॥ श्रीरामानुजसहस्रनामावलिः ॥
ॐ श्रीमते रामानुजाय नमः
ॐ सौम्याय नमः
ॐ केशवार्यात्मजाय नमः
ॐ अनघाय नमः
ॐ श्रीमते नमः
ॐ कान्तिमतीगर्भशुक्तिमुक्ताफलाय नमः
ॐ जयाय नमः
ॐ लक्ष्मणाय नमः
ॐ भक्तमन्दाराय नमः
ॐ श्री भूतपुरनायकाय नमः
ॐ मोक्षप्रदाय नमः
ॐ सर्वसाक्षिणे नमः
ॐ प्रपन्नजनरञ्जनाय नमः
ॐ सर्वशास्त्रार्थतत्त्वज्ञाय नमः
ॐ त्रिलोकजनवन्दिताय नमः
ॐ अनन्ताय नमः
ॐ सत्यसङ्कल्पाय नमः
ॐ बलभद्राय नमः
ॐ महादृढाय नमः
ॐ निरञ्जनाय नमः
ॐ निर्विकाराय नमः
ॐ विपुलांसाय नमः
ॐ निरामयाय नमः
ॐ वेदान्तद्वयसारज्ञाय नमः
ॐ दिव्यमङ्गलविग्रहाय नमः
ॐ नीलाम्बरधराय नमः
ॐ चित्रचरित्राय नमः
ॐ करुणकराय नमः
ॐ वरदाय नमः
ॐ वेदवेत्रे नमः
ॐ स्वामिने नमः
ॐ परमधार्मिकाय नमः
ॐ अमोघवाक्याय नमः
ॐ सर्वज्ञाय नमः
ॐ सर्वकामप्रदायकाय नमः
ॐ नारायणंशसम्भूताय नमः
ॐ भवबन्धविमोचकाय नमः
ॐ सदाधाराय नमः
ॐ ज्ञानभाव्याय नमः
ॐ तीर्थस्नानफलप्रदाय नमः ॥ ४० ॥
ॐश्रीवैष्णवावनताय नमः
ॐ सर्वाय नमः
ॐ सर्वपुण्यफलप्रदाय नमः
ॐ सङ्कर्षणाय नमः
ॐ सर्वपूज्याय नमः
ॐ समयाय नमः
ॐ सर्वगोचराय नमः
ॐ दुराधर्षाय नमः
ॐ त्रिकालज्ञाय नमः
ॐ जरामरणवर्जिताय नमः
ॐ सहिष्णवे नमः
ॐ तत्त्ववेत्रे नमः
ॐ अरिषड्वर्गविजेत्रे नमः
ॐ अव्ययाय नमः
ॐ सर्वादये नमः
ॐ सद्गतये नमः
ॐ सर्वभूताधाराय नमः
ॐ महाधृतये नमः
ॐ सर्वजिते नमः
ॐ जन्मरहिताय नमः
ॐ ऊर्जिताय नमः ।
ॐशिष्टरञ्जनाय नमः
ॐ महोरस्काय नमः
ॐ विश्वगोत्रे नमः
ॐ लोकाध्यक्षाय नमः
ॐ शुभाकराय नमः
ॐ अजेयाय नमः
ॐ अनुत्तमाय नमः
ॐ शेषाय नमः
ॐ हृष्टात्मने नमः
ॐ दासपावनाय नमः
ॐ सारात्मकाय नमः
ॐ गुरुश्रेष्ठाय नमः
ॐ निर्वत्तविषयस्पृहाय नमः
ॐ कोमलाङ्गाय नमः
ॐ जगन्नाथाय नमः
ॐ विक्रमिणे नमः
ॐ सेवकप्रियाय नमः
ॐ अतुलाय नमः
ॐ मधुरालापाय नमः ॥ ८० ॥
ॐ प्रपन्नजनसंवृताय नमः
ॐ महास्वरुपाय नमः
ॐ सारज्ञाय नमः
ॐ सात्विकाय नमः
ॐ गतकल्मषाय नमः
ॐ उदारधिये नमः
ॐ श्वेतवर्णाय नमः
ॐ ज्ञानदीपप्रकाशकाय नमः
ॐ ज्ञानप्रियाय नमः
ॐ प्रसन्नेन्दुमुखाय नमः
ॐ नरकनाशनाय नमः
ॐ अनुकूलाय नमः
ॐ सूक्ष्मरुपाय नमः
ॐ कर्णान्तायतलोचनाय नमः
ॐ दुस्सहाय नमः
ॐ दुष्टदमनाय नमः
ॐ धीराय नमः
ॐ उदात्तगुणोत्तराय नमः
ॐ पुण्यश्लोकाय नमः
ॐ कलाधाराय नमः
ॐ कोटिसूर्यसमप्रभाय नमः
ॐ कृपापीयूषजलधये नमः
ॐ क्षयवृद्धिविवर्जिताय नमः
ॐ कर्त्रे नमः
ॐ पुराणपुरुषाय नमः
ॐ पापघ्ने नमः
ॐ मितभाषणाय नमः
ॐ धर्मदेवाय नमः
ॐ धर्मपालाय नमः
ॐ भवसन्तापनाशनाय नमः
ॐ उत्सवैषिणे नमः
ॐ तीर्थपादाय नमः
ॐ तापत्रयविदारणाय नमः
ॐ अधर्मशत्रवे नमः
ॐ अचलाय नमः
ॐ शक्तिमते नमः
ॐ अभयाय नमः
ॐ कवये नमः
ॐ श्रीवैष्णवार्चिताय नमः
ॐ श्रीमते नमः ॥ १२० ॥
ॐ आनन्दकरदर्शनाय नमः
ॐ मेषार्द्रासम्भवाय नमः
ॐ वेदपुरुषाय नमः
ॐ पार्थसारथये नमः
ॐवेदान्तद्वयकर्पूरचामीकरकरण्डकाय नमः
ॐ कान्तोपयन्त्रे नमः
ॐ पूरुषपुङ्गवाय नमः
ॐ सुगुणाकराय नमः
ॐ बलिने नमः
ॐ भक्तप्रियाय नमः
ॐ धीमते नमः
ॐ अवाङ्मनसगोचराय नमः
ॐ दुर्धर्षणाय नमः
ॐ देशिकाग्रगण्याय नमः
ॐ भुवनपावनाय नमः
ॐ अक्रूराय नमः
ॐ सर्वसिद्धान्तवेत्रे नमः
ॐ असुरभयप्रदाय नमः
ॐ अधिकारिणे नमः
ॐ सदाचार्याय नमः ॥ १४० ॥
ॐ महते नमः
ॐ आश्रितवत्सलाय नमः
ॐ शान्ताय नमः
ॐ प्रियम्बदाय नमः
ॐ शत्रुतापनाय नमः
ॐ पापनाशकृते नमः
ॐ समृद्धये नमः
ॐ सच्चिदानन्दाय नमः
ॐ संसारभयनाशनाय नमः
ॐ सर्वशक्तिमयाय नमः
ॐ व्यापिने नमः
ॐ सुललाटाय नमः
ॐ सुविक्रमाय नमः
ॐ उत्तारणाय नमः
ॐ जितामित्राय नमः
ॐ जितक्रोधाय नमः
