अतिमानुषस्तवः

॥ अतिमानुषस्तवः ॥

श्रीमते रामानुजाय नमः
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥
अतिमानुषशीलवृत्तवेषैः
अतिवृत्तामरविक्रमप्रतापैः।
अतिलङ्घितसर्वलोकसाम्यं
वरये वैष्णववैभवावतारम्॥ १ ॥
श्रेयः किरन्तु किरणाश्चरणारविन्द
निष्यन्दमान-मकरन्दरसौघदेश्याः।
तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः
माङ्गल्यरङ्गनिलयस्य परस्य धाम्नः॥ २ ॥
श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात्
तज्जानुराग-रसमज्जन-मञ्जसाऽऽप्य।
अद्याप्यनारत-तदुत्थित-रागयोगं
श्रीरङ्गराजचरणाम्बुजमुन्नयामः॥ ३ ॥
वज्रध्वजाङ्कुशसुधाकलशातपत्र –
पङ्केरुहाङ्कपरिकर्मपरीतमन्तः।
आपादपङ्कजविशृङ्खलदीप्रमौलेः
श्रीरङ्गिणश्चरणयोर्युगमाश्रयामः॥४ ॥
श्रीरङ्गराजचरणौ प्रणुमो ययोः ख-
ल्वेकस्त्रिविक्रमविधौ वसुधामशेषाम्।
व्यक्रंस्त साचलकुलामपि विप्रकीर्ण
स्थूलावलग्नसिकतामिव निर्णतोच्चम् ॥ ५ ॥
ज्ञानं बलं विपुलमीशनवीर्यशक्ति –
तेजांसि च त्रियुगभूयमुपागतानि।
पूर्णानि षट् च परिगृह्य भवंश्चतुर्धा
भक्तं जनं त्वमनुजग्रहिथानुरागात्॥६॥
एकान्तमङ्गळ-गुणास्पदमस्तहेयं
नित्यं पदं तव यतस्तत एव देव।
आम्नायते तदिह विश्वविरूपरूपं
तेनैव नन्विदमशब्दमरूपमाहुः॥ ७ ॥
शब्दादि हेयमिह गोचर इन्द्रियाणां
तत्प्रत्यनीकविभवस्त्वमतीन्द्रियोऽसि।
तेनैव तेन बत ! दर्शनमस्ति किञ्चिद्
वाचो धियश्च तत एव न गोचरोऽसि॥८ ॥
एवं स्थिते त्वदुपसंश्रयणाभ्युपायो-
मानेन केन चिदलप्स्यत नोपलब्धुम्।
नोचेदमर्त्यमनुजादिषु योनिषु त्वम्
इच्छाविहारविधिना समवातरिष्यः॥९ ॥
शीलः क एष तव हन्त ! दयैकसिन्धो!
क्षुद्रे पृथग्जनपदे जगदण्डमध्ये।
क्षोदीयसोऽपि हि जनस्य कृते कृती त्वम्
अत्रावतीर्य ननु लोचनगोचरोऽभूः॥ १० ॥
यं पातकात्सुमहतोऽप्युदधारयस्त्वं
त्वत्पादवारिपरिपूतशिराश्च योऽभूत्।
तं वन्दसे किल ततश्च वरं वृणीषे !
क्रीडाविधिर्बत विलक्षणलक्षणस्ते॥ ११ ॥
क्रीडाविधेः परिकरस्तव या तु माया
सा मोहिनी न कतमस्य तु हन्त जन्तोः।
है ! मर्त्यसिंहवपुषस्तव तेजसोंऽशे
शम्भुर्भवन् हि शरभः शलभो बभूव ॥ १२ ॥
यस्यात्मतां त्रिपुरभङ्गविधावधास्त्वं
त्वच्छक्तितेजितशरो विजयी च योऽभूत्।
दक्षक्रतौ तु किल तेन विनिर्जितस्त्वं
युक्तो विधेयविषयेषु हि कामचारः॥ १३ ॥
मुग्धः शिशुः वटदले शयितोऽतितन्वा
तन्वा जगन्ति बिभृषे सविकासमेव।
ऐशीमिमां तु तव शक्तिमतर्कितव्याम्
अव्याजतः प्रथयसे किमिहावतीर्णः॥ १४ ॥
ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ ।
इन्द्रानुजत्वमदितेस्तनयत्वयोगात्।
इक्ष्वाकुवंश यदुवंशजनिश्च हन्त !
