॥ श्रीशठकोपप्रपत्तिः ॥

॥ श्रीशठकोपप्रपत्तिः ॥

श्रीश्रीशपुष्कलकृपाविषयैर्यतीन्द्र
पूर्णार्ययामुनमुखैः परमार्थविद्भिः।
पूवैः प्रसूनसदृशैविधृतौ शिरोभि
भव्यौ शठारिचरणौशरणं प्रपद्ये ॥ १॥
संचिंतने प्रशमिताश्रितसर्वपापौ
प्रत्येकमुक्तिफलदाविवरागगर्भौ।
सर्वप्रपन्नजनमानसराजहंसौ
प्राप्यौ शठारिचरणौ शरणं प्रपद्ये ॥२॥
प्रक्षालनोदकपवित्रितताम्रपर्ण्यां
निम्नोच्चवीचितरलः सजलाशयोऽपि।
मुक्तामयत्वमयते नतपारिजातौ
पूतौ शठारिचरणौ शरणं प्रपद्ये ॥३॥
पद्मासहायचरणस्मरणप्रमोद
संपत्तृणीकृतविरंचिशिवादिभोगौ।
श्रीवैष्णवैस्सततसेव्यतयानुभूतौ
प्राप्यौ शठारिचरणौ शरणं प्रपद्ये ॥ ४॥
प्रत्यूषपूषकिरणोन्मिषदंबुजाभौ
तत्तत्पुमर्थपरसर्वजनाभिवंद्यौ।
दुल्लँध्यभीमभववारिधितारपोतौ
भव्यौ शठारिचरणौ शरणं प्रपद्ये ॥ ५॥
अनादिधारकमशेषशरीरभाजां
सन्तोषकं दधिपयः प्रभृति प्रशस्तम्।
शब्दादिभोगमपि यस्तु स कृष्ण एव
तादृक् शठारिचरणौ शरणं प्रपद्ये ॥६॥
भूलॊकपूर्वतनपुण्यचयैर्महात्मा
यः कारिनामकमहापुरुषात्मजोऽभूत्।
कृष्णो यथैव वसुदेवसुतः प्रसूत-
स्ताद्रक् शठारिचरणौ शरणं प्रपद्ये ॥७॥
सर्वाधिकार इति वैभवसंभवाय
वेदा अनादिनिधना द्रविणोक्तिरूपाः ।
दिव्यप्रबन्धवपुषो यत आविरासी-
त्तादृक् शठारिचरणौ शरणं प्रपद्ये ॥८॥
श्रीतिन्त्रिणी सलिलदायिजनायसर्व-
मिष्टं ददाति यदधिष्ठितमूलदेशा ॥
यदर्शनं प्रणयनित्यनिवृत्तनिद्रा
तादृक् शठारिचरणौ शरणं प्रपद्ये ॥६॥
सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन
संसारतारकदयाद्रदृगंचलेन।
साम्योपयंतृमुनिना मम दर्शितौ तौ
श्रीमच्छठारिचरणौ शरणं प्रपद्ये ॥ १०॥
॥ इति श्रीशठकोपप्रपत्तिः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *