॥ नारायणसूक्तम् ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ ॥ स॒ह॒स्र॒शीर्॑षन्दे॒वं॒ वि॒श्वाक्षं॑विँ॒श्वश॑म्भुवम् ।
विश्वं॑ ना॒राय॑णन्दे॒व॒म॒क्षरं॑ पर॒मम्पदम् ।
वि॒श्वतः॒ पर॑मान्नि॒त्यं॒विँ॒श्वं ना॑राय॒णग्ं ह॑रिम् ।
विश्व॑मे॒वेदम्पुरु॑ष॒स्तद्विश्वमुप॑जीवति ।
पतिं॒विँश्व॑स्या॒त्मेश्व॑र॒ग्ं शाश्व॑तग्ं शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒यं॒विँ॒श्वात्मा॑नम्प॒राय॑णम् ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ।
यच्च॑ कि॒ञ्चिज्जगत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒व्याँ॒प्य ना॑राय॒णः स्थि॑तः ।
अनन्त॒मव्ययं॑ क॒विग्ं स॑मु॒द्रेंऽतं॑विँ॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒श॒ग्ं हृ॒दयं॑ चाप्य॒धोमु॑खम् ।
अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
ज्वा॒ल॒मा॒लाकु॑लम्भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ।
सन्त॑तग्ं शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मन्तस्मिन्᳚ स॒र्वम्प्रति॑ष्ठितम् ।
तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
स॒न्ता॒पय॑ति स्वन्दे॒हमापा॑दतल॒मस्त॑कः ।
तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः ।
नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒ध्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ।
तस्याः᳚ शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥
ऋतग्ं स॒त्यम्प॑रम्ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तंविँ॑रूपा॒क्षं॒विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति नारायणसूक्तम् ॥