श्लाघ्यान्यमून्यनुपमस्य परस्य धाम्नः॥ १५ ॥
त्वन्निर्मिता जठरगा च तव त्रिलोकी
किं भिक्षणादियमृते भवता दुरापा।
मध्ये कदा तु न विचक्रमिषे जगच्चेत्
त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात्॥ १६॥
एतत् कथं कथय यन्मथितस्त्वयाऽसौ
हित्वा स्वभावनियमं प्रथितं त्रिलोक्याम्।
अश्वाप्सरोविषसुधाविधुपारिजात
लक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ १७ ॥
पृच्छामि किञ्चन यदा किल राघवत्वे
मायामृगस्य वशगो मनुजत्वमौग्ध्यात्।
सीतावियोगविवशो न च तद्गतिज्ञः
प्रादास्तदा परगतिं हि कथं खगाय ॥ १८ ॥
अक्षुण्णयोगपथमग्र्यहतं जटायुं
तिर्यञ्चमेव बत ! मोक्षपथे नियोक्तुम्।
शक्नोषि वेत्सि च यदा स तदा कथं त्वं
देवीमवाप्तुमनलं व्यथितो विचिन्वन्॥ १९ ॥
सालान्हि सप्त सगिरीन् सरसातलान्यान्
एकेषुमन्दजवतो निरपत्रयस्त्वम्।
तेष्वेकविव्यथनखिन्नकपिप्रणुन्नं
शाखामृगं मृगयसे स्म कथं सहायम्॥ २० ॥
दासः सखा समभवत्तव यः कपीन्द्रः
तद्विद्विषं कपिममर्षवशात् जिघांसुः।
त्वत्स्नेहविकूवधियं तमिमं कपीन्द्रं
विस्रम्भयन् सपदि सालगिरीनविध्यः ॥ २१ ॥
यद्वा मृगं मृगयुवन्मृगयापथेन
छन्नो जघन्थ न तु शत्रुवदाभिमुख्यात्।
तद्युक्तमेव तव राघववंशजस्य
तिर्यक्षु नैव हि विपक्षतयोपचारः॥ २२ ॥
मानुष्यकं  चरितमाचरितुं प्रवृत्तो
देवातिगं चरितमङ्ग ! किमंग्यकार्षीः।
यत्सागरे बत बबन्धिथ नाथ! सेतुं
शैलैः प्लवङ्गमसमिङ्गितसम्प्रणुन्नैः॥ २३ ॥
यो विक्रमेण मनुजत्वविभूषणेन
देवं वरं वरुणराजमज! व्यजेष्टाः ।
कृत्वोपदां दशरथं विधिरुद्रमुख्यैः
देवैः स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २४॥
अब्धिं न तेरिथ जिग्यिथ न राक्षसेन्द्रं
नैवास्य जज्ञिथ यदा च बलाबलं त्वम्।
निस्संशयः सपदि तस्य पदेऽभ्यषिञ्चः
तस्यानुजं कथमिदं हि विभीषणं च ॥२५ ॥
त्वं दक्षिणस्य निवसन्नुदधेस्तटेऽपि
दूरान्तरोत्तरपयोधिमहान्तरीपे।
दैत्यान् निजैकशरपारणयन् किमेतां
लङ्कां स्थितोऽत्र कुरुषे न किल न स्म भस्म ॥ २६॥
यत्तादृशागसमरिं रघुवीर ! वीक्ष्य
विश्रम्यतामिति मुमोचिथ मुग्धमाजौ।
कोऽयं गुणः कतरकोटिगतः कियान् वा
कस्य स्तुतेः पदमहो ! बह कस्य भूमिः॥ २७ ॥
 यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्धः
शत्रोर्गुरुर्हनुमतस्तु लघुर्बभूव ।
एतेन वै सुविदितोऽभवदिन्द्रशत्रोः
मायास्त्रबन्धन निबन्धनजो विमोहः ॥ २८ ॥
हा हन्त हन्त!भवत श्चरणारविन्द
द्वंद्वं कदा नु भविता विषयो ममाक्ष्णोः ।
योऽहं निरर्गळविनिर्गलदन्धकारैः
वृक्षस्तृणैश्च सुलभं समयं व्यतीतः ॥ २९ ॥