ॐ जितेन्द्रियाय नमः
ॐ स्वभावभद्राय नमः
ॐ विजयिने नमः
ॐ विश्वक्सेनांशसम्भवाय नमः ॥ १६० ॥
ॐ रहस्यत्रयतत्त्वज्ञाय नमः
ॐ चतुर्वर्गफलप्रदाय नमः
ॐ शक्तिज्ञानयुताय नमः
ॐ शान्तिवर्धनाय नमः
ॐ सर्वतोमुखाय नमः
ॐ अगाधाय नमः
ॐ तत्त्वत्रितयाय नमः
ॐ तत्त्ववेत्रे नमः
ॐ जनार्दनाय नमः
ॐ संसारच्छेदकाय नमः
ॐ मन्दमितभाषिणे नमः
ॐ महामनसे नमः
ॐ पुण्योदयाय नमः
ॐ पराजय्याय नमः
ॐ महापुरुषाय नमः
ॐ पुङ्गवाय नमः
ॐ सत्यवाक्यरताय नमः
ॐ नित्याय नमः
ॐ गोविन्दाचार्यपूजिताय नमः
ॐ श्रुत्यपार्थश्रुतिप्रोद्भूताश्रुसन्तप्तयादवाय नमः ॥ १८० ॥
ॐ कप्यासश्रुतिसाध्वर्थसाधनाविद्धयादवाय नमः
ॐ सदम्भयादवाज्ञप्तगङ्गायात्राकृतोद्यमाय नमः
ॐ गोविन्दाचार्यविज्ञप्तयादवेच्छाविधाय नमः
ॐ बुधाय नमः
ॐ निवृत्तगङ्गायात्राय नमः
ॐ श्री काञ्चीयात्रासमुत्सुकाय नमः
ॐ निषादाकारवरदराजदर्शनलालिताय नमः
ॐ व्याधरुपेभशैलाधिनाथदर्शितकाञ्चीकाय नमः
ॐ तृषार्दितमहादेवीयाचिताम्बुसमर्पणाय नमः
ॐ काञ्चीपूर्णार्यविज्ञापितात्माभिप्रायाय नमः
ॐ आत्मवते नमः
ॐ वरदाज्ञासमानीतशालकूपाम्बवे नमः
ॐ अद्भुताय नमः
ॐ मन्त्रार्थसर्वदाभ्यस्ताय नमः
ॐ वेदान्तग्रन्थविस्ताराय नमः
ॐ देवराजकृपालब्धषड्वाक्यार्थमहोदधये नमः
ॐ यामुनाचार्यसच्छिष्यान्वेषिताय नमः
ॐ शुभलक्षणाय नमः
ॐ विष्णुभक्तिसमायुक्ताय नमः
ॐ शमादिगुणसागराय नमः ॥ २०० ॥
ॐ सहस्रगीतिव्याख्यातृयामुनाचार्यचिन्तिताय नमः
ॐ सर्ववेदार्थतत्त्वज्ञाय नमः
ॐ प्रियवादिने नमः
ॐ महायशसे नमः
ॐ श्रीरङ्गनगरायातयामुनार्यनिरीक्षिताय नमः
ॐ क्षीराब्धिफेनसङ्कासवस्त्रद्वयविराजिताय नमः
ॐ सदाचारसमायुक्ताय नमः
ॐ सज्जनप्रतिपूजकाय नमः
ॐ सम्पूर्णाङ्गाय नमः
ॐ सर्वजीवशरण्याय नमः
ॐ सत्यविक्रमाय नमः
ॐ दीर्घबाहवे नमः
ॐ विशालाक्षाय नमः
ॐ निम्ननाभये नमः
ॐ तनूदराय नमः
ॐ कम्बुकण्ठाय नमः
ॐ स्निग्धकेशाय नमः
ॐ पूर्णचन्द्रनिभाननाय नमः
ॐ विशालवक्षसे नमः
ॐ बिम्बोष्ठाय नमः ॥ २२० ॥
ॐ स्निग्धवर्णाय नमः
ॐ सुलक्षणाय नमः
ॐ छिद्रोर्ध्वपुण्ड्रसंयुक्तललाटफलकाय नमः
ॐ समाय नमः
ॐ सिद्धान्तवर्धनाकाङ्क्षियामुनार्यकटाक्षिताय नमः
ॐ स्वाभाविकानवधिकश्लोकार्थानन्दिताय नमः
ॐ यामुनाचार्यसन्दर्शनोत्सुकाय नमः
ॐ सुहृदादराय नमः
ॐ कावेरीसैकतानीतदृष्टयामुनविग्रहाय नमः
ॐ प्रतिज्ञात्रितयाधानयामुनाङ्गु लिमोचकाय नमः
ॐ यामुनाचार्यसाङ्गत्याभावसन्तप्तमानसाय नमः
ॐ अदृष्टरङ्गनगराय नमः
ॐ काञ्चीपुरसमागताय नमः
ॐ भोजनार्थसमाहूतकाञ्चीपूर्णाय नमः
ॐ कलानिधये नमः
ॐ काञ्चीपूर्णार्यभुक्तान्तनशेषालाभप्रलुब्धधिये नमः
ॐ अज्ञातात्मीयहृदयस्वीयपत्नीपराङ्मुखाय नमः
ॐ अघहारिणे नमः
ॐ कलिध्वंसिने नमः
ॐ ब्रह्मराक्षसमोचकाय नमः ॥ २४० ॥
ॐ पञ्चसंस्कारलाभार्थकाञ्ची पूर्णसमाश्रयाय नमः
ॐ वरदाज्ञाप्रकारज्ञकाञ्चीपूर्णप्रबोधिताय नमः
ॐ पूर्णायश्रयणासक्ताय नमः
ॐ श्रीरङ्गगमनोद्यताय नमः
ॐ मधुरान्तकसन्दृष्टपूर्णाचार्याय नमः
ॐ प्रहृष्टधिये नमः
ॐ पूर्णार्यकरुणालब्धपञ्चसंस्कारसंस्कृताय नमः
ॐ स्वीयदेवीदोषमिषत्प्राप्ततुर्याश्रमाय नमः
ॐ प्रभवे नमः
ॐ देवराजकपालब्धसंन्यासविधये नमः
ॐ आत्मविदे नमः
ॐ शिखायज्ञोपवीताढ्याय नमः
ॐ शरणत्राणतत्पराय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मणे नमः
ॐ काषायचेलधारिणे नमः
ॐ तपोधनाय नमः
ॐ कमण्डलूज्ज्वलकराय नमः
ॐ यतिराजाय नमः
ॐ सनातनाय नमः ॥ २६० ॥
ॐ हारीतवंश्याय नमः
ॐ भ्राजिष्णवे नमः
ॐ धर्माध्यक्षाय नमः
ॐ महाबलाय नमः
ॐ महोद्यमाय नमः
ॐ शिष्यभूतयादवाय नमः
ॐ यादवाज्ञानभञ्जकाय नमः .
