॥ श्रीलक्ष्मीहयवदन प्रपत्तिः ॥
विशुद्धविज्ञानघनस्वरूपं
विज्ञान विश्राणन बद्धदीक्षम्।
दयानिधिं देहभृतां शरण्यं ।
देवं हयग्रीवमहं प्रपद्ये ॥१ ॥
ब्रह्माणमादौ व्यदधादमुष्मै
वेदांश्च यः स्म प्रहिणोति नित्यान्।
स्वगोचरज्ञान विधायिनं तं
देवं हयग्रीवमहं प्रपद्ये ॥ २ ॥
उद्गीथतारस्वरपूर्वमन्तः
प्रविश्य पातालतलादहार्षीत्।
आनायमाकण्ठहयो य एतं
देवं हयग्रीवमहं प्रपद्ये ॥ ३ ॥
प्रदाय पुत्राय पुनः श्रुतीर्यो
जघान दैत्यौ नियताब्धिवासम्।
हव्यैश्च कव्यैश्च तमगेमानं
देवं हयग्रीवमहं प्रपद्ये ॥४ ॥
यन्नाभिनालीकदलस्थनीर
बिन्दुत्थितौ तौ मधुकैटभाख्यौ।
वेदापहाराय तमो रजस्तं
देवं हयग्रीवमहं प्रपद्ये ॥५ ॥
काम्याय॑तां प्राप्य वरं सुरेषु
गतेषु यज्ञानहरोऽर्थितो यः।
अदर्शयत् काय हयं वपुस्तं
देवं हयग्रीवमहं प्रपद्ये ॥६ ॥
यो जायमानं पुरुष प्रपश्यन्
मोक्षार्थचिन्तापरमातनोति।
विद्याधिदेवं मधुसूदनं तं
देवं हयग्रीवमहं प्रपद्ये॥७ ॥
आदित्यबिम्बेऽश्ववपुर्दधत् सन्
अयातयामान् निगमान् अदिक्षत्।
यो याज्ञवल्क्याय दयानिधिं तं
देवं हयग्रीवमहं प्रपद्ये ॥८ ॥
विज्ञानदानप्रथिता जगत्यां ।
व्यासादयो वागपि दक्षिणा सा।
यद्वीक्षणांशाऽऽहितवैभवास्तं
देवं हयग्रीवमहं प्रपद्ये ॥९ ॥
मत्स्यादिरूपाणि यथा तथैव
नानाविधाचार्यवपूंषि गृह्णन्।
वेदान्तविद्याः प्रचिनोति यस्तं
देवं हयग्रीवमहं प्रपद्ये ॥ १० ॥
श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां
शान्तः सुबुद्धिः प्रथितो हि वाजी।
तदाननाविष्कृतसद्गुणौघं
देवं हयग्रीवमहं प्रपद्ये ॥११ ॥
हस्तैर्दधानं दरचक्रकोश
व्याख्यानमुद्राः सितपद्मपीठम्।
विद्याख्यलक्ष्म्यञ्चितवामभागं
देवं हयग्रीवमहं प्रपद्ये ॥१२ ॥
॥ इति श्रीलक्ष्मीहयवदन प्रपत्तिः ॥