वंशं रघोरनुजिघृक्षुरिहावतीर्णः
दिव्यैर्ववर्षिथ तथात्र भवद्गुणौधैः ।
त्वत्सन्निधिप्रभवशैत्यजुषो यथा हि
वृक्षाश्च तांति मलभन्त भवद्वियोगे  ॥ ३०॥
ये धर्ममाचरितु मभ्यसितुं च योगं
बोद्धं च किंचन न जात्वधिकारभाज:
तेऽपि त्वदाचरितभूतलबन्धगन्धात्
बन्धातिगाः परगतिं गमिता स्तृणाद्याः ॥ ३१ ॥
तादृग्गुणो ननु बभूविथ राघवत्वे
यस्तावकं चरितमन्वहमन्वभुंङ्क्त   ।
सोत्रैव हन्त हनुमान् परमां विमुक्तिं
बुद्ध्याऽवधूय चरितं तव सेवतेऽसौ ॥ ३२॥
यत्त्वं कृतागसमपि प्रणतिप्रसक्तं
तं वाय सं परमया दययाऽक्षमिष्ठाः ।
तेनैव मादृशजनस्य महागसोऽपि
युक्तं समाश्वसनमित्युपधारयामि ॥ ३३॥
अथ श्रीकृष्णावतार चरितस्तुतिः
सा पूतना शकटमर्जुनयोश्च युग्मं
बाल्योचितान्यपरचेष्टितविष्फुलिंगे ।
यस्यालभन्त शलभत्वमहो निगूढः
स त्वं व्रजे ववृधिषे किल कंसभीत्या ॥ ३४॥
पश्यत्सु सूरिषु सदा परमं पदं ते
देव्या श्रिया सह वसन् परया विभूत्या।
योगेन योगनिरतैः परिमृग्यमाणः
किं त्वं व्रजेषु नवनीतमहो! व्यमुष्णाः ॥३५॥
यं दुर्ग्रहं सुमनसो मनसाऽपि नित्यं
बन्धच्छिदं परममीशमुदाहरन्ति।
दाना निबद्ध इति शुश्रुम तं भवन्तं
नालं बभूविथ बत श्लथनाय तस्य॥ ३६॥
ऐशं हि शैशवमपि व्यतिवेलखेलं
यत् पूतना शकटमर्जुनयोश्च युग्मम्।
बाल्योचितान्यपरसाचिविचेष्टितेन
हन्तालभन्त शलभायितमोजसस्ते॥ ३७ ॥
सत्येव गव्यनिवहे निजधाम्नि भूम्ना
पर्यन्तसद्मसु किमर्थमचूचुरस्त्वम्।
मुष्णञ्च  किं व्यजघटो घटशेषमग्रे
गोपीजनस्य परिहासपदं किमासीः॥३८ ॥
यन्नाम नाथ ! नवनीतमचूचुरस्त्वं
तच्छादनाय यदि ते मतिराविरासीत्।
किं मुग्ध ! दिग्धममुना करपल्लवं ते
गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः॥ ३९ ॥
त्वामन्यगोपगृहगव्यमुषं यशोदा
गुर्वी त्वदीयमवमानममृष्यमाणा।
प्रेम्णाऽथ दामपरिणामजुषा बबन्ध
तादृक् न ते चरितमार्यजनाः सहन्ते॥ ४० ॥
मात्रा यदि त्वमसि दामनि सन्निबद्धः
तच्छ्राविणामुदितचाक्षुष निर्झराणाम्।
बध्नासि हन्त हृदयं भगवन् ! कुतस्तत्
सर्वो हि वश्यविषये विवृणोति वीर्यम्॥ ४१  ॥
कान्तालकान्तममलं कमलायताक्षम्
उद्भ्रूविलासमुदितस्मितमुन्नसं च।
वक्त्रं वहन् परम ! गोपगृहेषु किं त्वं
गोपीमनांसि नवनीतमुताभ्यमोषीः॥ ४२  ॥
सर्वं गुणाय गुणिनामिति सत्यमेतत्
यत् खल्विहेतरजने मलिनत्वहेतुः।
यद्गोपवेषविनिवेषणमुत्तमं ते
गोपालनं च गणयन्ति गुणं गुणेषु॥ ४३  ॥
गोपालपोतकतया निभृतं धरित्रीम् ।
आवस्तुकाम इव सन्नपि बाल्यलौल्यात्।
ऐन्द्रं निहत्य मखमद्रिमथो दधानः
किं तस्थिषे सुरगणाय सवासवाय॥ ४४ ॥
वेणुक्वणप्रणयिनि त्वयि लोकनाथ!