ॐ समर्थाय नमः
ॐ यादवाचार्यदत्तसंस्कारपञ्चकाय नमः
ॐ भूमीप्रदक्षिणफलप्रदाय नमः
ॐ संसारतारकाय नमः
ॐ सम्प्राप्तक्रमसंन्यासयादवाचार्यसेविताय नमः
ॐ यादवार्पितगोविन्ददासाख्याय नमः
ॐ श्लाध्यवैभवाय नमः
ॐ स्वाज्ञाप्तयादवकृतयातिधर्मसमुच्चयाय नमः
ॐ विमलाय नमः
ॐ कुशलाय नमः
ॐ साधुशीलाय नमः
ॐ यादवमोक्षदाय नमः ॥ २८० ॥
ॐ आचार्यवर्याय नमः
ॐ परमहंसाय नमः
ॐ काञ्चीपुरस्थिताय नमः
ॐ कल्याणगुणसम्पूर्णाय नमः
ॐ दुर्जयाय नमः
ॐ योगिनांपतये नमः
ॐ सहस्रशीर्षाय नमः
ॐ सन्यासिने नमः
ॐ सर्वलोकसुखावहाय नमः
ॐ मुक्तिरताय नमः
ॐ महायोगिने नमः
ॐ सुशीलाय नमः
ॐ प्रीतिवर्धनाय नमः
ॐ परमार्थगुरवे नमः
ॐ जैत्राय नमः
ॐ तपस्विने नमः
ॐ सुलभाय नमः
ॐ सुखिने नमः
ॐ श्रीरङ्गनाथानुज्ञातवररङ्गार्यवीक्षिताय नमः
ॐ गानतोषितदेवेशवररङ्गार्यसत्कृताय नमः
ॐ गीतप्रीतेभशैलेशप्रेषिताय नमः ॥ ३०० ॥
ॐ रङ्गधामगाय नमः
ॐ रङ्गराजकृपालब्धविभूतिद्वयवैभवाय नमः
ॐ प्राप्तश्रीरङ्गसाम्राज्याय नमः
ॐ सदाकैङ्कर्यलोलुपाय नम:
ॐ पाषण्डमतसंसक्तगोविन्दाकर्षणोत्सकाय नमः
ॐ श्रीशैलपूर्णसान्निध्यसम्प्रेषिताय नमः
ॐ धरासुराय नमः
ॐ पूर्णलब्धद्वयार्थाय नमः
ॐ श्रीपाञ्चरात्रागमादराय नमः
ॐ न्यायतत्त्वविदे नमः
ॐ अव्यग्राय नमः
ॐ सिद्धित्रयविवेचकाय नमः
ॐ गीतार्थसङ्ग्रहज्ञात्रे नमः
ॐ ज्ञातपुरुषनिर्णयाय नमः
ॐ व्याससूत्रार्थतत्त्वज्ञाय नमः
ॐ गोष्ठीनगरसंश्रिताय नमः
ॐ गोष्ठीपूर्णकृपालब्धमन्त्रार्थाय नमः
ॐ परमार्थविदे नमः
ॐ समस्तलोकोपदिष्टमन्त्ररत्नाय नमः
ॐ सुहृत्प्रियाय नमः ॥ ३२० ॥
ॐ कृतमासोपवासश्रीकूरेशचरमार्थदाय नमः
ॐ मदत्रयोन्मुक्तदाशरथ्यार्यचरमार्थदाय नमः
ॐ वररङ्गार्यसम्प्राप्तशठजिद्ग्रन्थशेवधये नमः
ॐ गोविन्दमुख्यशिष्योपदिष्टद्राविडवाङ्मयाय नमः
ॐ सहस्रगीतिव्याख्यामालाधराप्ताय नमः
ॐ यामुनोक्तार्थकथनतुष्टमालाधरस्तुताय नमः
ॐ वररङ्गार्यसम्प्राप्तपञ्चमोपायवैभवाय नमः
ॐ वररङ्गार्यनिर्दिष्टतत्सोदरसमाश्रिताय नमः
ॐ नित्यग्रन्थसमादिष्टमाधवाराधनक्रमाय नमः
ॐ गद्यत्रयकराय नमः
ॐ सूरिणे नमः
ॐ कुलक्षेमाय नमः
ॐ कृतक्षमाय नमः
ॐ कृतरङ्गेशकैकर्यशासनाय नमः
ॐ पापमोचनाय नमः
ॐ अर्चकेरितसन्दत्तविषान्नाय नमः
ॐ पन्नगेश्वराय नमः
ॐ श्रीवैष्णवबधूदत्तससंज्ञाविषभोजनाय नमः
ॐ त्यक्तजलान्नविज्ञातपूर्णार्याश्वसिताय नमः ॥ ३४० ॥
ॐ सुखाय नमः
ॐ सन्तप्तसैकतपतप्रणतार्तिहरादराय नमः
ॐ प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय नमः
ॐ क्रूरात्मार्चकसन्दत्तविषतीर्थाशनाय नमः
ॐ अमृताय नमः
ॐ प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवाय नमः
ॐ यज्ञमूर्तिकृताद्वैतशास्त्रवादसुविस्मिताय नमः
ॐ देवराजकृपालब्धयज्ञमूर्तिजयोद्यमाय नमः
ॐ यज्ञमूर्तिप्रतिष्ठात्रे नमः
ॐ महोत्साहाय नमः
ॐ शुभेक्षणाय नमः
ॐ यज्ञमूर्तिवितीर्णात्मनाम्ने नमः
ॐ प्रांशुप्रकाशनाय नमः
ॐ ज्ञानप्रमेयसाराख्यग्रन्थकृते नमः
ॐ यज्ञनन्दिताय नमः
ॐ देवराजार्चनादिष्टदेवराजमुनिप्रियाय नमः
ॐ वैखानसार्चकस्तोमतूलझञ्झासमीरणाय नमः
ॐ पाञ्चरात्रागमाधीनरङ्गेशार्चादराय नमः
ॐ अजिताय नमः
ॐ श्रीवेङ्कटाचलस्थानपुष्पारामार्थिमानसाय नमः ॥ ३६० ॥
ॐ स्वाज्ञापितानन्तसूरिस्थापितारामतोषिताय नमः
ॐ श्रीवेङ्कटेशपादाब्जसेवार्थवर्धितोत्तमाय नमः
ॐ श्रीरङ्गनाथानुमतकृतयात्राय नमः
ॐ कृतार्थदाय नमः
ॐ पाथेयीकृतगोविन्दनाम्ने नमः
ॐ कामादिवर्जिताय नमः
ॐ श्रीदेहलीपुरीधामत्रिविक्रमपदानताय नमः
ॐ शुद्धाय नमः
ॐ शैवसमाक्रान्तचित्रकूटावनोन्मुखाय नमः
ॐ नित्याय नमः ॥ ३७० ॥
ॐ नेत्रे नमः
ॐ अष्टसाहस्रग्रामयातायाताशयाय नमः
ॐ यज्ञेशज्ञापनप्रेषितान्तेवासिने नमः
ॐ वशिने नमः
ॐ रसिने नमः
ॐ शिष्यापूजकयज्ञेशविमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सख्ये नमः
ॐ कार्पासारामवरदधामयात्रेनमः
ॐ हताधमाय नमः ॥ ३८० ॥
ॐ अक्षय्यपात्रकृते नमः
ॐ दीनवरदार्यातिवत्सलाय नमः
ॐ अवस्त्रवरदाचार्यभार्याहस्तनिनादविदे नमः
ॐ भावज्ञाय नमः
ॐ वरदाचार्यभार्यादत्तशिरोम्ब राय नमः
ॐ वरदाचार्यभार्याभिवन्दिताय नमः
ॐ सूरिनन्दिताय नमः
ॐ वरदार्यप्रियानीतपदार्थचयविस्मिताय नमः
ॐ कार्पासारामवरदनिवासकृतभोजनाय नमः
ॐ स्वदेहदानसन्तुष्टवरदाय नमः
ॐ वरदाय नमः
ॐ अगजाय नमः
ॐ सत्कार्याय नमः
ॐ वरदाचार्यभार्याशेषप्रदाय नमः
ॐ शुभाय नमः
