श्रीभाष्यकारमङ्गलाशनम्
श्री श्रीशानकृपापाङ्कसङ्कावगाहिने ।
मङ्गलायतनायास्तु यतिराजाय मङ्गलम् ॥ १॥
यादवाचलश्रृङ्गाग्रभूषणीभवते भवेत् ।
भूषिताय गुणैर्भव्यैर्यतिराजाय मङ्गलम्॥ २॥
वकुलाभरणादीनां यमिनां चरणाम्बुजैः ।
सुरभीकृतचित्ताय यतिराजाय मङ्गलम् ॥ ३॥
यस्यैश्वर्यं च माता च पिताचार्यः श्रियः पतिः ।
परं पराङ्कुशो वा स्याद्यतिराजाय मङ्गलम् ॥ ४॥
श्रीरङ्गधीश्वराभीष्टदिव्यदेशेषु संततम् ।
व्यामुग्धमानसायास्तु यतिराजाय मङ्गलम् ॥ ५॥
मिथोऽनपेक्षमोक्षैकदानदक्षरजोङ्घ्रये ।
करुणापक्ष्मलायास्तु यतिराजाय मङ्गलम् ॥ ६॥
यद्वचः क्रीडया वाऽपि वेदाक्षरमयं भवेत् ।
सार्वज्ञशालिने तस्मै यतिराजाय मङ्गलम् ॥ ७॥
यत्पादसेविनः पुंसो ज्ञानभक्तिविरक्तयः ।
भूषयन्ति स्वयं तस्मै यतिराजाय मङ्गलम् ॥ ८ ॥
प्राचीनानां सुपक्वानां फलाय तपसा नृणाम् ।
जगज्जीवातवे भूम्ने यतिराजाय मङ्गलम् ॥ ९ ॥
मनोज्ञवरयोगीन्द्रमानसाम्भोजभानवे ।
यदुशैलनिवासाय यतिराजाय मङ्गलम् ॥ १० ॥
॥ इति श्रीभाष्यकारमङ्गलाशनम् ॥