॥ तैत्तिरीयोपनिषत् ॥

॥ तैत्तिरीयोपनिषत् ॥

॥ प्रथमा शीक्षावल्ली ॥
। ह॒रिः॒ ॐ ।
ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि ।
स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु ।
अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
***********
ॐ शीक्षां व्या᳚ख्यास्या॒मः । वर्णः॒ स्वरः । मात्रा॒ बलम् ।
साम॑ सन्ता॒नः । इत्युक्तः शी᳚क्षाध्या॒यः ॥ १॥
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् ।
अथातः सꣳहिताया उपनिषदम् व्या᳚ख्यास्या॒मः ।
पञ्चस्वधिक॑रणे॒षु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् ।
ता महासꣳहिता इत्॑याच॒क्षते । अथा॑धिलो॒कम् ।
पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् ।
आका॑शः स॒न्धिः ॥२॥
वायुः॑ सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिजौ॒तिषम् ।
अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पः स॒न्धिः ।
वैद्युतः॑ सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् ।
आचार्यः पू᳚र्वरू॒पम् ॥ ३ ॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः ।
प्रवचन॑ꣳसन्धा॒नम् ।
इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् ।
पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननꣳसन्धा॒नम् ।
इत्यधि॒प्रजम् ॥ ४ ॥
अथाध्या॒त्मम् । अधराहनुः पू᳚र्वरू॒पम् ।
उत्तराहनूत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑सन्धा॒नम् ।
इत्यध्या॒त्मम् । इतीमाम॒हास॒ꣳहिताः ।
य एवमेता महासꣳहिता व्याख्या॑ता वे॒द ।
सन्धीयते प्रज॑या प॒शुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ५ ॥
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः ।
छन्दो॒भ्योऽध्य॒मृता᳚त्सम्ब॒भूव॑ ।
स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु ।
अ॒मृत॑स्य देव॒ धार॑णो भूयासम् ।
शरी॑रं मे॒ विच॑र्षणम् । जिह्॒वा मे॒ मधु॑मत्तमा ।
कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् ।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः ।
श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ ६ ॥
कु॒र्वा॒णाऽचीर॑मा॒त्मनः॑ । वासा॑ꣳसि॒ मम॒ गाव॑श्च ।
अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह ।
लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा᳚ ।
आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।
विमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।
प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।
दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।
आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ॥ ७ ॥
यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा᳚ ।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ ।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ ।
तस्मिन्᳚ स॒हस्र॑शाखे । निभ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा᳚ ।
यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् ।
ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा᳚ ।
प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ ८ ॥
भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः ।
तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते ।
मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ ।
भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् ।
सुव॒रित्य॒सौ लो॒कः ॥ ९ ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑लो॒क मही॑यन्ते ।
भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः ।
मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव
सर्वा॑णि॒ ज्योतीꣳषि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ ।
भुव॒ इति॒ सामा॑नि ।
सुव॒रिति॒ यजू॑ꣳषि ॥ १० ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑वे॒दा मही॑यन्ते ।
भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः ।
मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒ण मही॑यन्ते ।
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः ।
ता यो वेद॑ ।
स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मैदे॒वा ब॒लिमाव॑हन्ति ॥ ११ ॥
स य ए॒षो᳚ऽन्त॑हृदय आका॒शः ।
तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ।
अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले ।
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ १२ ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् ।
आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑ष्पतिः ।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति ।
आ॒का॒शश॑रीरं॒ ब्रह्म॑ ।
स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् ।
शान्ति॑समृद्धम॒मृतम्᳚ ।
इति॑ प्राचीन यो॒ग्योपा᳚स्व ॥ १३ ॥
पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् ।
अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः ।
चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् ।
चर्म॑मा॒ꣳस स्नावास्थि॑ म॒ज्जा ।
ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् ।
पाङ्क्तं॒ वा इ॒दꣳसर्वम्᳚ ।
पाङ्क्ते॑नै॒व पाङ्क्तग्॑ स्पृणो॒तीति॑ ॥ १४ ॥
ओमिति॒ ब्रह्म॑ । ओमिती॒दꣳसर्वम्᳚ ।
ओमित्ये॒तद॑नुकृतिर्हस्म॒ वा अ॒प्योश्रा॑व॒येत्याश्रा॑वयन्ति ।
ओमिति॒ सामा॑नि गायन्ति । ॐꣳशोमिति॑ श॒स्त्राणि॑ शꣳसन्ति ।
ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति ।
ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति ।
ओमिति॒ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ ।
ब्रह्मै॒वोपा᳚प्नोति ॥ १५ ॥
ऋतं च स्वाध्यायप्रव॑चने॒ च ।
सत्यं च स्वाध्यायप्रव॑चने॒ च ।
तपश्च स्वाध्यायप्रव॑चने॒ च ।
दमश्च स्वाध्यायप्रव॑चने॒ च ।
शमश्च स्वाध्यायप्रव॑चने॒ च ।
अग्नयश्च स्वाध्यायप्रव॑चने॒ च ।
अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च ।
