॥ शयनआरती ॥
सच्चित्तशायी भुजगेन्द्रशायी
नन्दाङ्गशायी कमलाङ्गशायी
क्षीराब्धिशायी वटपत्रशायी ।
श्रीरङ्गशायी मम रक्षकोऽस्तु ॥ *
पन्नगाधीशपर्यङ्गे रमाहस्तोपधानके।
सुखं शेष्व रमाधीश सुदर्शनसुरक्षितः॥ *
शंखचक्रगदाखड्गदिव्यायुधगणास्तथा।
श्रीशरक्षाविधानाय सदा जागृत जागृत ॥ *
आयताभ्यां विशालाक्षं शीतलाभ्यां कृपानिधे।
करुणापूर्णनेत्राभ्यां निद्रां कुरु जगत्पते ॥
शेषपर्यङ्गमारुह्य रमया सह हे प्रभो।
निद्रां कुरुष्व भगवन् सुदर्शन सुरक्षित ॥
शयनं कुरु गोविन्द शयनं कुरु माधव ।
शयनं कमलाकान्त त्रैलोक्यं मङ्कलं कुरु ॥
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्कृतं तु मया देव परिपूर्वणं तदस्तु ते ॥
उपचारापदेशेन कृतानहरहर्मया।
अपचारान् इमान् सर्वान् क्षमस्व पुरुषोत्तम ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्तास्सुखिनो भवन्तु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥
कावेरी वर्धतां काले काले वर्षतु वासवः ।
श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृते स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
॥ अस्मद्गुरुभ्यो नमः॥
॥ जय श्रीमन्नारायण॥