ॐ वरदार्यकृपापात्रवैश्यचक्राङ्कनप्रदाय नमः
ॐ पञ्चसंस्कारसम्पूतवैश्यश्रीवैष्णवत्वदाय नमः
ॐ वैष्णवायितवैश्यार्पिताखिलार्थपरिग्रहाय नमः
ॐ भीतप्रणतयज्ञेशप्रार्थिताय नमः
ॐ नास्तिवारतये नमः ॥ ४०० ॥
ॐ तदीयोपेक्षियज्ञेशानादराय नमः
ॐ साधुसादराय नमः
ॐ आर्तयज्ञेशोपदिष्टप्रपन्नजनलक्षणाय नमः
ॐ श्री शैलयाम्यभागस्थदिव्यकापिलतीर्थगाय नमः
ॐ दिव्यकापिलतीर्थस्थशठकोपादिसेवकाय नमः
ॐ दिव्यसूरिसरोनीरकृतस्नानाय नमः
ॐ स्थिरासनाय नमः
ॐ श्रीमदाष्टाक्षरीमन्त्रजपप्रपन्नादराय नमः
ॐ श्री शैलदर्शनात्यन्तविस्मिताय नमः
ॐ सस्मिताय नमः
ॐ श्रिताय नमः
ॐ विश्रुताय नमः
ॐ प्रश्रिताय नमः
ॐ सत्यव्रताय नमः
ॐ सात्विकसङ्गताय नमः
ॐ राज्ञे नमः
ॐ विट्ठलदेवाधिराजाश्रितपदाम्बुजाय नमः
ॐ सम्प्राप्तविठ्ठलाधीशपञ्चसंस्कारदाय नमः
ॐ अदराय नमः
ॐ पूर्णाय नमः ॥ ४२० ॥
ॐ विट्ठलदेवेशसमर्पितमहधनाय नमः
ॐ तुण्डीरमण्डलमिलन्मण्डियाख्याग्रहारकृते नमः
ॐ त्रिंशत्क्षेत्रलसन्मण्डियार्पणानन्दिताश्रिताय नमः
ॐ भावज्ञाय नमः
ॐ अनन्तमुख्यार्यप्रार्थिताय नमः
ॐ पार्थिवार्चिताय नमः
ॐ श्रीशेषभोगिभावश्रीशेषाय रोहणारुचये नमः
ॐ मङ्गलाशासनार्थायाहूताय नमः
ॐ पृथ्वीसुराश्रिताय नमः
ॐ पूर्वार्यसदनुष्ठानमार्गसञ्चारतत्पराय नमः
ॐ सद्भक्तिकृतशेषाद्रिमङ्गलाशासनाय नमः
ॐ वराय नमः
ॐ नगानारोहणप्रणत्यागाय नमः
ॐ आश्रितवत्सलाय नमः
ॐ श्री शीलारोहणकृतनिश्चयाय नमः
ॐ श्रितसद्गतये नमः
ॐ नगानारोहणारोहणान्दोलितहृदन्तराय नमः
ॐ कतप्रथमसोपानवन्दनाय नमः
ॐ श्रितनन्दनाय नमः
ॐ वैष्णवप्रेरणाकृतशेषशैलाधिरोहणाय नमः ॥ ४४० ॥
ॐ श्रीशैलपूर्णदत्तश्रीनाथतीर्थप्रसादभाजे नमः
ॐ एकान्तिदर्शितपथाय नमः
ॐ वायुगोपुरदर्शनाय नम:
ॐ रामानुजमहारामदर्शनात्यन्तविस्मिताय नमः
ॐ स्वामिपुष्करिणीस्नात्रे नमः
ॐ वराहार्चनतत्पराय नमः
ॐ कुलशेखरसोपानबलिपीठकृतानतये नमः
ॐ कृतश्रीयामनार्याख्यपुष्पमण्डपसेवनाय नमः
ॐ अखण्डभक्तिप्रणतयागशालामहानसाय नमः
ॐ अमन्दानन्दविहितमणिमण्डपवन्दनाय नमः
ॐ श्रीविष्वक्सेनमुख्यश्रीदिव्यसूरिकृताञ्जलये नमः
ॐ आनन्दनिलयोद्यानधामसेवाभिनन्दिताय नमः
ॐ आनन्दवाष्पनयनाय नमः
ॐ श्रीनिवासपदानताय नमः
ॐ श्रीमालाशठकोपादिग्रहित्रे नमः
ॐ आहितमङ्गलाय नमः
ॐ श्रीशैलकृतवैकुण्ठबुद्धये नमः
ॐ बुद्धिमते नमः
ॐ अग्रण्ये नमः ॥ ४६० ॥
ॐ श्रीश्रीनिवासस्नानाभिसेवनस्थिरपालनाय नमः
ॐ श्रीशैलपशुवृक्षादिनित्यसूर्यभिमानवते नमः
ॐ श्रीशैलदेशिकाज्ञाप्तशेषादित्रिदिनस्थितये नमः
ॐ निराहाराय नमः
ॐ श्रीनिवासदत्ततीर्थप्रसादभुजे नमः
ॐ श्रीवेङ्कटेशदत्तश्रीविभूतिद्वयवैभवाय नमः
ॐ श्रीशैलपूर्णसम्प्राप्तश्रीरामायणतत्त्वधिये नमः
ॐ गुरुभक्तिकृपामुख्यगोविन्दगणतोषिताय नमः
ॐ श्रीशैलदेशिकप्राप्तगोविन्दार्यप्रतिग्रहाय नमः
ॐ कृतश्रीघटिकाद्रीशनारसिंहाभिवन्दनाय नमः
ॐ नतगृध्रसरस्तीरराजद्विजयराघवाय नमः
ॐ गुणानन्दितगोविन्दाय नमः
ॐ पूर्णसार्वज्ञाविस्मिताय नमः
ॐ अङ्गीकृताष्टसाहस्रयज्ञेशकृतपूजनाय नमः
ॐ गोविन्दाचार्यवैराग्यगुरुप्रेमातिविस्मिताय नमः
ॐ त्रिदण्डीकृतगोविन्दाय नमः
ॐ स्वनामार्धप्रदायकाय नमः
ॐ श्रीभाष्यग्रन्थनिर्माणसहायीकृतकूरराजे नमः
ॐ शारदापीठसम्प्राप्तश्रीबोधायनवृत्तिकाय नमः
ॐ कूरेशज्ञानवैचित्त्यपारतन्त्र्यादितोषिताय नमः ॥ ४८० ॥
ॐ तत्त्वमस्यादिवाक्यार्थतत्त्वनिर्णयकारकाय नमः
ॐ निरस्तयादवप्रोक्तज्ञानकर्मसमुच्चयाय नमः
ॐ ज्ञानोपासनशब्दाभिधेयभक्त्यैकसाधनाय नमः
ॐ चिदचिद्रूपतासाधिताद्वैतश्रुतिसन्ततये नमः
ॐ स्वरुपविमलीभूतभेदश्रुतिसमर्थनाय नमः
ॐ घटकश्रुतिसापेक्षद्वैताद्वैतसमन्वयाय नमः
ॐ भास्करप्रोक्तदुष्टार्थध्वान्तविध्वंसभाष्कराय नमः
ॐ शङ्करार्यमतातङ्कनिर्मूलनविचक्षणाय नमः
ॐ सौरसिद्धान्तविच्छेदिने नमः
ॐ गाणपत्यमतान्तकाय नमः
ॐ कपिलागमरद्धान्तकान्तार दवपावकाय नमः
ॐ जैनेभसिंहाय नमः
ॐ चार्वाकमर्दिने नमः
ॐ योगविमर्दनाय नमः
ॐ ध्वस्तवैशेषिकमताय नमः
ॐ न्यायसिद्धान्तदूषकाय नमः
ॐ हतमाध्यमिकाय नमः
ॐ धूतयोगाचाराय नमः
ॐ वृषाकृतये नमः ॥ ५०० ॥
ॐ वैभाषिकमतच्छेदिने नमः
ॐ सौत्रान्तिकनयापहाय नमः
ॐ विध्वस्तशैवराद्धान्ताय नमः
ॐ कापालिकविफालकाय नमः
ॐ शाक्तेयवाधकाय नमः
ॐ पाञ्चरात्रप्रामाण्यसाधकाय नमः
ॐ श्रीभाष्यग्रन्थनिर्माणसर्वलोकोपकारकाय नमः
ॐ वेदान्तदीपनिर्मात्रे नमः
ॐ वेदान्तसारकृते नमः
ॐ भगवद्गीताभाष्योपकारकाय नमः
ॐ दिग्विजयोल्लासजाताय नमः
ॐ श्रीरङ्गेशप्रचोदिताय नमः
ॐ ख्याताय नमः
ॐ द्वादशसाहस्रैकान्तियुक्ताय नमः
ॐ परन्तपाय नमः
ॐ चतुस्सप्ततिपीठस्थासंवृताय नमः
ॐ देशिकोत्तमाय नमः
ॐ त्रिदण्डभृते नमः
ॐ सप्तशतिमण्डितपाण्डितोत्तमाय नमः
ॐ अनन्तवैष्णववृताय नमः
ॐ ब्रह्मविदे नमः ॥ ५२० ॥
ॐ नैककर्मकृते नमः
ॐ दृष्टश्वेताद्रिपद्माक्षाय नमः
ॐ नतश्रीनिचुलापुराय नमः
ॐ श्रीरामनगरापूपरङ्गनायकसेवकाय नमः
ॐ तञ्जापुरीनारसिंहनीलमेघोज्वलार्चकाय नमः
ॐ श्रीमद्भूतपुरीरामसेवाहर्षसमन्विताय नमः
ॐ कुम्भकोणवसच्छार्ङ्गपाणिसन्दर्शनोत्सुकाय नमः
ॐ स्तुतनन्दिपुरस्वामिने नमः
ॐ सङ्गमग्रामसङ्गताय नमः
ॐ कृष्णारण्यस्थदेवाधिराजपूजनलोलुपाय नमः
ॐ बालव्याधपुरीशेषशायिसन्दर्शनादराय नमः
ॐ श्रीसारनाथसेविने नमः
ॐ श्रीमुष्णवाराहसेवनाय नमः
ॐ अरुणवनक्षेत्रव्योमज्योतिमहाद्युतिनताय नमः
ॐ पापनाशाभिधक्षेत्रपापनाशाभिनन्दनाय नमः
ॐ दृष्टश्रीखण्डग्रामहरपापविमोचनाय नमः
ॐ अभ्रपुरस्थायिवेङ्कटेशपदाम्बुजसेवकाय नमः
ॐ कृष्णपुरीशौरिराजनताय नमः
ॐ कण्वपुराश्रिताय नमः
ॐ श्रितनागपुरश्रीशाय नमः
ॐ नतश्रीगृहपूर्णकाय नमः ॥ ५४० ॥
ॐ सुगन्धविपिनक्षेत्रफणिराजशयार्चकाय नमः
ॐ श्रीचित्रकूटगोविन्दराजदर्शनलालसाय नमः
ॐ त्रिविक्रमपुरावासत्रिविक्रमपदानताय नमः
ॐ परिरम्भपुरीरम्यवरदर्शनतोषिताय नमः
ॐ वीक्षाटवीकीगृहस्थवीरराघवसेवकाय नमः
ॐ काञ्चीनगरसम्प्राप्ताय नमः
ॐ कृताष्टभुजवन्दनाय नमः
ॐ परमेशपुरस्थानवैकुण्ठेश्वरवन्दिताय नमः
ॐ शैलमूलनृसिंहार्चाय नमः
ॐ कमलेक्षणवीक्षकाय नमः
ॐ कामासिकानृसिंहार्चाय नमः
ॐ त्रैविक्रमार्चनकृताय नमः
ॐ यथोक्तकारीसंसेविने नमः
ॐ स्तुतपाण्डवदूतकाय नमः
ॐ एकाम्रेशालयज्योत्स्नाचन्द्रखण्डेश्वरार्चकाय नमः
ॐ कामाक्षीनिलयावासचोरकृष्णपदानताय नमः
ॐ उरगगृहपञ्चदुरगालयनायकस्तुताय नमः
ॐ मेघालयाधिपप्रार्थिने नमः
ॐ नततोयगृहाधिपाय नमः ॥ ५६० ॥
ॐ ग्रामगृहाधीशसेव्याय नमः
ॐ बहुवैष्णवपूजिताय नमः
ॐ दृष्टकैरविणीतीरनिवसत्पार्थसारथये नमः
ॐ नृसिंहसेवानिरताय नमः
ॐ रङ्गनायकसेवकाय नमः
ॐ गजेन्द्रवरदप्रार्थिने नमः
ॐ राघवार्चनतत्पराय नमः
ॐ तोयाद्रिरङ्गेशनताय नमः
ॐ स्तुताहीन्द्रपुरीहरये नमः
ॐ महाबलिपुरीभूमिशायिकेशवपूजकाय नमः
ॐ गोपपट्टणवास्तव्यत्रिविक्रमपदानताय नमः
ॐ सम्प्राप्तनागनगराय नमः
ॐ नन्दाभीरप्रसेवकाय नमः
ॐ घटप्रणतस्तोत्रे नमः
ॐ महाकारुण्यपूजकाय नमः
ॐ रक्ताम्बरहरिस्तोत्रे नमः
ॐ श्रीनारायणपूजकाय नमः
ॐ पुरुषोत्तमसंसेविने नमः
ॐ रत्नकुटाधिपार्चकाय नम:
ॐ वैकुण्ठेशपदानम्राय नमः ॥ ५८० ॥
ॐ नमज्जनकृतादराय नमः
ॐ कमलानाथसेवार्थिने नमः
ॐ माधवाचनलालसाय नमः
ॐ गोपीपतिहरिस्तोत्रे नमः
ॐ स्नातैकादशतीर्थकाय नमः
ॐ शुक्रपुरीरामदृष्टाय नमः
ॐ सम्प्राप्ताकाशपत्तनाय नमः
ॐ सदृशाभावताताख्यभगवत्पूजनोत्सुकाय नमः
ॐ रथपातस्थलाधीशदेवराजसमर्चकाय नमः
ॐ श्रीकृष्णमङ्गलक्षेत्रभक्तवत्सलसेवकाय नमः
ॐ श्रीनिवासपुरीशास्मन्मातृनाथपदानताय नमः
ॐ कृष्णकुटीवासाश्रिताय नमः
ॐ दामोदरपदार्चनाय नमः
ॐ शिरशङ्खपुराधीशस्तोत्रे नमः
ॐ इन्दुनगरीशभाजे नमः
ॐ कपिस्थलगजार्तिघ्नसेव्याय नमः
ॐ आदित्यपुरीशभाजे नमः
ॐ कदम्बनगराधीशसेवालालसमानसाय नमः
ॐ पाण्ड्यमण्डलसम्प्राप्ताय नमः
ॐ शीतोद्यानाधिपार्चकाय नमः ॥ ५०० ॥
ॐ नतमोहनराजाङ्घ्रये नमः
ॐ श्रितसत्यमहीधराय नमः
ॐ गोष्ठीपुरीगोष्ठपतिसौम्यनारायणार्चकाय नमः
ॐ वानाद्रिसुन्दरबाहुस्वामीदर्शनलालसाय नमः
ॐ मधुरापुरासंवासिश्रीवल्लभपदार्चकाय नमः
ॐधन्विनव्यपुराधीशवटपत्रशयार्चकाय नमः
ॐ श्रीभट्टनाथसंसेविने नमः
ॐ गोदादर्शननन्दिताय नमः
ॐ फुल्लारण्यगताय नमः
ॐ दर्भशैयाराघवसेवकाय नमः
ॐ निस्तौल्यमङ्गलपुरीदेवदेवसमर्चकाय नमः
ॐ पद्मलोचनसेवार्थिने नमः
ॐ श्रीवरमङ्गलाश्रिताय नमः
ॐ श्रीदक्षिणपुरीवासमकरायतसेवकाय नमः
ॐ तिन्त्रिणीमन्दिरस्थायिभुजङ्गशयनार्चकाय नमः
ॐ विजयासनसंसेविने नमः
ॐ श्रीवैकुण्ठपदार्चकाय नमः
ॐ निक्षेपवित्तलाभाढ्याय नमः
ॐ मायानटसमर्चकाय नमः
ॐ ताम्रपर्णीनदीस्नात्रे नमः ॥ ६२० ॥
ॐ कुरुकानगरीश्रिताय नमः
ॐ आदिनाथपदाम्भोजपूजालालसमानसाय नमः
ॐ तिन्त्रिणीवृक्षसंसेविने नमः
ॐ श्रीपराङ्कुशसेवकाय नम:
ॐ शठारिविषयश्लोकनिर्मात्रे नमः
ॐ निर्मलाशयाय नमः
ॐ वानाद्रिदेवनाथश्रीपादार्चनकृतादराय नमः
