नित्य गुरुपरम्परा गोवर्धनगद्दी
यहाँ अन्य शाखा जोडिने छन् जो खोजी कार्य हुदै छ ।
वाधूलाब्धिसरोजसौम्यविकसद्-रङ्गार्यदौहित्रकम्
श्रीमत्कोविदश्रीनिवासतनयं सौशील्यभूषान्वितम्।
श्रीमद्-वेङ्कटयोगिराजचरणे न्यस्तात्मभावं मुदा
श्रीरङ्गार्यगुरुं भजामि सततं कारुण्यवारां निधिम् ॥ १॥
(वर्तमान पीठधीश श्रीरङ्गाचार्य बालकस्वामी)
श्रीमद्वाधूलवंशामृतजलधिविधुं रङ्गराजार्यसूरेः
पौत्रं श्रीश्रीनिवासाह्वयगुरुतनयं तत्पदाम्भोजभृङ्गम्।
श्रीमच्छ्रीशैलरामावरजयतिपतेः पादपाथोजसक्तं
श्रीरङ्गार्यं गुरूणां गुरुमहमनिशं शान्तचित्तं भजामि ॥२॥
(श्रीरङ्गार्यस्वामी)
वाधूलवंशकलशाम्बुधिशीतभानुम्
श्रीरङ्गराजगुरुवर्यतनूजरत्नम्।
तत्पाददिव्यसरसीरुहचञ्चरीकम्
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ॥३॥
(श्रीश्रीनिवासाचार्य स्वामी)
वाधूलवंशकलशाम्बुधिपूर्णचन्द्रम्
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम् ।
श्रीवाससूरितनयं विनयोज्ज्वलन्तं
श्रीरङ्गदेशिकमहं शरणं प्रपद्ये ॥ ४॥
( श्रीरङ्गदेशिकस्वामी)
श्रीमच्छेषगुरूद्वहाङ्घ्रियुगालाम्भोजान्तसत्-षट्पदं
श्रीकृष्णार्यलसत्कृपामृतपरीवाहस्य रत्नाकरम् ।
शान्त्याद्यस्य गुणोत्करस्य निलयं मन्त्रार्थविज्ञानदं
श्रीमच्छ्रीनिलयार्य्यदेशिकमहं वन्दे कृपासागरम्॥ ५॥
( श्रीनिवासाचार्यस्वामी)
श्रीकृष्णार्यगुरोः सूनुं श्रीनिवासकृपास्पदम् ।
श्रीवेङ्कटकृपापात्रं शेषाचार्यमहं भजे॥६॥
(श्रीशेषाचार्य स्वामी )
वेङ्कटार्यगुरोः सूनुं धीशमादिगुणार्णवम् ।
श्रीनिवासाद्धि-सद्भक्त श्रीकृष्णगुरुमाश्रये॥ ७॥
(श्रीकृष्णाचार्य स्वामी )
श्रीनिवासगुरोः पादपङ्केरुहमधुव्रतम् ।
श्रीशठारिकृपापात्रं श्रीवेङ्कटगुरुं भजे। । ८॥
(श्रीवेङ्कटाचार्य स्वामी )
वाधूलश्रीनिवासार्यपदपङ्कजषट्पदम् ।
गोवर्द्धनाचलावासं श्रीशठारिगुरुं भजे॥ ९॥
(श्रीशठार्याचार्य स्वामी)
वरदगुरुवर्यतनयं तत्करुणालब्धनिगमसारार्थम् ।
प्रणतार्तिहरार्यशरणं प्रणमामि श्रीनिवासगुरुवर्यम्॥१०॥
(श्रीनिवासाचार्य स्वामी)
यतीन्द्रचरणत्राणवंशजं वरदाह्वयम् ।
वेङ्कटार्य्यगुरोः पौत्रं वन्दे तत्पादसंश्रयम्॥ ११॥
(श्रीवरदाचार्य स्वामी)
वाधूलवंशतिलकं वात्सल्यगुणसागरम्।
वेङ्कटार्य्यगुरोः सूनुं प्रणतार्तिहरं भजे। । १२॥
(श्रीप्रणतार्तिहराचार्य स्वामी)
वाधूलवेङ्कटाचार्यतनयं विनयोज्वलम् ।
वेदान्तद्वयसारज्ञं वन्दे वरददेशिकम्॥ १३॥
(श्रीवरदाचार्य स्वामी)
वाधूलान्वयजीवातुं वरदाचार्यनन्दनम् ।
वेङ्कटार्यदयापात्रं वेङ्कटेशगुरुं भजे॥ १४॥
(श्रीवेङ्कटेशाचार्य स्वामी)
वाधूलरत्नाकरपूर्णचन्द्रं श्रीवेङ्कटाचार्यदयैकपात्रम् ।
श्रीरङ्गराजार्यगुरोस्तनूजं श्रीवेङ्कटाचार्यमहं प्रपद्ये॥ १५॥
(श्रीवेङ्कटेशाचार्य स्वामी )
वाधूलधूर्वहनतार्तिहरार्यसुनोः सूनोः
सुतस्य वरदार्य्यगुरोस्तनूजम्।
वेदान्तयुग्मविशदीकरणैकदीक्षं
श्रीमन्नतार्तिहरदेशिकमाश्रयामः॥ २१॥
(श्रीप्रणतातिर्हराचार्य)
वाधूलधूर्य्यवरदार्य्यदयैकपात्रं
श्रीवेङ्कटेशगुरुवर्य्यतनूजरत्नम् ।
वेदान्तयुग्मविशदीकरणैकदीक्षं
क्षान्त्यर्णवं वरददेशिकवर्य्यमीडे॥ १७॥
(श्रीवरदाचार्य)
वाधूलधूर्वहनतातिर्हरार्यसूनोः
