॥ विष्णुसूक्तम् ॥
ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाᳩसि॒ ।
यो अस्क॑भाय॒दुत्त॑रᳩस॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥१॥
ॐ विष्णो॑र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे᳚स्थो॒
विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥२॥
तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था। विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्थ्सः॑ ॥३॥
प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥४॥
प॒रो मात्र॑या त॒नुवा॑ वृधान। न ते॑ महि॒त्वमन्व॑श्नुवन्ति॥
उ॒भे ते॑ विद्म॒ रज॑सि पृथि॒व्या विष्णो॑ देव॒त्वम्। प॒र॒मस्य॑ विथ्से ॥५॥
विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम्। क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः। ऊरु॒क्षि॒तिᳩसु॒जनि॑माचकार ॥६॥
त्रिर्देवः पृथि॒वीमे॒ष ए॒ताम्। विच॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्रवि॑ष्णुरस्तु त॒वस॒स्तवी॑यान्। त्वे॒षᳩह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥७॥
अतो॑ दे॒वा अ॑वन्तुनो॒ यतो॒ विष्णु॑र्विचक्र॒मे। पृ॒थि॒व्यास्स॒प्त धाम॑भिः ।
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्य पाᳩसु॒रे ॥८॥
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः। ततो॒ धर्मा॑णि धा॒रयन्॑।
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्य॒स्सखा ॥९॥
तद्विष्णोः᳚ पर॒मं प॒दᳩसदा॑ पश्यन्ति सू॒रयः॑। दि॒वीव॒ चक्षु॒रात॑तम्।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाᳩस॒स्समि॑न्धते। विष्णो॒र्यत्प॑र॒मं प॒दम् ॥१०॥
पर्या᳚प्त्या अन॑न्तरायाय॒ सर्व॑स्तोमोऽति रा॒त्र उ॑त्त॒म मह॑र्भवति॒
सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥११॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ इति विष्णुसूक्तम् ॥