सहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७॥
ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधास्सुन्दरबाहुसंश्रयाः ।
योऽसौ जगज्जन्मलयस्थितिक्रियास्सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८॥
यत्कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं
येष्वेकस्य तथाविधैस्सततजैरंहोभिरुत्सीमभिः ।
अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं
सन्नत्या क्षमते क्षणाद्वनगिरिप्रस्थप्रियस्सुन्दरः ॥ २९॥
यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि ।
तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३०॥
निहीनो जात्या वा भृशमकृशलैर्वा स्वचरितैः
     पुमान्वै यः कश्चिद्बहुतृणमपि स्यादगुणतः ।
भजन्तं तं पश्येद्भुजगपतिना तुल्यमपि यो
     वनाद्रिप्रस्थस्थस्स मम शरणं सुन्दरभुजः ॥ ३१॥
एकैकमङ्लगुणानुभवाभिनन्द-
     मीदृक्त्वियानिति च सुन्दरदोष्णि कृष्णे ।
ते ये शतं त्विति नियन्तुमनाश्श्रुतिर्है
     नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२॥
अब्जपादमरविन्दलोचनं पद्मपाणितलमञ्जनप्रभम् ।
सुन्दरोरुभुजमिन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३॥
कनकमरतकाञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् ।
जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४॥
किन्नु स्वयं स्वात्मविभूषणं भवन्नसावलङ्कार इतीरितो जनैः ।
वर्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५॥
सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः
     सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः ।
अलङ्कार्यैस्सर्वैर्निगदितमलङ्गार इति य-
     स्समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥
मकुटमकुटमालोत्तंसचूडाललाम-
     स्वलकतिलकमालाकुण्डलैस्सोर्ध्वपुण्ड्रैः ।
मणिवरवनमालाहारकेयूरकण्ठ्यै-
     स्तुलसिकटककाञ्चीनूपराद्यैश्च भूषैः ॥ ३७॥
असिजलजरथाङ्गैश्शार्ङ्गकौमोदकीभ्या-
     मगणितगुणजालैरायुधैरप्यथान्यैः ।
सततविततशोभं पद्मनाभं वनाद्रे-
     रुपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८॥
आजानजस्वगतबन्धुरगन्धलुब्ध-
     भ्राम्यद्विदग्धमधुपालिसदेशकेशम् ।
विश्वाधिराज्यपरिबर्हकिरीटराजं
     है सुन्दरस्य बत ! सुन्दरमुत्तमाङ्गम् ॥ ३९॥
अन्धं तमस्तिमिरनिर्मितमेव यत्स्या-
     त्तत्सारसाधितसुतनत्वतिवृत्तवार्तम् ।
ईशस्य (केसरिगिरे) केशवहरेरलकालिजालं
     तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४०॥
जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् ।
भूम्ना ललाटं विमलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१॥
सुचारुचापद्वयविभ्रमं भ्रूवोयुगं सुनेत्राह्वसहस्रपत्रयोः ।
उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२॥
अदीर्घमप्रेमदुघं क्षणोज्ज्वलं नचोरमन्तःकरणस्य पश्यताम् ।
अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३॥
प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां
     विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् ।
विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां
     देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४॥
प्रेमामृतौघपरिवाहिमहाक्षिसिन्धु-
     मध्ये प्रबद्धसमुदञ्चितसेतुकल्पा ।
ऋज्वी सुसुन्दरभुजस्य विभाति नासा
     कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५॥
व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धिमन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् ।
आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६॥
यशोदाङ्गुल्यग्रोन्नमितचुबुकाघ्राणमुदितौ
     कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ ।
विराजेते विश्वग्विततसहकारासवरस-
     प्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेस्सुन्दरहरेः ॥ ४७॥
व्यालम्बिकुण्डलमुदग्रसुवर्णपुष्प-
     निष्पन्नकल्पलतिकायमलानुकारम् ।
यत्कर्णपाशयुगलं निगलं धियां न-
     स्सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८॥
सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः ।
सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरस्सुन्दरदोर्विजृम्भते ॥ ४९॥
व्यूढगूढभुजजत्रुमुल्लसत्कम्बुकन्धरधरं धराधरम् ।
वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५०॥
मन्दरभ्रमणविभ्रमोद्भटास्सुन्दरस्य विलसन्ति बाहवः ।
इन्दिरासमभिनन्दभन्दनाश्चन्दनागरुविलेपभूषिताः ॥ ५१॥
ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः ।
पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२॥
सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः ।
शेषभोगपरिभोगभागिनस्तन्निभा वनगिरीशितुर्भुजाः ॥ ५३॥
आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! ।
अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९॥
सुन्दरोरुभुज ! नन्दनन्दनस्त्वं भवन् भ्रमरविभ्रमालकः ।
मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११०॥
कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा ।
वष्टि जुष्टवनशैल ! सुन्दर ! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११॥
गूहितस्वमहिमाऽपि सुन्दर ! त्वं व्रजे किमिति शक्रमाक्रमीः ।
सप्तरात्रमदधाश्च किं गिरिं पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२॥
हे नन्दनन्दन ! सुसुन्दर ! सुन्दराह्व
     वृन्दावने विहरतस्तव वल्लवीभिः ।
वेणुध्वनिश्रवणतस्तरुभिस्तदा व
     सग्रावभिर्जतुविलायमहो ! विलिल्ये ॥ ११३॥
गायङ्गायं वनगिरिपते ! त्वं हि वृन्दावनान्त-
     र्गोपीसङ्घैर्विहरसि यदा सुन्दर ! व्यूढबाहो ! ।
रासारम्भोत्सवबहुविधप्रेमसीमन्तिनीना
     चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥
इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् ।
तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५॥
वाराणसीदहनपौण्ड्रकभौमभङ्ग-
     कल्पद्रुमाहरणशङ्करजृम्भणाद्याः ।
अन्याश्च भारतबलक्रथनादयस्ते
     क्रीडास्सुसुन्दरभुज ! श्रवणामृतानि ॥ ११६॥
त्वं हि सुन्दर ! वनाद्रिनाथ ! हे वेङ्कटाह्वयनगेन्द्रमूर्धनि ।
देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७॥
हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः ।
इष्टमर्थमनुकम्पया ददद्विश्वमेव दयते हि सुन्दर ! ॥ ११८॥
मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर !
     त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः ।
विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे
     श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११९ ।
कल्कीभविष्यन् कलिकल्कदूषितान्-
     दुष्टानशेषान् भगवन् ! हनिष्यसि ।
स एष तस्यावसरस्सुसुन्दर !
     प्रशाधि लक्ष्मीश ! समक्षमेव नः ॥ १२०॥
ईदृशास्त्वदवतारसत्तमास्सर्व एव भवदाश्रितान् जनान् ।
त्रातुमेव न कदाचिदन्यथा तेन सुन्दर ! भवन्तमाश्रये ॥ १२१॥
त्वामामनन्ति कवयः करुणामृताब्धि
     त्वामेव संश्रितजनिघ्नमुपघ्नमेषाम् ।
येषां व्रजन्निह हि लोचनगोचरत्वं
     है सुन्दराह्व ! परिचस्करिषे वनाद्रिम् ॥ १२२॥
अशक्यं नो किञ्चित्तव न च न जानासि निखिलं
     दयालुः क्षन्ता चास्यहमपि न चागांसि तरितुम् ।
क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च
     क्षमस्वैतावन्नोऽबलमिह हरे ! सुन्दरभुज ! ॥ १२३॥
लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं
     सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् ।
गर्भं चार्जुनिसम्भवं व्युदधरस्स्वैनैव रूपेण यः
स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४॥
आयोध्यकान् सपशुकीटतृणांश्च जन्तून्
      किङ्कर्मणो नु बत ! कीदृशवेदनाढ्यान् ।
सायुज्यलभ्यविभवान्निजनित्यलोकान्
      सान्तानिकानगमयो वनशैलनाथ! ॥ १२५॥
हरितवारणभृत्यसमाह्वयं करिगिरौ वरदस्त्वमपूर्विकाम् ।
दृशमलम्भय एव हि सुन्दर ! स्फुटमदाश्च वरान् शतमीदृशान् ॥ १२६॥
इह च देव ! ददासि वरान् परान् वरद ! सुन्दर ! सुन्दरदोर्धर ! ।
वनगिरेरभितस्तटमावसन्नखिललोचनगोचरवैभवः ॥ १२७॥
इदमिमे श‍ृणुमो मलयध्वजं नृपमिह स्वयमेव हि सुन्दर ॥
चरणसात्कृतवानिति तद्वयं वनगिरीश्वर ! जातमनोरथाः ॥ १२८॥
विज्ञापनां वनगिरीश्वर! सत्यरूपामङ्गीकुरुष्व करुणार्णव ! मामकीनाम् ।
श्रीरङ्गधामनि यथापुरमेकतोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९॥
किञ्चेदञ्च विरिञ्चभावन ! वनाद्रीश ! प्रभो ! सुन्दर !
     प्रत्याख्यानपराङ्मुखो वरदतां पश्यन्नवश्यं श‍ृणु ।
श्रीरङ्गश्रियमन्वहं प्रगुणयंस्त्वद्भक्तभोग्यां कुरु
     प्रत्यक्षं सुनिरस्तमेव विदध- त्प्रत्यर्थिनां प्रार्थनम् ॥ १३०॥
कारुण्यामृतवारिधे ! वृषपते ! हे सत्यसङ्कल्पन !
     श्रीमन् ! सुन्दर ! योग्यताविरहिता- नुत्सार्य सद्वत्सल ! ।
क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात्
     तद्भोग्यामनिशं कुरुष्व भगवन् ! श्रीरङ्गधामश्रियम् ॥ १३१॥
इदं भूयोभूयः पुनरपि च भूयः पुनरपि
     स्फुटं विज्ञीप्सामीत्यगतिरबुधोऽनन्यशरणः ।
कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः
     दयायाम्ते पात्रं वनगिरिपते ! सुन्दरभुज ! ॥ १३२॥

इति पञ्चस्तव्यां सुन्दरबाहुस्तवः

Leave a Reply

Your email address will not be published. Required fields are marked *