॥ नीला सूक्तम् ॥

॥ नीला सूक्तम् ॥

ॐ श्रृण्वऺन्ति श्रो̲णाममृ̍तस्य गो̲पाम् ।
पुण्या̍मस्या̲मुप̍श्रृणोमि वा̲चम्᳚ ।
म̲हीं देवीं̲ विष्णु̍पत्नीमजू॒र्याम् ।
प्र॒तीची॑  मेनाᳩह॒विषा॑ यजामः ।
त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे ।
म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् ।
तच्छ्रो॒णैति॒श्रव॑ इ॒च्छमा॑ना ।
पुण्य॒ᳩ̲श्लोकं̲ यज॑मानाय कृण्व॒ती ।
ॐ  गृ॒णा॒हि॒ घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑नो अस्तु ।
ध्रु॒वा दि॒शां विष्णुप॒त्न्यघो॑रा॒ऽस्येशा॑ना॒सह॑सो॒या म॒नोता᳚ ।
बृह॒स्पति॑र्मात॒रिश्वो॒तवा॒युस॑न्धुवा॒नावाता॑ अ॒भिनो॑ गृणन्तु ।
वि॒ष्ट॒म्भो दि॒वोध॒रुणः॑ पृथि॒व्या अ॒स्येश्यां॑ना॒ जग॑तो॒ विष्णु॑पत्नी ।।
ॐ म॒हा॒दे॒व्यै च वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि । तन्नो॑ नीला प्रचो॒दया᳚त् ।।
ॐ  शान्तिः॒ शान्तिः॒ शान्तिः॑ ।।
॥ इति नीला सूक्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *