॥ पञ्चायुधस्तोत्रम् ॥
स्फुरत्सहस्रार शिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम्।
सुरद्विषां प्राणविनाशि विष्णो-
श्चक्रं सदाऽहं शरणं प्रपद्ये।। १ ।।
विष्णोर्मुखोत्थानिल पूरितस्य
यस्य ध्वनिर्दानव दर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटि शुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये।। २ ।।
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहंत्रीम्।
वैकुण्ठवामाग्र कराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये।। ३ ।।
रक्षोऽसुराणां कठिनोग्र कण्ठ-
छेदक्षरच्छोणितदिग्धधारम्।
तं नंदकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये।। ४ ।।
यज्ज्यानिनाद श्रवणात्सुराणां
चेतांसि निर्मुक्त भयानि सद्यः।
भवन्ति दैत्याशनि बाणवर्षि
शार्ङ्गं सदाऽहं शरणं प्रपद्ये।। ५ ।।
इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति।। ६ ।।
वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्र मनाकुलात्मा
सुखी भवेत्तत्कृतसर्वरक्षः।। ७ ।।
सशंखचक्रं सगदाऽसि शार्ङ्गं
पीताम्बरं कौस्तुभवत्स चिह्नम्।
श्रिया समेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये।। ८ ।।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः।। ९ ।।
॥ इति पञ्चायुधस्तोत्रम् ॥