॥ श्रीरङ्गगद्यम् ॥

॥ श्रीरङ्गगद्यम् ॥

चिदचित्परतत्त्वानां तत्त्वयाथार्थ्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥
स्वाधीन त्रिविध चेतनाचेतन स्वरूपस्थितिप्रवृत्तिभेदं,
क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशय
ज्ञानबलैश्वर्य वीर्य शक्तितेजस्सौशील्य वात्सल्य मार्दवार्जव सौहार्द
साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य स्थैर्य धैर्य शौर्य
पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व कृतज्ञताद्यसङ्ख्येय कल्याण
गुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरङ्गशायिनं,
अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहं,
तदेकानुभवः तदेकप्रियः, परिपूर्णं भगवन्तं, विशदतमानुभवेन
निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशय
प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ॥
स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धानपूर्वक
भगवदनवधिकातिशय स्वाम्याद्यखिलगुणगणानुभवजनित अनवधिकातिशय
प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्य
प्राप्त्युपायभूतभक्ति तदुपाय सम्यग्ज्ञान तदुपाय समीचीनक्रिया
तदनुगुण सात्विकतास्तिक्यादि समस्तात्मगुणविहीनः, दुरुत्तरानन्त तद्विपर्यय
ज्ञानक्रियानुगुणानादि पापवासना महार्णवान्तर्निमग्नः, तिलतैलवत्
दारुवह्निवत् दुर्विवेच त्रिगुण क्षणक्षरणस्वभाव
अचेतनप्रकृतिव्याप्तिरूप दुरत्यय भगवन्मायातिरोहित स्वप्रकाशः,
अनाद्यविद्यासञ्चितानन्ताशक्य विस्रंसन कर्मपाशप्रग्रथितः,
अनागतानन्तकाल समीक्षयाऽपि अदृष्टसन्तारोपायः, निखिलजन्तुजात
शरण्य, श्रीमन्नारायण, तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥
एवमवस्थितस्यापि अर्थित्वमात्रेण परमकारुणिको भगवान्, स्वानुभवप्रीत्य
उपनीतैकान्तिकात्यन्तिक नित्यकैङ्कर्यैकरतिरूप नित्यदास्यं दास्यतीति
विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ॥
तवानुभूतिसम्भूत प्रीतिकारितदासताम् ।
देहि मे कृपया नाथ न जाने गतिमन्यथा ॥
सर्वावस्थोचिताशेषशेषतैकरतिस्तव ।
भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व माम् ॥
एवम्भृततत्त्वयाथात्म्यावबोधितदिच्छारहितस्यापि,
एतदुच्चारणमात्रावलम्बनेन, उच्यमानार्थ परमार्थनिष्ठं मे मनः
त्वमेवाद्यैव कारय ॥
अपारकरुणाम्बुधे, अनालोचितविशेषाशेषलोकशरण्य, प्रणतार्तिहर,
आश्रितवात्सल्यैक महोदधे, अनवरतविदित निखिलभूतजात याथात्म्य,
अशेषचराचरभूत, निखिलनियमनिरत, अशेषचिदचिद्वस्तुशेषीभूत,
निखिलजगदाधार, अखिलजगत्स्वामिन्, अस्मत्स्वामिन्,
सत्यकाम, सत्यसङ्कल्प, सकलेतरविलक्षण, अर्थिकल्पक,
आपत्सख, काकुत्स्थ, श्रीमन्नारायण, पुरुषोत्तम,
श्रीरङ्गनाथ, मम नाथ, नमोऽस्तुते ॥
॥ इति श्रीभगवद्रामानुजविरचितं श्रीरङ्गगद्यं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *