॥ श्रीविष्णुषोडश नामानि ॥

॥ श्रीविष्णुषोडश नामानि ॥

औषधे चिन्तयेद् विष्णुं भोजने च प्रजापतिम्।
शयने पद्मनाभं च विवाहे च प्रजापतिम्।।
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे।।
दुस्स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्।
कानने नारसिंहं च पावके जलशायिनम्।।
जलमध्ये वराहं च पर्वते रघुनन्दनम्।
गमने वामनं चैव सर्वकालेषु माधवम्।।
षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।।

Leave a Reply

Your email address will not be published. Required fields are marked *