अथ श्रीपाञ्चरात्रागमान्तर्गतं मङ्गलाष्टकम्
श्रीकान्ताकुचकुम्भकुंकुमपरिरम्भोगुणानां निधिः
पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागमः ॥
विष्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम्॥१॥
पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागमः ॥
विष्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम्॥१॥
श्रीरामानुजभट्टरार्यशठकोपानन्तसङ्कर्षणैः
श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः ।
वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम् ॥२॥
श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः ।
वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम् ॥२॥
प्रासादध्वजदण्डमण्डपमहासौवर्णपीठोन्नतः
प्राकाराञ्चितहेमरत्नमणिभिः जाज्वल्यमानो हरिः।
नित्यं नित्यमहोत्सवं बहुविधं मासं च पक्षोत्सवं
पायाद्वोभगवान् पुराणपुरुषःकुर्यात् सदा मङ्गलम्॥३॥
नानावेदपुराणशास्त्रविभवः श्रीपाञ्चरात्रागमः
शास्त्राणामधिपस्समस्तफलदःश्रीवैष्णवैः शाश्वतैः।
भक्तैः भागवतैरमर्त्यनिकरैरासेव्यमानोत्सुकः
पायाद्वोभगवान् पुराणपुरुषः कुर्यात् सदा मङ्गलम् ॥ ४ ॥
विश्वामित्रपराशरशुकमुनिप्रह्लादरुमाङ्गदाः
भारद्वाजवशिष्ठनीलहनुमान् श्रीवैनतेयादयः।
एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुकः
पायाद्वोभगवान् पुराणपुरुषः कुर्यात् सदा मङ्गलम्॥ ५ ॥
भारद्वाजवशिष्ठनीलहनुमान् श्रीवैनतेयादयः।
एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुकः
पायाद्वोभगवान् पुराणपुरुषः कुर्यात् सदा मङ्गलम्॥ ५ ॥
मीनो वामनसूकरौ नरमृगो कूर्मो महाभार्गवो
रामो यादवनायको रतिसखः कृष्णश्च कल्क्यादयः ।
लोकानां परिपालनाय जगतो देवो जगद्रक्षकः
पायाद्वोभगवान् पुराणपुरुषःकुर्यात् सदा मङ्गलम् ॥ ६॥
लोकानां परिपालनाय जगतो देवो जगद्रक्षकः
पायाद्वोभगवान् पुराणपुरुषःकुर्यात् सदा मङ्गलम् ॥ ६॥
श्रीरङ्गे गरुडाचले खगगिरौ सिंहाचले मन्दिरे
वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले।
लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम् ॥७॥
वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले।
लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः
पायाद्वोभगवान् पुराणपुरुषः कुर्याद् सदा मङ्गलम् ॥७॥
श्रीलक्ष्मीकमलालयावसुमती रामा जगद्रक्षिणी
कल्याणी सकलेश्वरी हरिसती भाग्यानुसन्धायिनी ।
शोभाङ्गी विमलेक्षणी विमलिनी नारायणीभिर्युतः ।
पायाद्वो भगवान् पुराणपुरुषः कुर्यात् सदा मङ्गलम् ॥८॥