श्रीदेवराजगुरुभिरनुगृहीता
॥ उत्तरदिनचर्या ॥
अथ गोष्ठीं गरिष्ठानामधिष्ठाय सुमेधसाम् ।
वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १॥
सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः ।
स्वैरालापैः शुभैश्श्रोतॄन्नन्दयन्तं नमामि तम् ॥ २॥
ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ ।
विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३॥
समग्रसौरभोद्गारनिरन्तरदिगन्तरे ।
सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४॥
उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्घातगौरं
राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् ।
अङ्गुल्यग्रेषु किञ्चिन्नतमतिमृदुलं रम्यजामातृयोगी
दिव्यं तत्पादयुग्मं दिशतु शिरसि मे देशिकेन्द्रो दयालुः ॥ ५॥
त्वं मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वं
विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् ।
आत्मा शेषी भवसि भगवन्नान्तरश्शासिता त्वं
यद्वा सर्वं वरवरमुने ! यद्यदात्मानुरूपम् ॥ ६॥
अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे
मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च ।
दर्शंदर्शं वरवरमुने दिव्यमङ्घ्रिद्वयं ते
नित्यं मज्जन्नमृतजलधौ निस्तरेयं भवाब्धिम् ॥ ७॥
कर्माधीने वपुषि कुमतिः कल्पयन्नात्मभावं
दुःखे मग्नः किमिति सुचिरं दूयते जन्तुरेषः ।
सर्वे त्यक्त्वा वरवरमुने ! संप्रति त्वत्प्रसादा-
द्दिव्यं प्राप्तुस्तव पदयुगं देहि मे सुप्रभातम् ॥ ८॥
या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते
यो यो जल्पस्स भवतु! विभो! नामसङ्कीर्तनं ते ।
या या चेष्टा वपुषि भगवन् ! सा भवेद्वन्दनं ते
सर्वे भूयाद्वरवरमुने ! सम्यगाराधनं ते ॥ ९॥
अपगतमदमानैरन्तिमोपायनिष्ठै-
रधिगतपरमार्थैरर्थकामानपेक्षैः ।
निखिलजनसुहृद्भिर्निर्जितक्रोधलोभै-
र्वरवरमुनिभृत्यैरस्तु मे नित्ययोगः ॥ १०॥
इति स्तुतिनिबन्धेन सूचितस्वमनीषितान् ।
भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तं सिन्तयामि तम् ॥ ११॥
अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये ।
शयनीयं परिष्कृत्य शयानं संस्मरामि तम् ॥ १२॥
दिनचर्यामिमां दिव्यां रम्यजामातृयोगिनः ।
भक्त्या नित्यमनुध्यायन् प्राप्नोति परमं पदम् ॥ १३॥
॥ इति उत्तरदिनचर्या समाप्ता ॥