श्री पराङ्कुशपञ्चविंशतिः
श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः ।
तं वधूलकुलभूषणं दयावारिधिं वरददेशिकं भजे ॥
श्रीमन्पराङ्कुशनिरङ्कुशतत्त्वबोध
वात्सल्यपूर्णकरुणापरिणामरूप ।
सौशील्यसागरमनन्तगुणाकरं त्वां
संसारतापहरणं शरणं वृणेहम् ॥ १ ॥
कासारसंयमिमुखाः कमलासहाय-
भक्ताः प्रपत्तिपदवीनियता महान्तः ।
यस्याभवन्नवयवा इव पारतन्त्र्यात्
तस्मै नमो वकुळभूषणदेशिका ॥ २ ॥
श्रीरङ्गराजपदपङ्कजसङ्गशीलं
श्रेयः परं मधुरपूर्वकवेरपूर्वम् ।
नाथार्ययामुनयतीश्वरभागधेयं
नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ ३ ॥
पापक्रियासु निरताः शृणुतास्मदुक्तिं
तापत्रयेण भविनः परितप्यमानाः ।
आपद्धनं मधुरिपोर्भवतामविद्या
स्वापप्रहाणनिपुणः शरणं शठारिः ॥ ४ ॥
नित्योऽथ मुक्त उत तद्गुणको मुमुक्षुः
व्यासादिवद्भगवता किमनुप्रविष्टः ।
अत्र्यादिसूनुरिह वर्णयुगक्रमात् किम्
आसीत्पुराणपुरुषः शठवैरियोगी ॥ ५ ॥
कर्मेति केचिदपरे मतिरित्यथान्ये
भक्तिं परे प्रपदनं प्रवदन्त्युपायम्।
आम्नायसारचतुरास्त्वमितानुभावं
त्वामेव यान्ति शरणं शठजिन्मुनीन्द्र ॥ ६ ॥
भक्त्याधुपायरहितः पतितो भवाब्धौ
त्वत्पादसेवनरसेपि च दुर्बलोऽहम्।
इत्थं सतीह शठकोप दयैकमूर्ते कृत्यं
किमस्ति मम संसृतिमोचनाय ॥ ७ ॥
त्वद्दिव्यसूक्तिपरिशीलनमात्रमेव
निःश्रेयसाधिगमने निरपेक्षहेतुः ।
तच्चास्ति मे न शठवैरिगुरो महात्मन्
उज्जीवनं कथमहो मम जाघटीति ॥ ८ ॥
त्वन्नामकीर्तनमकृत्रिममातनोति
यस्तस्य संसरणनिस्तरणं घटेत ।
दुर्वासना कलुषितस्य न मेऽस्ति बुद्धिः
तत्रापि केसरविभूष किमात्मनीनम्॥ ९ ॥
त्वत्किङ्करत्वरसिकाः तव दासदास
दास्यैकरस्यमुदिताश्च भजन्ति मुक्तिम् ।
तत्राप्यहं शकनवान् न शठारियोगिन्
अत्याहितं कथमपैतु भवोत्थितं मे ॥ १० ॥
त्वद्विग्रहेक्षणमथो तव संस्मृतिश्च
मुक्त्यै भवेदिति वदन्ति पराङ्कुशार्य । निद्राप्रमादमलिनीकृतमानसस्य
तत्रापि शक्तिरिह मे न कथं भवेयम्॥ ११ ॥
एवं कदाचिदपि कुत्रचिदस्त्युपायः
नैवाघनाशनविधौ मम तावकस्य ।
आकस्मिकी तव कृपामपहाय माया –
कोलाहलप्रशमनीं कुरुकापुरीश ॥ १२ ॥
अव्याजबन्धुमविशेषमशेषजन्तोः
उद्वेलवत्सलतया कृपया च पूर्णम् ।
त्वामामनन्ति शठवैरिमुने ततस्ते
हातुं न युक्तमपराधिनमप्यहो माम्॥ १३ ॥
यावच्च यच्च दुरितं सकलस्य जन्तोः
तावच्च तत्तदधिकञ्च ममास्ति सत्यम् ।
एतद्वचः कथमभूत् सततानृतोक्ति –
शीलस्य मे शठरिपो तदिदं विचित्रम्॥ १४ ॥
शास्त्रेण यद्विहितमाचरणीयमेतत्
सर्वैर्निषिद्धमिह यत्तदुपेक्षणीयम् ।
इत्यादिकं शठरिपो सदसि ब्रवीमि
है सन्तनोमि रहसि स्ववचोविरुद्धम्॥ १५ ॥
प्रच्छन्नपातकशतावृतचेतसो मे
संप्रीणिताः प्रणतिभूमिकया कयाचित् ।
सत्कारमादरभरेण परावरज्ञाः
कुर्वन्ति हन्त शठवैरिमुने हतोऽस्मि ॥ १६ ॥
पद्भ्यां शपे तव शठारिमुनीन्द्र योऽभूत् ।
उद्दामदोषगणनान्तिमकोटिनिष्ठः ।
सोऽपि प्रकृष्टविभवो यदपेक्षया स्यात्
तस्माच्च पापभरितोऽहमितो न पापः ॥ १७ ॥
पूर्वैः स्वनैच्यमनुसंहितमार्यवर्यैः
मामेव वीक्ष्य महतां न तदस्ति तेषाम् ।
नैच्यं त्विदं शठरिपो मम सत्यमेव
मत्तः परो न मलिनो यत आविरस्ति ॥ १८ ॥
उक्त्वा स्वदोषविषयं वचनं त्वदने
संसारभीरुरिव तेन च वञ्चकोऽहम्।
सामर्थ्यमेव शठकोप विभावयामि
संवीक्ष्यकं गुणमिहासि मयि प्रसन्नः ॥ १९ ॥
किन्तु क्रियासमभिहारकृतापराधः
हन्तानुतप्य पुनरप्यपराधकारी ।
पद्मासखस्य परिहासरसोचितोऽहम्
एतद्विलोक्य शठकोप मयि प्रसीद ॥ २० ॥
कामप्रमोऽहमदमत्सरमन्युलोभैः
पारम्परीत उदितैः परिपीड्यमानम् ।
दैवात्त्वदीक्षणपथं दयया शठारे
पाहि प्रपन्नमिममुन्नमदागसं माम्॥ २१ ॥
कार्या कृपा सुमतिभिः खलु दुःखितेषु
दुःखी मया न सदृशो भृशदुःखभाजाम्।
तस्मात्तवाखिलजनेषु च यानुकम्पा
मय्येव तां शठरिपो निभृतं निधेहि ॥ २२ ॥
विश्वोपकारकमघार्णवतारकं त्वाम्
अप्राप्य है शठरिपो हत एव पूर्वम् ।
अद्य त्वदीयकृपया प्रतिलब्धसत्त्वः
त्वत्सेवनामृतरसेन सुखी भवानि ॥ २३ ॥
अत्राप्यमुत्र करणत्रितयप्रवृत्त्या
त्वत्पादपङ्कजजुषां विदुषां प्रसादम् ।
नित्यं लभेमहि न चान्यदपेक्षितं नः
प्रत्यग्रकेसरपरिष्कृतकारिसूनो ॥ २४ ॥
वाधूलवेङ्कटपतिं वरदार्यसूनुम्
अस्मद्गुरुं तव पदप्रवणं समीक्ष्य।
अज्ञं कृतागसमनाथमकिञ्चनं मां
त्वत्किङ्करं शठरिपो सततं कुरुष्व ॥ २५ ॥
॥ इति श्रीपराङ्कुशपञ्चविंशतिः ॥