बृन्दावनं चरणसञ्चरणैः पुनाने।
भावास्तदा वनभुवः किल कीदृशस्ते
त्वद्गीतसिक्तसिकतासु वसुन्धरासु॥ ४५  ॥
धन्यैः श्रुतं तदिह तावकरासकाले
गीतेन येन हि शिलाः सलिलाम्बभूवुः।
पञ्चापि किञ्च परिवृत्तगुणानि भूता-
न्युर्वीकृशानुमरुदम्बरशम्बराणि॥ ४६॥
तेभ्यः कृती न किल कश्चिदिहास्ति ये वै
रासोत्सवोत्सुकधियस्तव काननान्ते।
वेणुस्वनस्रुत रसौघपरिप्लुतान्ते
स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः॥ ४७ ॥
अम्भोदनीलमरविन्ददळायताक्षं
पिञ्छावतंसमुररीकृतवेणुपाणिम्।
त्वां गोपवेषपरिकर्मितकायकान्तिं
धन्यास्तदा ददृशुरुन्मथितान्यभावाः॥ ४८ ॥
गोवर्धनो गिरिवरो यमुना नदी सा
बृन्दावनं च मथुरा च पुरी पुराणी।
अद्यापि हन्त ! सुलभाः कृतिनां जनानाम्
एते भवच्चरणचारजुषः प्रदेशाः॥ ४९ ॥
बृन्दावने स्थिरचरात्मककीटदूर्वा
पर्यन्तजन्तुनिचये बत ! ये तदानीम्।
नैवालभामहि जनिं हतका स्त एते
पापाः पदं तव कदा पुनराश्रयामः॥ ५० ॥
हा जन्म तासु सिकतासु मया न लब्धं
रासे त्वया विरहिताः किल गोपकन्याः।
यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त
निक्षिप्य तत्र निजमङ्ग-मनङ्गतप्तम् ॥ ५१ ॥
आचिन्वतः कुसुममङ्घ्रिसरोरुहं ते
ये भेजिरे बत! वनस्पतयो लता वा।
अद्यापि तत्कुलभुवः कुलदैवतं मे
बृन्दावनं मम धियं च सनाथयन्ति॥ ५२  ॥
यत् त्वत्प्रियं तदिह पुण्यमपुण्यमन्यत्
नान्यत् तयोर्भवति लक्षणमत्र जातु।
धूर्तायितं तव हि यत् किल रासगोष्ठयां
तत्कीर्तनं परमपावनमामनन्ति ॥ ५३  ॥
या कंसमुख्यनृपकीटनिबर्हणोत्था
सा निर्जितत्रिजगतस्तव नैव कीर्तिः।
गोपालनादि यदिदं भवदीयकर्मे –
त्यर्द्रीकरोति विदुषां हृदयं तदेतत्॥ ५४ ॥
गोपालवेषपरिकर्म परावरेशं
यन्नाम धाम परमं तमसः परस्तात्।
तत् पिञ्छलाञ्छनसुदामकृतोपवीतं
गोधूलिधूसरितकुन्तलमन्तरास्ताम्॥ ५५ ॥
यद्वै जरासुतभयाद्विपलायथास्त्वं
तच्चेन्मनुष्य चरितानुविधानजं ते।
तर्हि त्रिलोकगुरुमीश्वरमीश्वराणां
बाणाहवे किमिति शम्भुमजृम्भयस्त्वम्॥ ५६॥
जातं कुतस्तदकृतज्ञविचेष्टितं ते
पुत्रीयया किल वरं ववृषे वृषाङ्कात्।
अक्षेषु सक्तमतिना च निरादरेण
वाराणसी हरपुरी भवता विदग्धा॥ ५७  ॥
सञ्जीवयन्नपि मृतं सुतमुत्तरायाः
सान्दीपनेश्चिरमृतं सुतमानयंश्च ।
धाम्नो निजाद द्विजसुतान्पुनरानयन्वा
स्वामेव तां तनुमहो! कथमानयस्त्वम्॥ ५८ ॥
अद्यापि नास्म्युपरतः त्रिविधापचारात्
पापः परे निपतितोऽस्मि तमस्यपारे।
एतादृशोऽहमगतिर्भवतो दयायाः
पात्रं त्वदीयचरणौ शरणं प्रपद्ये ॥ ५ ९ ॥
विस्रम्भणं त्वयि न यद्यपि मेऽस्ति नापि
श्रद्धा यथोक्तवचनार्थगता तथाऽपि।
वाचं त्विमा सकृदथाप्यसकृन्मयोक्तां
सत्यां कुरुष्व दययैव दयैकसिन्धो॥ ६० ॥
पापीयसोऽपि शरणागतिशब्दभाजो
नोपेक्षणं मम तवोचितमीश्वरस्य।
त्वज्ज्ञानशक्तिकरुणासु सतीषु नेह
पापं पराक्रमितुमर्हति मामकीनम्॥ ६१ ॥
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥
॥ इति  अतिमानुषस्तवः॥ 

Leave a Reply

Your email address will not be published. Required fields are marked *