तत्संश्रयस्य वरदार्यगुरोस्तनूजम् ।
वेदान्तयुग्मविशदीकरणैकदीक्षं
श्रीवेङ्कटेशगुरुवर्य्यमहं प्रपद्ये॥ १८॥
(श्रीवेङ्कटेशाचार्य)
प्रणतार्तिहराचार्यसूनुं वरददेशिकम् ।
प्रपद्ये श्रीनिवासार्य्यप्रवणं सद्गुणार्णवम्॥ १८॥
(श्रीवरदाचार्य)
यद्गुरुः श्रीनिवासार्यो वाधूलो वरदानुजः ।
तं वन्दे तत्कुलोत्तंसं प्रणतार्तिहरं गुरुम्॥ १९॥
(श्रीवरदाचार्य)
वरदगुरुचरणशरणं, वरवरमुनिवर्य्यघनकृपापात्रम् ।
प्रवरगुणरत्नजलधिं, प्रणमामि श्रीनिवासगुरुवर्य्यम्॥ २०॥
(श्रीश्रीनिवासाचार्य)
देशिकं श्रीनिवासाख्यं देवराजगुरोः सुतम् ।
भूषितं सद्गुणैर्वन्दे जीवितं मम सर्वदा॥ २१॥
(श्रीश्रीनिवासाचार्य )
सकलवेदान्तसारार्थपूर्णाशयं
विपुलवाधूलगोत्रोद्भवानां वरम्।
रुचिरजामानयोगीन्द्रपादाश्रयं
वरदनारायणं मद्गुरु संश्रये॥ २२॥
( श्रीवरदानारायण अण्डन स्वामी )
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम्॥ २३॥
( श्रीवरवरमुनिस्वामी)
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने॥ २४॥
( श्रीशैलेशस्वामीजी )
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे।
संसार भोगिसन्दष्टजीवजीवातवे नमः॥ २५॥
( श्रीलोकाचार्य स्वामी )
श्रीकृष्णपादपादाब्जे नमामि शिरसा सदा।
यत्प्रसादप्रभावेण सर्वसिद्धिरभून्मम॥ २६॥
( श्रीकृष्णपादस्वामी )
वेदान्तवेद्यामृतवारिराशेर्वेदार्थसारामृतपूरमग्र्यम् ।
आदाय वर्षन्तमहं प्रपद्ये कारुण्यपूर्णं कलिवैरिदासम्॥ २७॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम्॥ २८॥
( श्रीकलिवैरिदासस्वामी )
श्रीपराशरभट्टार्य्य: श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥ २९॥
(श्रीपराशरभट्टस्वामी)
रामानुजपदच्छाया गोविन्दाह्वानपायिनी।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली॥ ३०॥
(श्रीगोविन्दाचार्यस्वामी)
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥ ३१॥
(श्रीकृरेशस्वामी)
पादुके यतिराजस्य कथयन्ति यदाख्यया।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम्॥ ३२॥
(श्रीदाशरथिस्वामी)
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये॥ ३३॥
(श्रीभाष्यकाररामानुजस्वामी)
कमलापतिकल्याणगुणामृतनिषेवया।
पूर्णकामाय सततं पूर्णाय महते नमः॥३४॥
(श्रीमहापूर्णस्वामी)
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम्॥३५॥
(श्रीयामुनाचार्यस्वामी)
अय त्नतो यामुनमात्मदासमलर्कपत्रार्पणनिष्क्रयेण।
यः क्रीतवानास्थितयौवराज्यं नमामि तं रामममेयसत्वम् ||३६
नमः पङ्कजनेत्राय नाथश्रीपादपङ्कजे।
व्यस्त सर्वभरायास्मत्कुलनाथाय धीमते॥ ३७॥
नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे॥ ३८॥
माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्ध्रियुगलं प्रणमामि मूर्ध्ना॥ ३९॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ।
यो निर्वहत्यनिशमङ्गुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियाम॥ ४०॥
नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत्॥४१॥
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्गेऽनन्तभोगिनः॥ ४२॥