अतिथयश्च स्वाध्यायप्रव॑चने॒ च ।
मानुषं च स्वाध्यायप्रव॑चने॒ च ।
प्रजा च स्वाध्यायप्रव॑चने॒ च ।
प्रजनश्च स्वाध्यायप्रव॑चने॒ च ।
प्रजातिश्च स्वाध्यायप्रव॑चने॒ च ।
सत्यमिति सत्यवचा॑ राथी॒ तरः ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।
स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ १६ ॥
अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व ।
ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि ।
द्रवि॑णꣳसवर्चसम् । सुमेध अ॑मृतो॒क्षितः ।
इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ १७ ॥
वेदमनूच्याचार्योन्तेवासिनम॑नुशा॒स्ति ।
सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः ।
सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् ।
कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ १८ ॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव ।
पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव ।
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि ।
यान्यस्माकꣳसुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ १९ ॥
नो इ॑तरा॒णि । ये के चारुमच्छ्रेया॑ꣳसो ब्रा॒ह्मणाः ।
तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् ।
अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् ।
भि॑या दे॒यम् । संवि॑दा दे॒यम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ २० ॥
ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् ।
तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु ।
ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् ।
तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः ।
एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् ।
एवमु चैत॑दुपा॒स्यम् ॥ २१ ॥
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् ।
स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् ।
आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति शीक्षावल्ली समाप्ता ॥

॥ द्वितीया ब्रह्मानन्दवल्ली ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ ब्र॒ह्म॒विदा॑प्नोति॒ परम्᳚ । तदे॒षाऽभ्यु॑क्ता ।
स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ ।
यो वे॑द॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन् ।
सो᳚ऽश्नुते॒ सर्वा॒न् कामा᳚न्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥
तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः सम्भू॑तः । आ॒का॒शाद्वा॒युः ।
वाय्॒ओर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योन्नम्᳚ । अन्ना॒त्पुरु॑षः ।
स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः ।
अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः ।
अयमात्मा᳚ । इदं पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ १॥
अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीꣳश्रिताः ।
अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः ।
अन्न॒ꣳहि भू॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚त् सर्वौष॒धमु॑च्यते ।
सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते ।
अन्न॒ꣳहि भू॒तानां॒ ज्येष्ठम्᳚ । तस्मा᳚त् सर्वौष॒धमु॑च्यते ।
अन्नाद्᳚ भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते ।
अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति ।
तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा᳚ प्राण॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः ।
तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः ।
अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा ।
पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ २ ॥
प्रा॒णं दे॒वा अनु॒ प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये ।
प्रा॒णो हि भू॒तानाम्॒आयुः॑ । तस्मात्᳚ सर्वायु॒षमु॑च्यते ।
सर्व॑मे॒व त आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते ।
प्राणो हि भूता॑नामा॒युः । तस्मात् सर्वायुषमुच्य॑त इ॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ।
तस्माद्वा एतस्मा᳚त् प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः ।
तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः ।
आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ ३ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ।
तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व ।
तस्य पुरु॑षवि॒धताम् ।
अ॒न्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः ।
ऋतं दक्षि॑णः प॒क्षः ।
सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ ४ ॥
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च ।
वि॒ज्ञानं॑ दे॒वाः सर्वे᳚ ।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ ।
तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा ।
सर्वान्कामान् समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा ।
यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् ।
अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् ।
अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः ।
मोदो दक्षि॑णः प॒क्षः ।
प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा ।
तदप्येष श्लो॑को भ॒वति ॥ ५ ॥
अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् ।
अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ ।
कश्च॒न ग॑च्छ॒ती३ ।
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता३ उ॒ ।
सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा । इ॒दꣳसर्व॑मसृजत । यदि॒दं किञ्च॑ ।
तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ ।
सच्च॒ त्यच्चा॑भवत् ।
नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च ।
वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् ।