ॐ कुरङ्गनगरीप्राप्ताय नमः
ॐ पूर्णसंलापलालिताय नमः
ॐ अधस्स्थीकृतगोविन्दाय नमः
ॐ परमोच्चासनास्थिताय नम:
ॐ करङ्गनगरीपूर्णमन्त्ररत्नोपदेशकाय नमः
ॐ कुरङ्गनगरीपूर्णदत्तदास्यभिधाय नम:
ॐ अक्षराय नमः
ॐ देवाधिदेवकरुणाप्राप्तब्रह्मरथोत्सवाय नम:
ॐ कुरङ्गपुरविन्यस्तमठस्थापितयोगिराजे नमः
ॐ अनन्तशयनक्षेत्रगन्त्रे नम:
ॐ ब्रह्मविदे नमः
ॐ उत्तमाय नमः
ॐ कृतश्रीपद्मनाभाङ्गद्वारत्रयनिषेवणाय नम: ६४०
ॐ कृतरामानुजमठाय नमः
ॐ प्रतिवादिभयङ्कराय नमः
ॐ शितार्चचारनगरश्रीवक्षस्सेवनादराय नमः
ॐ श्रीमन्नीरदसेतुस्थताताख्यहरिपूजकाय नमः
ॐ श्रीनौकापुरसंवासिनारायणपरायणाय नमः
ॐ श्रीसूक्तिकरणक्षेत्रदेवदेवसमर्चकाय नमः
ॐ रक्तनेत्रस्थलस्थायिदेवतातसमर्चकाय नमः
ॐ दीर्घशार्दूलनगरमायाविष्णुकृतादराय नमः
ॐ श्रीवल्लवेदिनगरालङ्कारहरिपूजकाय नमः
ॐ श्रितभृङ्गपुरीपद्मनाथपादाब्जसेवकाय नमः
ॐ समुद्रनिम्नगावासिकेशवार्चनलोलुपाय नमः
ॐ विद्वद्गोष्ठीपुरप्राञ्चदभयप्रदपूजकाय नमः
ॐ कटिस्थानपुरस्थायिनारायणपदार्चकाय नमः
ॐ वाराशिवलसुक्षेत्रशेषाशनगणसेव्याय नमः
ॐ जनार्दनक्षेत्रसेविने नमः
ॐ केरलस्थकुदृष्टिजिते नमः
ॐ द्वारकानाथसेविने नमः
ॐ मथुरानाथपूजकाय नमः
ॐ सालग्रामक्षेत्रवासिने नमः
ॐ साकेतनगराश्रिताय नमः
ॐ सन्दृष्टनैमिषारण्याय नमः
ॐ कृतपुष्करगाहनाय नमः
ॐ वदर्याश्रमसंवासिनारायणपदार्चकाय नमः
ॐ सम्प्राप्तपरिधिक्षेत्रपरिधिनाथकार्चकाय नमः
ॐ वृन्दावनस्थगोपालसेवासन्तोषिताशयाय नमः
ॐ कृतनन्दव्रजानन्दाय नमः
ॐ नन्दनन्दनवन्दनाय नमः
ॐ श्रीभूसमेतश्रीमुक्तिनारायणसुपूजकाय नमः
ॐ शालग्राममहाक्षेत्रमङ्गलाशासनादराय नमः
ॐ भट्टमण्डपसन्दर्शिने नमः
ॐ भट्टप्रभाकरादिजिते नमः
ॐ शारदापीठसम्प्राप्ताय नमः
ॐ शारदानन्दवर्धनाय नमः
ॐ कप्यासश्रुतिनिर्बोढ्रे नमः
ॐ शारदाशोकनाशनाय नमः
ॐ भाषादत्तहयग्रीवाय नमः
ॐ मायावादिमतान्तकाय नमः
ॐ सरस्वतीस्वयंदत्तभाष्यकारसमाह्वयाय नमः
ॐ वाणीशिरोधृतात्मीयश्रीभाष्याय नमः ६८०
ॐ सिंहविक्रमाय नमः
ॐ शारदापीठराजेन्द्रपञ्चसंस्कारदायकाय नमः
ॐ दृष्टवाराणसीक्षेत्राय नमः
ॐ कृतगङ्गावगाहनाय नमः
ॐ नतश्रीभोगिदायनाय नमः
ॐ काशीपण्डितखण्डनाय नमः
ॐ नीलाचलक्षेत्रगताय नमः
ॐ पुरुषोत्तमदर्शकाय नमः
ॐ नीलाचलस्थापितात्ममठाय नमः
ॐ शठविलुण्ठनाय नमः
ॐ श्रीजगन्नाथसङ्कल्पमोहितात्मविनिश्चयाय नमः
ॐ भगवद्योगमायाप्तश्रीकूर्मक्षेत्रसंस्थितये नमः
ॐ स्वप्नप्रसन्नकूर्मेशज्ञाततत्त्वपरार्थविदे नमः
ॐ पाषण्डवादनिर्जिताय नमः
ॐ निष्कासनशिवार्चकाय नमः
ॐ कूर्मनाथप्रतिष्ठात्रे नमः
ॐ शैवानांवैष्णवत्वदाय नमः
ॐ पाञ्चरात्रार्थनिर्णीताय नमः
ॐ श्वेतमृत्स्नप्रकाशकाय नमः
ॐ सिंहाद्रिगाय नमः
ॐ श्रीवराहनरसिंहपदार्चकाय नमः
ॐ कृतश्रीभाष्यपठनाय नमः
ॐ श्रीवैष्णवसमाश्रिताय नमः
ॐ कृष्णार्यखर्वदुर्वारगर्वनिर्वापणस्थिराय नमः
ॐ अहोविलक्षेत्रसेविने नमः
ॐ प्राप्तश्रीगरुडाचलाय नमः
ॐ शैवसात्कृतशेषाद्रिदर्शनाकूलमानसाय नमः
ॐ वादखण्डितपाषण्डाय नमः
ॐ स्ववशीकृतशेषाद्रये नमः
ॐ श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकाय नमः
ॐ श्रीवेङ्कटेशश्वसुराय नमः
ॐ स्वर्णलक्ष्मीसमर्पकाय नमः
ॐ स्थलावनार्थविन्यस्तसंन्यासिद्वयविज्वराय नमः
ॐ देवराजसमालोककृतार्थाय नमः
ॐ स्वस्तिदक्षिणाय नमः
ॐ मधुरान्तकसंदर्शिने नमः
ॐ वीरनारायणाश्रिताय नमः
ॐ सन्दृष्टनाथयोगीन्द्रयोगाभ्यासवसुन्धराय नमः। ॥ ७२० ॥
ॐ प्रदक्षिणीकृतधराय नमः
ॐ श्रीरङ्गस्थिरवासकृते नमः
ॐ उञ्छजीवनाय नमः
ॐ कूरेशसहवासप्रतोषिताय नमः
ॐ पराशरव्यासनामादृतकूरेशनन्दनाय नमः
ॐ गोविन्दशीक्षिताय नमः
ॐ व्यासपराशरकृतादराय नमः
ॐ दत्तश्रीरामनामाढ्यव्यासभट्टारकाश्रिताय नमः
ॐ पराङ्कुशाभिधाहुतबालगोविन्दनन्दनाय नमः
ॐ धनुर्दाशसीयकामान्धहारिणे नमः
ॐ निर्हेतुकेक्षणाय नमः
ॐ पदाश्रितधनुर्दासपञ्चसंस्कारदाय नमः
ॐ सुहृदे नमः
ॐ रङ्गेशकिङ्करभूतधन्विदाससमुत्सुकाय नमः
ॐ दासीभूतसुवर्णाम्बज्ञानवैराग्यवर्धनाय नमः
ॐ धनुर्दाससुवर्णाम्बगुणाधिक्यप्रकाशकाय नमः
ॐ शौरिलीलाकलादृष्टक्रिमिकण्ठभयार्दिताय नमः
ॐ त्यक्तत्रिदण्डकाषायचेलाय नमः
ॐ कुरेशवस्त्रधृते नमः
ॐ पश्चिमारण्यसञ्चारिणे नमः
ॐ मितश्रीवैष्णवान्विताय नमः
ॐ षड्रात्रवर्जिताहाराय नमः
ॐ वातवर्षादिपीडिताय नमः
ॐ समीचीनार्यसच्छिष्यसत्कृताय नमः .
