॥ श्रीसुदर्शनस्तोत्रम् ॥
सुदर्शन महाज्वाल प्रसीद जगदः पते ।
तेजोराशे प्रसीद त्वं कोटिसूर्यमितप्रभ ॥ १॥
अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत ।
सुदर्शन नमस्तेऽस्तु देवानां त्वं सुदर्शन ॥ २॥
असुराणां सुदुर्दर्श पिशाचानां भयङ्कर ।
भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ ३॥
शान्तानामपि शान्ताय घोराय च दुरात्मनाम् ।
चक्राय चक्ररूपाय परचक्राय मायिने ॥ ४॥
हतये हेतिरूपाय हेतीनां पतये नमः ।
कालाय कालरूपाय कालचक्राय ते नमः ॥ ५॥
उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नमः ।
सहस्राराय शूराय सहस्राक्षाय ते नमः ॥ ६॥
सहस्राक्षादि पूज्याय सहस्रारशिरसे नमः ।
ज्योतिर्मण्डलरूपाय जगत्त्रितय धारिणे ॥ ७॥
त्रिनेत्राय त्रयी धाम्ने नमस्तेऽस्तु त्रिरूपिणे ।
त्वं यज्ञस्त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ॥ ८॥
त्वमेव वह्निस्तवं सूर्यः त्वं वायुस्त्वं विशाम्पतिः ।
आदिमध्यान्त शून्याय नाभिचक्राय ते नमः ॥ ९॥
ज्ञानविज्ञानरूपाय ध्यान ध्येयस्वरूपिणे ।
चिदानन्दस्वरूपाय प्रकृतेः पृथगात्मने ॥ १०॥
चराचराणां भूतानां सृष्टिस्थित्यन्तकारिणे ।
सर्वेषामपि भूतानां त्वमेव परमागतिः ॥ ११॥
त्वयैव सर्वं सर्वेश भासते सकलं जगत् ।
त्वदीयेन प्रसादेन भास्करोऽस्मि सुदर्शन ॥ १२॥
त्वत्तेजसां प्रभावेन ममतेजो हतं प्रभो ।
भूयस्संहर तेजस्त्वं अविषह्यं सुरासुरैः ॥ १३॥
त्वत्प्रसादादहं भूयः भविष्यामि प्रभान्वितः ।
क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया ।
भक्तवत्सल सर्वेश प्रणमामि पुनः पुनः ॥ १४॥
इति स्तुतो भानुमता सुदर्शनः हतप्रभेणाद्भुत धाम वैभवः ।
शशाम धाम्नातिशयेन धाम्नां सहस्रभानौ कृपया प्रसन्नः ॥ १५॥
॥ इति श्रीकुम्भकोणमाहात्म्ये श्रीसूर्यकृत श्रीसुदर्शनस्तोत्रम् सम्पूर्णम् ॥