श्रीवादिभीकरस्वामिमंगलाशासनम्
श्रीरङ्गादिस्थलेशानां प्रपत्तिं कमलांघ्रिषु ।
मङ्गलाशासनं चापि कुर्वते नित्यमङ्गलम् ॥१॥
वकुलालंकृते श्रीमच्छठकोपपदद्वये ।
भक्तिं कलयते वादिभीकरायास्तु मङ्गलम् ॥२॥
स्वीयपादाब्जभक्तानां विभूतिद्वयदायिने ।
विख्यातयशसे वादिभीकरार्याय मङ्गलम् ॥३॥
वात्सल्यशीलशान्त्यादिकल्याणगुणशालिने ।
वात्स्याय वादिभयकृद्गुरुवर्याय मङ्गलम् ॥४॥
वत्सान्वयसुधासिन्धुवर्धमानसुधांशवे ।
वादिभीतिकरार्याय मङ्गलं महितौजसे ॥५॥
परांकुशवचोवार्द्धिपयोमानुषचेतसे ।
परवादिमदाटोपपाटनायास्तु मङ्गलम् ॥६॥
बाधूलदेशिकादीनां श्रीभाष्यार्थप्रदायिने ।
वादिभीतिकरार्याय देशिकेन्द्राय मङ्गलम् ॥७॥
श्रीरम्ययोगिपादाब्जप्राप्यप्रापकभावताम् ।
प्राप्ताय वादिभयकृद्गुरुवर्याय मङ्गलम् ॥८॥
आषाढमासि मेदिन्यामवतीर्णाय धीमते ।
गुरूपुष्यदिने वादिभीकरार्याय मङ्गलम् ॥९॥
अद्वैतवादिसिद्धान्तविध्वंसपटुवाग्मिने ।
अस्तु मङ्गलमार्याय वादिभीकरसूरये ॥१०॥
श्रीमते सौम्यजामातृमुनिपादाम्बुजद्वये ।
वादिभीतिकरायास्तु भक्तिनिष्ठाय मङ्गलम् ॥११॥
मङ्गलं गुरुवर्याय मङ्गलं गुणसिन्धवे ।
वादिभीतिकरार्याय नित्यश्रीर्नित्यमङ्गलम् ॥१२॥
॥ इति श्रीवादिभीकरस्वामिमंगलाशासनम् ॥