ॐ पूतभिल्लकाय नमः
ॐ समीचीनार्यसन्देशफलश्लाघिततद्गुणाय नमः
ॐ स्वपदाब्जरजः पूतकिरातकनिकेतनाय नमः
ॐ चेलाञ्चलाम्बपुरुषकारस्वीकृततत्पतये नमः
ॐ देवराजात्तकाषायवस्त्रदण्डकमण्डलवे नमः
ॐ बह्निपुष्करिणीतीर्थकृतत्रिदिनसंस्थितये नमः
ॐ मिथिलानगरीकिञ्चिन्नीतकालाय नमः
ॐ प्रजागराय नमः
ॐ सालग्रामगताशेषब्राह्मणाज्ञानविस्मिताय नमः
ॐ वाधूलगुरुपादाम्बुपाविताखिलभूसुराय नमः
ॐ अङ्गीकृतान्ध्रपूर्णार्याय नमः
ॐ पादच्छायाप्रसादकाय नमः
ॐ सम्प्राप्तनृहरिक्षेत्राय नमः
ॐ नारसिंहार्चनादराय नमः
ॐ क्रिमिकण्ठबधार्थाहिताभिचाराय नमः
ॐ पुरातनाय नमः
ॐ भक्तग्रामगताय नमः ॥ ७६०॥
ॐ भक्तग्रामपूर्णसमर्चिताय नमः
ॐ विठ्ठलाधीशतनयाब्रह्मराक्षसमोचकाय नमः
ॐ उदाराय नमः
ॐ विट्ठलाधीशशङ्खचक्राङ्कनप्रादय नमः
ॐ विष्णुवर्धनदासाख्याहूतविट्ठलभूपतये नमः
ॐ शिष्यापहरणक्रुद्धबौद्धरुद्धाय नमः
ॐ सुमोहनाय नमः
ॐ नृसिंहमण्डपस्थायिने नमः
ॐ वादमुद्रासमन्विताय नमः
ॐ फणासहस्रवाग्जालमूकीकृतविपक्षकाय नमः
ॐ पादाश्रितक्षपणकाय नमः
ॐ अखिलदुर्मदशिक्षिताय नमः
ॐ स्वप्नसाक्षात्कृतश्रीमन्नारायणपरायणाय नमः
ॐ यादवाद्रिमहारण्यच्छेदाहित महापथाय नमः
ॐ कल्याणसरसीतीरवराहार्चनतोषिताय नमः
ॐ वेदपुष्करिणीस्नात्रे नमः
ॐ परिधानशिलास्थिताय नमः
ॐ लब्धकल्याणसरसीतटचम्पककाननाय नमः
ॐ तुलसीवृक्षबाल्मीकनारायणसमागमाय नमः
ॐ गिरिमूलविनिक्षिप्तश्वेतमृत्स्नाप्रकाशकाय नमः
ॐ विमानगोपुरागारनिर्मात्रे नमः
ॐ ब्राह्मणप्रियाय नमः
ॐ नारायणपुरीकर्त्रे नमः
ॐ विष्णूत्सवसमुत्सुकाय नमः
ॐ नारायणसमादिष्टरामप्रिययथास्थितये नमः
ॐ रामप्रियार्थाभियातदिल्लीश्वरसमर्चिताय नमः
ॐ दिल्लीशदत्ततत्कन्यायुक्तरामप्रियाय नमः
ॐ गुरवे नमः
ॐ सम्पत्कुमाराख्याहूतरामप्रियसमागताय नमः
ॐ दिल्लीशकन्यान्तर्धानहृष्टरोम्णे नमः
ॐ अमरप्रभवे नमः
ॐ नारायणपदन्यस्तस्वर्णदिल्लीशकन्यकाय नमः
ॐ रामप्रियोत्सवालोककुतूहलितमानसाय नमः
ॐ वर्षत्रिदिनदेवेशसेवानुज्ञातपञ्चमाय नम:
ॐ पूर्णार्यकुरनाथान्ध्यश्रवणाकुलमानसाय नमः
ॐ स्वार्याङ्घ्रिगतपूर्णार्यार्थाहिताध्ययनोत्सवाय नमः
ॐ क्रिमिकण्ठमृतिज्ञापिवैष्णवद्वयमन्त्रदाय नमः
ॐ यादवाद्रिसुखावासनीतद्वादशवत्सराय नमः ।
ॐ श्रीरङ्गराजसेवार्थिने नमः
ॐ श्रीरङ्गगमनोद्यताय नमः ॥ ८००॥
ॐ आत्मबिम्बस्थापनानुगृहीताखिलवैष्णवाय नमः
ॐ नारायणवितीर्णाज्ञाय नमः
ॐ नृसिंहाज्ञावशंगताय नमः
ॐ सम्पत्कुमारविरहचिरमव्याकुलमानसाय नमः
ॐ प्राप्तश्रीरङ्गनगराय नमः
ॐ कावेरीमज्जनकृताय नमः
ॐ रङ्गराजपदाम्भोजसेवासन्तुष्टमानसाय नमः
ॐ श्रीरङ्गेशसमाश्वस्ताय नमः
ॐ कूरेशमन्दिरप्राप्ताय नमः
ॐ कूरेशदर्शनप्राप्तव्यसनानन्दमिश्रिताय नमः
ॐ चिरप्रविष्टात्ममठाय नम:
ॐ नन्दिताखिलवैष्णवाय नमः
ॐ तिल्यारक्षितगोविन्दराजस्थापनविज्वराय नम:
ॐ करीशकरूणाप्राप्तदृष्टिकुरेशवीक्षिताय नमः
ॐ श्रीसूक्तिग्रन्थपठिताय नमः
ॐ गोदाभीष्टप्रपूरकाय नमः
ॐ गोदाकृपाप्राप्ताय नमः
ॐ गोदाग्रजनामविभूषिताय नमः
ॐ पुत्रीकृतशठारातयेनम:
ॐ शठवैर्यृणमोचकाय नम:
ॐ पवित्रीकृतकूरेशाय नम:
ॐ भागिनेयत्रिदण्डकाय नम:
ॐ रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय नम:
ॐ आन्ध्रपूर्णकृताभ्यङ्गाय नम:
ॐ धनुर्दासकरग्रहाय नमः
ॐ गोमठान्वयबालात्तस्वकमण्डलुपादुकाय नमः
ॐ शिष्यप्रशिष्यार्थकृतरङ्गेशशरणागतये नमः
ॐ विशेषार्थोपदेशानुगृहीताखिलवैष्णवाय नम:
ॐ चतुस्सप्ततिवार्तोपदिष्टवैष्णवलक्षणाय नम:
ॐ आचार्यपदनिर्दिष्टश्रीपराशरभट्टकाय नमः .
