॥ क्षमाषोडशी ॥

 श्रीमते रामानुजाय नमः

॥ क्षमाषोडशी ॥

यश्चक्रे रङ्गिणस्स्तोत्रं क्षमाषोडशिनामकम् ।
वेदव्यासस्य तनयं वेदाचार्यं तमाश्रये॥

श्रीरङ्गेश! यया करोषि जगतां सृष्टिप्रतिष्ठाक्षयान्
अत्रामुत्र च भोगमक्षयसुखं मोक्षं च तत्तत्तृषाम्।
त्वत्स्वातन्त्र्यमपोह्य कल्पितजगत्क्षेमाऽतिहृद्या स्वतः
क्षान्तिस्ते करुणासखी विजयतां क्षेमाय सर्वात्मनाम्  ॥ १ ॥

पापानां प्रथमोऽस्म्यहं भवति चेच्छास्त्रं प्रमाणं परं
श्रीरङ्गेश ! न विद्यतेऽत्र विशयस्सन्त्येव ते साक्षिणः।
पृष्ट्वा तानधुना मयोदितमिदं सत्येन गृह्येत चेत् 
सत्यं युक्तमिति क्षमस्व भगवन् सर्वं तदस्मत्कृतम्  ॥२ ॥

त्वत्क्षान्तिः खलु रङ्गराज! महती तस्याः पुनस्तोषणे|
पर्याप्तं न समस्तचेतनकृतं पापं ततो मामकम्।
लक्ष्यं नेति न मोक्तुमर्हसि यतः कुत्रापि तुल्यो मया
नान्यस्सिद्ध्यति पापकृत्तदधुना लब्धं तु नोपेक्ष्यताम्  ॥ ३ ॥

पुण्यं पापमिति द्वयं खलु तयोः पूर्वेण यत्साध्यते
तत्त्वद्विस्मृतिकारकं तनुभृतां रङ्गेश! सञ्जायते।
पाश्चात्यस्य तु यत्फलं तदिह ते दुःखच्छिदः स्मारकं
तेनानेन कृतं तदेव शिशुनेत्यस्मत्कृतं क्षम्यताम्  ॥ ५ ॥

पुण्यं यत्तव पूजनं भवति चेत् तत्कर्तुरिष्टे कृते
तत्स्याद्रङ्गपते! कृतप्रतिकृतं सर्वेऽपि तत्कुर्वते।
पापं चेदपराध एव भवतस्तत्कर्तृसंरक्षणे
क्षान्तिस्ते निरुपाधिका निरुपमा लक्ष्येत तत्क्षम्यताम्  ॥ ६ ॥

न द्वित्राणि कृतान्यनेन निरयैर्नालं पुनः कल्पितैः
पापानामिति मत्कृते तदधिकान् कर्तुं प्रवृत्ते त्वयि।
तेभ्योऽप्यभ्यधिकानि तान्यहमपि क्षुद्रः करोमि क्षणात् ।
तद्यत्नस्तव निष्फलः खलु भवेत् तत्ते क्षमैव क्षमा ॥ ७ ॥

संभूयाखिलपातकैर्बहुविधं स्वं स्वं फलं दीयतां
सर्वं सह्यमिदं मया त्वयि हरे! जाग्रत्यपि त्रातरि।
दुःखाक्रान्तमवेक्ष्य मामिह जनो दुष्टाशयत्स्वद्गुणान्क्षा
न्त्यादीन् प्रति दुर्वचं यदि वदेत्सोढुं न तच्छक्यते ॥ ८ ॥

क्षान्ति म वरो गुणस्तव महान् श्रीरङ्गपृथ्वीपते!
सोऽयं सन्नपि सापराधनिवहाभावे न विद्योतते।
तस्मान्नैकविधापराधकरणे निष्ठावता नित्यशः
प्राप्नोत्येष मया प्रकाशमतुलं प्राप्स्याम्यहं च प्रथाम् ॥ ९ ॥

मत्पापक्षपणाय योजयसि चेदघोरेण दण्डेन मां
रङ्गाधीश्वर ! केवलाघकरणाःखं मम स्यान्महत्।
तद्रष्टुर्भवतोऽपि दुःखमतुलं घोरं दयाळो! भवेत्त
स्मात्तेऽपि सुखाय मत्कृतमिदं सर्वं त्वया क्षम्यताम् ॥ १० ॥

देव! त्वां शरणं प्रपन्नमपि मां दुःखान्यनन्याश्रयं
बाधन्ते यदि सर्वपापनिवहात् त्वां मोक्षयिष्याम्यहम्।
इत्युक्तं तव वाक्यमर्थविधुरं जायेत यद्वा भवान्त
त्राशक्त इति प्रथेत हि ततो मां रक्षतु त्वत्क्षमा ॥ ११ ॥

न त्वं क्षाम्यसि चेदिदं मम कृतं नास्त्यत्र काचित्क्षतिः
पूर्वं यत्समभूत्तदेव हि पुनर्जायेत तज्जायताम्।
यद्वा स्यादधिकं च सोऽपि सुमहान् लाभोऽस्तु मे तादृशः
स्वामिन् दासजनस्तवायमधिकं स्वैरेण दूरीभवेत् ॥ १२ ॥

सोऽहं क्षुद्रतया जुगुप्सिततमं दुष्कर्म नित्यं स्मरन्कु
र्वन् काममशुद्धरीतिरभवं श्रीरङ्गपृथ्वीपते !।
एतत्ते महतो विशुद्धमनसा स्मर्तुं न युक्तं खलु ,
क्षान्त्या विस्मर तत्ततोऽहमसुखान्मुक्तो भवेयं सुखी ॥ १३ ॥

तत्तत्कर्मफलानुरूपमखिलो लोकस्त्वया सृज्यते
तस्मात्कर्मवशंवदत्वमधिकं वक्तुं तवापि क्षमम्।
श्रीरङ्गेश्वर! तत्प्रशान्तिविधये क्षान्त्या निराकृत्य मे
सर्वं पातकमाशु दर्शय भवत्स्वातन्त्र्यमत्यङ्कुशम् ॥१४॥

श्रीरङ्गेश! वचो मदीयमधुना व्यक्तं त्वया श्रूयतां
पुण्यं तत्फलसङ्गमात्रविरहाद्भूयो न मां प्राप्नुयात्।
पापं नैव तथा फलं वितनुते शक्यं न तद्वारणं
तत्क्षान्त्या तव शक्यमेव तदिदं सद्यस्त्वया कल्प्यताम् ॥ १५ ॥

श्रीरङ्गेश्वर! पुण्यपापफलयोः स्वाधीनतां कुर्वतोः
सर्वेषां सुखदुःखयोः स्वयमहं मग्नाशयो मामपि।
स्मर्तुं न प्रभवामि किं पुनरहं त्वामन्तरन्तः स्थितं
तत्ते त्वं क्षमया निरस्य कुरु मे त्वद्ध्यानयोग्यां दशाम् ॥ १६  ॥

अल्पं चेदनवेक्षणीयसरणावारोप्यतां मत्कृतं
किञ्चिद्भरि भवेदिदं यदि गुरून् संप्रेक्ष्य मे त्यज्यताम्।
यद्वाऽनन्तमनन्तवैभवजुषो रङ्गक्षमावल्लभ!
त्वत्क्षान्त्याः खलु लक्ष्यतामनुगुणामानीयतां तत्त्वया ॥ १७ ॥

श्रीमान् कूरान्ववाये कलशजलनिधौ कौस्तुभामोऽवतीर्णः
श्रीवेदव्यासभट्टारकतनयवरो रङ्गराजस्य हृद्यः।
वेदाचार्यग्र्यनामा विदितगुणगणो रङ्गिणः स्तोत्रमेतत्च
क्रे नित्याभिजप्यं सकलतनुभृतां सर्वपापापनुत्त्यै ॥ १८ ॥

सन्त्यक्तसर्वविहित क्रियमर्थकाम
श्रद्धालुमन्वहमनुष्ठितनिन्द्यकृत्यम्।
अत्यन्तनास्तिकमनात्मगुणोपपन्नं
मां रङ्गराज! परया कृपया क्षमस्व ॥ १९ ॥

॥ क्षमाषोडशी ॥

Leave a Reply

Your email address will not be published. Required fields are marked *