यदि॑दं कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते ।
तदप्येष श्लो॑को भ॒वति ॥ ६ ॥
अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत ।
तदात्मान स्वय॑मकु॒रुत । तस्मात्तत्सुकृतमुच्य॑त इ॒ति ।
यद्वै॑ तत् सु॒कृतम् । र॑सो वै॒ सः ।
रसꣳह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्या᳚त्कः
प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् ।
एष ह्येवाऽऽन॑न्दया॒ति ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते ।
अथ तस्य भ॑यं भ॒वति । तत्वेव भयं विदुषोऽम॑न्वान॒स्य ।
तदप्येष श्लो॑को भ॒वति ॥ ७ ॥
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ ।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति ।
सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति ।
युवा स्यात्साधुयु॑वाऽध्या॒यकः ।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः ॥
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः ।
स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः ।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः ।
स एक आजानजानां देवाना॑मान॒न्दः ॥
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं आजानजानां देवाना॑मान॒न्दाः ।
स एकः कर्मदेवानां देवाना॑मान॒न्दः ।
ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः ।
स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः ।
स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ।
ते ये शतं प्रजापते॑रान॒न्दाः ।
स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ।
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति ।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति ।
तदप्येष श्लोको॑ भ॒वति ॥ ८ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह ।
आनन्दं ब्रह्म॑णो वि॒द्वान् ।
न बिभेति कुत॑श्चने॒ति ।
एतꣳह वाव॑ न त॒पति ।
किमहꣳसाधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति ।
स य एवं विद्वानेते आत्मा॑न स्पृ॒णुते ।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑न स्पृ॒णुते । य ए॒वं वेद॑ ।
इत्यु॑प॒निष॑त् ॥ ९ ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

॥ तृतीया भृगुवल्ली ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
भृ॑गु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच ।
अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।
तꣳहो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒
भुता॑नि॒ जाय॒न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ २ ॥
प्रा॒णो ब्रह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒
भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ३ ॥
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒
भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति ।
मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ४ ॥
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒
भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ५ ॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒ध्ये॑व खल्वि॒मानि॒
भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ ६ ॥
अन्नं॒ न नि॑न्द्यात् । तद्॒व्रतम् । प्रा॒णो वा अन्नम्॑ ।
शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् ।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ ७ ॥
अन्नं॒ न परि॑चक्षीत । तद्॒व्रतम् । आपो॒ वा अन्न॑म् ।
ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् ।
ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ ८ ॥
अन्नं॑ ब॒हु कु॑र्वीत । तद्॒व्रतम् । पृ॒थि॒वी वा अन्नम्॑ ।
आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः ।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ ९ ॥
न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्॒व्रतम् ।
तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् ।
अराध्यस्मा अन्नमि॑त्याच॒क्षते ।
एतद्वै मुखतो᳚ऽन्नꣳ रा॒द्धम् ।
मुखतोऽस्मा अ॑न्नꣳ रा॒ध्यते ।
एतद्वै मध्यतो᳚ऽन्नꣳ रा॒द्धम् ।
मध्यतोऽस्मा अ॑न्नꣳ रा॒ध्यते ।
एदद्वा अन्ततो᳚ऽ॑न्नꣳ रा॒द्धम् ।
अन्ततोऽस्मा अ॑न्न॑ रा॒ध्यते ॥
य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम
इति प्रा॑णापा॒नयोः ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ ।
इति मानुषीः᳚ समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ ।
बलमि॑ति वि॒द्युति ॥
यश इ॒ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान् भ॒वति ।
तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त ।
मान॑वान्भ॒वति ॥
तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः ।
तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति ।
तद्ब्रह्मणः परिमर इत्यु॑पासी॒त ।
पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः ।
परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः ।
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य ।
इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् ।
एतत् साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥
अ॒हमन्नम॒हमन्नम॒हमन्नम् ।
अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः ।
अ॒हꣳश्लोक॒कृद॒हꣳश्लोक॒कृद॒हꣳश्लोक॒कृत् ।
अ॒हमस्मि प्रथमजा ऋता३स्य॒ ।
पूर्वं देवेभ्योऽमृतस्य ना३भा॒इ॒ ।
यो मा ददाति स इदेव मा३अऽवाः॒ ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ ।
अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वा३म् ।
सुव॒र्न ज्योतीः᳚ । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ १० ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ हरिः ॐ ॥
॥ इति भृगुवल्ली समाप्ता ॥
॥ इति तैत्तिरीयोपनिषत् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *