॥ श्रीसूक्तम् ॥

॥ श्रीसूक्तम् ॥

॥ ॐ श्रीं श्रियै नमः ॥
ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥१॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥२॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीर्जु॑षताम् ॥३॥
कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑-
मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ 
तामि॒होप॑ह्वये॒ श्रियम् ॥४॥
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ 
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये
अल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥५॥
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो 
वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु 
मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥६॥
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥७॥
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त् ॥८॥
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥९॥
मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥१०॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥११॥
आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तर॒ᳩश्रियं॑ वा॒सय॑ मे कु॒ले ॥१२॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥१३॥
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥१४॥
तां म॒ आव॑ह॒ जात॑वेदो 
ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ 
दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥१५॥
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् ।
श्रियः॑ प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥१६॥
ॐ प॒द्मा॒न॒ने प॑द्मिनि पद्म॑प॒त्रे 
पद्म॑प्रिये॒ पद्म॒दला॑यता॒क्षि ।
विश्व॑प्रिये॒ विश्वमनो॑ऽनुकू॒ले 
त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑ध॒त्स्व ॥१७॥
प॒द्मा॒न॒ने प॑द्म ऊ॒रू॒ प॒द्माक्षी॑ पद्म॒सम्भ॑वे ।
त्वन्मे॑ भ॒जसि॑ प॒द्मा॒क्षी॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हम् ॥१८॥
अश्व॑दा॒यी गो॑दा॒यी॒ ध॒नदा॑यी म॒हाध॑ने ।
धनं मे॒ जुष॑तां दे॒वि॒ स॒र्वका॑मांश्च॒ देहि॑ मे ॥१९॥
पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् ।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ माम् ॥२०॥
धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसुः॑ ।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मश्नु॑ ते ॥२१॥
वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑ ॥२२॥
न क्रोधो न च॑ मात्स॒र्यं न॒ लोभो॑ नाशु॒भा म॑तिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्तानां श्रीसू᳚क्तं ज॒पेत् ॥२३॥
सरसिजनिलये सरो॑जह॒स्ते
धवलतरांशुक गन्धमा᳚ल्यशो॒भे ।
भगवति हरिवल्लभे॑ मनो॒ज्ञे
 त्रिभुवनभूतिकरिप्र॑सीद म॒ह्यम् ॥२४॥
विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं᳚ माध॒वप्रि॑याम् ।
ल॒क्ष्मीं प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥२५॥
म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥२६॥
श्री॒वर्च॑स्य॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒च्छोभ‌‌मानं मही॒यते᳚ ।
ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायुः॑ ॥२७॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ इति श्रीसूक्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *