श्रीभूमिनायकमनोहरदेवि मान्ये
श्रीविष्णुचित्ततनये श्रितकामधेनो।
मातस्समस्तजगतां महनीयकीर्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥१॥
श्रीधन्विनव्यनगरे तुलसीवनान्ते
देवि स्वयं समुदिता जनकात्मजेव।
भूम्यंशतो भुवनपावनि भूसमृद्ध्यै
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥२॥
आरभ्य शैशवमनारतमच्युताङ्घ्रि
भक्त्या निरस्तविषयान्तरभावबन्धे।
श्रीभूसमानुपमदिव्यमहानुभावे
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥३॥
स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन
गोदेति नाम वहसि स्वयमच्युताय।
भाग्याधिके परमपूरुषभाग्यलब्धे
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥४॥
तत्त्वन्तवेष्टधृतमाल्यवरं मुकुन्दः
संगृह्य मूर्द्धनि वहन् मुमुदे नितान्तम्।
तत्प्रेमवर्णकसुसुन्दरदिव्यमूर्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥५॥
श्रीनन्दगोपसुतसुन्दरदिव्यदेह-
भोगाभिलाषकृतपूर्वचरित्रभाषे।
कल्याणि लब्धयदुनन्दनभोगपूर्णे
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥६॥
श्रीमच्छठारिमुनिसक्तपितृत्वभावे
नाथादियामुनयतीश्वरपूज्यपादे।
शौरेः पदाब्जपरभक्तिमतां शरण्ये
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥७॥
त्वत्सूक्तिसिद्धममलं परमान्यमग्र्यं
हैयङ्गवीनमिव सुन्दरबाहवेऽपि।
दातुं तथैव पतिमेवमलं च कर्तुं
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥८॥
प्राबोधिकीस्तुतिवशीकृतवासुदेवे
पद्मापतेः प्रथितभाग्यकृतावतारे।
गोपालबालचरितेषु कृतानुरागे
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥९॥
कारुण्यपूर्णहृदये कमलासहाये
भक्तप्रिये परमपावनवाग्विहारे।
श्रीभट्टनाथकुलमङ्गलदीपरेखे
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥१०॥
वज्रारविन्दमकरध्वजशंखचक्र-
छत्रादिलाञ्छिततलौ सरसीरुहाभौ।
सर्वाश्रितार्तिहरणे सपदि प्रवीणौ
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥११॥
सौशील्यकान्तिसमताश्रितवत्सलत्व-
सौहार्ददान्तमुखसद्गुणराशिपूर्णे।
पुण्ये पुराङ्घ्रिपुरुषोत्तमहृद्यवृत्ते
गोदे त्वदीयचरणौ शरणं प्रपद्ये॥१२॥