आचार्यवैभवम्
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्
परोपाध्यालीढं विवशमशुभस्यास्पदमिति । |
श्रुतिन्यायापेतं जगति विततं मोहनमिदं
तमो येनापास्तं स हि विजयते यामुनमुनिः ॥ १ ॥
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ २ ॥
तस्मै रामानुजार्याय नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणामन्तर्ज्वरमशीशमत् ॥३॥
श्रीरङ्गगलमहोत्सववर्धनाय
वेदान्तपान्थपरमार्थसमर्थनाय
कैङ्कर्यलक्षणविलक्षणमोक्षलक्ष्म्यै
रामानुजो विजयते यतिराजराजः ॥४ ॥
श्रीमान् वेङ्कटनाथार्यकवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ५ ॥
कवितार्किक सिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥६॥
आचार्यवैभवम्