॥ अथ श्रीहयग्रीवकवचम् ॥
पार्वत्युवाच ।
देवदेव महादेव करुणाकर शङ्कर ।
त्वया प्रसादशीलेन कथितानि रमापतेः ॥ १॥
बहूनामवताराणां बहूनि कवचानि च ।
इदानीं श्रोतुमिच्छामि हयास्यकवचं प्रभो ॥ २॥
शङ्कर उवाच ।
देवि प्रियंवदे तुभ्यं रहस्यमपि तत्प्रिये ।
कलशाबुधिपीयूष हयास्यकवचं वदे ॥ ३॥
महाकल्पान्तयामिन्याश्चरमप्रहरे स्वयम् ।
लीलया हयवक्त्रोत्थं रूपमाधाय योऽरमत् ॥ ४॥
तेन यद्धयशीर्षेणत्रयीरक्षणकाङ्क्षया ।
वेदोपदेशः प्राक्काले उपदिष्टो विरञ्चये ॥ ५॥
पुत्रवान्स ततो मह्यं विरञ्चिरुपदिष्टवान् ।
कवचंहयशीर्षस्य तत्तुभ्यं कथयाम्यहम् ॥ ६॥
हयास्यकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ।
छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः ॥ ७॥
ह्रौं तु बीजं समाख्यातं ह्रीं शक्तिः समुदाहृता ।
ॐ कीलकं समाख्यातमुच्चैरुत् कीलकं तथा ॥ ८॥
लक्ष्मीकराम्भोरुहहेमकुंभपीयूषपूरैरभिषिक्तशीर्षम् ।
व्याख्यानमालांबुजपुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे ॥ ९॥
सुधासिक्तः शिरः पातु भालं पातु शशिप्रभः ।
दृशौ रक्षतु दैत्यारिर्नासां वोद्धृतवारिधिः ॥ १०॥
श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः ।
मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत् ॥ ११॥
हनुं हनुमता सेव्यः कण्ठं वैकुण्डनायकः ।
ग्रीवा पातु हयग्रीवो हृदयं कमलालयः ॥ १२॥
ऊर्ध्वं च विश्वभृत्पातु नाभिं पङ्कजलोचनः ।
मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः ॥ १३॥
जानुनी विश्वहृत् पातु जङ्घे तु जगतां पतिः ।
गुल्फौ पातु हयध्वंसी पादौ विज्ञानवारिधिः ॥ १४॥
प्राच्यां रक्षतु वागीशो दक्षिणायां वरायुधः ।
प्रतीच्यां विश्वभृत् पातु कौबेर्यां शिववन्दितः ॥ १५॥
ऊर्ध्वं पातु हरिः साक्षादधः पातु गुणाकरः ।
अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वधृक् ॥ १६॥
पुराणं कवचं धीमान् संनह्येन्निजविग्रहे ।
दुर्गतिवाक् शरव्यूहैः स कदाचिन्न बाध्यते ॥ १७॥
जपेद्य एतत्कवचं त्रिसन्ध्यं भक्तिभावतः ।
मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः ॥ १८॥
॥ इति श्रीहयग्रीवसंहितायां हयग्रीवकवचम् सम्पूर्णम् ॥