ॐ वेदान्तिजयनिर्दिष्टभट्टाय नम:
ॐ पूर्णमनोरथाय नमः
ॐ बाधूलदेशिकस्थापितात्मार्चापूतभूतपुरे नमः
ॐ गोविन्दार्यपदच्छायाय नमः
ॐ दाशरथ्यार्यपादुकाय नमः
ॐ प्रणवप्रतिपादार्थाय नमः
ॐ नम:पदविराजिताय नमः
ॐ रङ्गराजपदाम्भोजराजहंसाय नमः
ॐ सताङ्गतये नमः
ॐ श्रीपराङ्कुशपादाब्जमत्तभृङ्गाय नमः ॥ ८४० ॥
ॐ महाक्रमाय नमः
ॐ भद्देशपरकालादिमुखाम्भोजदिवाकराय नम:
ॐ श्रीवत्सचिह्नशरणाय नम:
ॐ श्रितकामादिदोषहृते नमः
ॐ मूलमन्त्ररहस्यार्थाय नम:
ॐ चरमश्लोकगोपिताय नमः
ॐ निजावतारान्तरितभविष्यद्गुरुविग्रहाय नम:
ॐ शठारिदिव्यसूक्त्यन्ताय नमः
ॐ संगोपितनिजोदयाय नमः
ॐ चतुरक्षरमन्त्राधिदेवाय नमः
ॐ कुमततापनाय नमः
ॐ तुण्डीरमण्डलाखण्डमण्डनाय नम:
ॐ सर्वपावनाय नम:
ॐ श्रीरङ्गवासोल्लासाय नमः
ॐ श्रीवैष्णवामरभूरूहाय नम:
ॐ वसन्तमण्डपावासाय नमः
ॐ ब्रह्मज्ञाय नमः
ॐ शुभलाञ्छनाय नमः
ॐ हृषीकेशाय नमः
ॐ विमुक्तात्मने नमः ॥ ८६०॥
ॐ श्रीरङ्गेशजयध्वजाय नमः
ॐ दुःस्वप्ननाशनाय नमः
ॐ भीमाय नमः
ॐ धात्रीशोकविनाशकृते नमः
ॐ शठारिचरणस्थानाय नमः
ॐ शत्रुघ्नाय नमः
ॐ शाश्वताय नमः
ॐ ध्रुवाय नमः
ॐ गोदाग्रजाय नमः
ॐ पुष्कराक्षाय नमः
ॐ शास्त्रे नमः
ॐ भक्तजनप्रियाय नमः
ॐ विद्याराशये नमः
ॐ स्थिरप्रज्ञाय नमः
ॐ धुर्याय नमः
ॐ संकर्षणांशजाय नमः
ॐ शत्रुजिते नमः
ॐ विश्वदृशे नमः
ॐ सिद्धाय नमः
ॐ ज्येष्ठाय नमः
ॐ श्रेष्ठाय नमः
ॐ असुरद्रुहाय नमः
ॐ श्रीमन्नारायणाभिख्यपरतत्त्वप्रकाशकाय नमः
ॐ ब्रह्मरुद्रेन्द्रसनकसंस्तुताय नमः
ॐ सर्वसम्मताय नमः
ॐ शुभापाङ्गाय नमः
ॐ सर्वविभवे नमः
ॐ परिव्राजकनायकाय नमः
ॐ वेद्याय नमः
ॐ वैद्याय नमः ॥ ८९० ॥
ॐ सच्छरण्याय नमः
ॐ वदान्याय नमः
ॐ सात्विकादराय नमः
ॐ विशिष्टाद्वैतसामाज्यपट्टभद्राय नमः
ॐ सुखप्रदाय नमः
ॐ अपायोपार्यनिर्मुक्ताय नमः
ॐ न्यासोपायावलम्बनाय नमः
ॐ विषयान्तरनिर्मुक्ताय नमः
ॐ मन्त्रान्तरविवर्जिताय नमः
ॐ ज्ञानवैराग्यसम्पन्नाय नमः
ॐ भक्त्युपायप्रकाशकाय नमः
ॐ अष्टोत्तरशतक्षेत्रस्वामिकैङ्कर्यवर्धनाय नमः
ॐ शिरस्सम्बन्धसंपूतपूर्वदेशिकसन्ततये नमः
ॐ पादसम्बन्धसन्तारितोत्तरा चार्यसन्तते नमः
ॐ समस्तमण्डलाधीशसमस्तन्यस्तपादुकाय नमः
ॐ पूतात्मने नमः
ॐ परमात्मने नमः
ॐ भूभर्त्रे नमः
ॐ योगविदाम्बराय नमः
ॐ शुचिश्रवसे नमः ॥ ९१०॥
ॐ वरारोहाय नमः
ॐ समात्मने नमः
ॐ सर्वदर्शनाय नमः
ॐ अजाय नमः
ॐ सुरेशशरणाय नमः
ॐ वृषाकाराय नमः
ॐ महातपसे नमः
ॐ सर्ववेदविदे नमः
ॐ अव्यङ्गाय नमः
ॐ चतुरात्मने नमः
ॐ कृताकृतये नमः
ॐ मेधाविने नमः
ॐ सर्वदायोगधृतात्मने नमः
ॐ जगदादिजाय नमः
ॐ महाबुद्धये नमः
ॐ महावीर्याय नमः
ॐ महाशक्तये नमः
ॐ महाद्युतये नमः
ॐ सन्धात्रे नमः
ॐ सुप्रसन्नात्मने नमः ॥ ९३०॥
ॐ सहस्राक्षाय नमः
ॐ सहस्रपदे नमः
ॐ सिद्धार्थाय नमः
ॐ सिद्धिसङ्कल्पाय नमः
ॐ सिद्धिदाय नमः
ॐ सर्वसाधनाय नमः
ॐ सत्कर्त्रे नमः
ॐ सत्कृताय नमः
ॐ अशोकाय नमः
ॐ अप्रमत्ताय नमः
ॐ अक्रोधजाय नमः
ॐ औषधाय नमः
ॐ वर्धमानाय नमः
ॐ प्रकाशात्मने नमः
ॐ तुष्टाय नमः
ॐ पुष्टाय नमः
ॐ परार्थदाय नमः
ॐ सर्वलक्षणलक्षण्याय नमः
ॐ तारणाय नमः
ॐ परमाय नमः
ॐ अच्युताय नमः
ॐ धर्माय नमः
ॐ शक्तिमतांश्रेष्ठाय नमः
ॐ दक्षाय नमः
ॐ धर्मविदुत्तमाय नमः
ॐ अनिर्विण्णाय नमः
ॐ धर्मरुपाय नमः
ॐ इज्याय नमः
ॐ सुव्रताय नमः
ॐ उत्तमाय नमः
ॐ सुघोषाय नमः
ॐ कर्मकृते नमः
ॐ धर्मिणे नमः
ॐ धर्मगोप्त्रे नमः .
ॐ मनोहराय नमः
ॐ अविज्ञात्रे नमः
ॐ सहस्रांशवे नमः
ॐ सत्वस्थाय नमः
ॐ सकलोत्तराय नमः
ॐ आनन्दाय नमः ॥ ९७०॥
ॐ नन्दनाय नमः
ॐ नन्दाय नमः
ॐ गभीराय नमः
ॐ द्रविणप्रदाय नमः
ॐ प्रमोदाय नमः
ॐ भगवते नमः
ॐ स्वस्तये नमः
ॐ सत्कीर्तये नमः
ॐ सत्परायणाय नमः
ॐ लोकत्रयाश्रयाय नमः
ॐ शान्तिप्रदाय नमः
ॐ श्रीकरदर्शनाय नमः
ॐ उदीर्णाय नमः
ॐ सर्वतश्चक्षुषे नमः
ॐ विशोकाय नमः
ॐ शोकनाशनाय नमः
ॐ महाक्रमाय नमः
ॐ महाकर्मणे नमः
ॐ महातेजसे नमः
ॐ महोरगाय नमः ॥ ९९०॥
ॐ स्तव्याय नमः
ॐ स्तवप्रियाय नमः
ॐ स्तोत्रे नमः
ॐ पूज्याय नमः
ॐ पूरयित्रे नमः
ॐ यमाय नमः
ॐ पुण्यतीर्थकराय नमः
ॐ मान्याय नमः
ॐ लोकस्वामिने नमः
ॐ अपराजिताय नमः ॥ १०००॥
ॐ स्वस्तिदाय नमः
ॐ स्वस्तिकृते नमः
ॐ यन्त्रे नमः
ॐ सत्पथाचाराय नमः
ॐ ऊर्ध्वगाय नमः
ॐ अव्याहतामहद्वर्त्मने नमः
ॐ कलिकल्मषनाशनाय नमः
ॐ मुक्तप्राप्याय नमः
ॐ जगद्गुरवे नमः
ॐ कुरेशदाशरथिसमेतयतिराजाय नमः ॥१०१० ॥
॥ इति श्रीरामानुजसहस्रनामावलिः ॥