॥ अनेकविषयमुक्तश्लोकाः ॥
यस्य प्रसादकलया बधिरः शृणोति
पंगुः प्रधावति जवेन च वक्ति मूकः ।
अंधः प्रपश्यति सुतं लभते च वंध्या
तं देवमेव वरदं शरणं गतोऽस्मि ।।१ ।।
आशैलादद्रिकन्याचरणकिसलय न्यासधन्योपकण्ठात्
आरक्षोनीतसीतामुखकमल समुल्लासहेतोश्च सेतोः।
आचप्राच्यप्रतीच्य क्षितिधरयुगला च्चन्द्रसूर्यावतंसात्
मीमांसाशास्त्रयुग्म श्रमविमलमना मृग्यतां मादृशोऽन्यः ।।२ ।।
न वयं कवयस्तु केवलं न वयं केवलतन्त्रपारगाः।
अपि तु प्रतिवादिवारण प्रकटाटोपविपाटनक्षमाः।। ३।।
वन्दे गोविन्दतातौ मुनिमथ मनवै लक्ष्मणार्यं महान्तं
ध्यायेयं यामुनार्यं मम हृदि तनवैराममेवाभियायाम्।
पद्माक्षं प्रेक्षिषीय प्रथममपि मुनि नाथ मीडे शठारि
स्तौमि प्रेक्षेय लक्ष्मी शरणमशरण: श्रीधरं संश्रयेयम् ।। ४।।
त्वं मेऽहं मे कुतस्तत् तदपि कुत इदं वेदमूलप्रमाणात्
एतच्चानादिसिद्धादनुभवविभवात् सोऽपि साक्रोश एव ।
क्वाक्रोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीः स्यात्
हन्त! त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत्त्वम् ।। ५।।
अविद्यातो देवे परिबृढतया वा विदितया स्वभक्तेः
भूम्ना वा जगति गतिमन्यामविदुषाम् ।
गतिर्गम्यश्चासौ हरि रिति जितन्ताह्वयमनो:
रहस्यं व्याजह्रे स खलु भगवान् शौनकमुनिः ।।६ ।।
पुरा सूत्रैर्व्यासः श्रुतिशतशिशेऽर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुलधरतामेत्य स पुनः ।
उभावेतौ ग्रंथौ घटयितु मलं युक्तिभिरसौ
पुनर्जज्ञे रामावरज इति स ब्रह्ममुकुरः।।७ ।।
अर्वांचो यत्पदसरसिजद्वंद्व माश्रित्य पूर्वे
मूर्ध्ना यस्यान्वय मुपगता देशिका मुक्ति मापुः ।
सोऽयं रामानुजमुनि रपि स्वीयमुक्तिं करस्थां
यत्संबन्धा दमनुत कथं वर्ण्यते कूरनाथः ।।८ ।।
श्रीमद्द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रह्रदं
गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं मुनिम् ।
श्रीमंतं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं
पूर्णं लक्ष्मणयोगिनं मुनिवरा नाद्या नथ द्वारपौ ।। ९ ।।
श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरी
रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् ।
सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोट्यां हरिं
तन्मध्ये वरदं रमासहचरं वंदे तदीयैर्वृतम् ।।१० ।।
काषायशोभि कमनीयशिखानिवेशम्
दण्डत्रयोज्ज्वलकरं विमलोपवीतम्।
उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं
रूपं तवास्तु यतिराज! दृशो ममाग्रे ।।११ ।।
एतानि तानि भुवनत्रयपावनानि
संसाररोग शकलीकरणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्यमृताक्षराणि ।।१२ ।।
नमः प्रणवशोभितं नवकषायखण्डाम्बरं
त्रिदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम्।
दयाञ्चितदृगञ्चलं दलितवादि वाग्वैभवं
शमादिगुणसागरं शरणमेमि रामानुजम् ।। १३ ।।
न चेद् रामानुजेत्येषा चतुरा चतुरक्षरी।
कामवस्थां प्रपद्यन्ते जन्तवो हन्त! मादृशः।।
पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च
श्रीमानाविरभूद्भूमौ रामानुजदिवाकरः।।१४ ।।
तृणीकृतविरिञ्चादिनिरङ्कुशविभूतयः।
रामानुजपदाम्भोजसमाश्रयणशालिनः।।
सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः।
स एव सर्वलोकानामुद्धर्ता नास्ति संशयः।।१५ ।।
देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान्
श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ ।
नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं
चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ।। १६ ।।
कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं
श्रीयुक्ताष्टभुजास्पदेशमनघं श्रीमद्यथोक्तक्रियम् ।
इत्यष्टादशदिव्यमंगलवपुर्देवान् सरोयोगिना
साकं निस्तुलकाञ्च्यभिख्यनगरीनाथान् नमामस्सदा।।१७ ।।
॥ इति अनेकविषयमुक्तश्लोकाः ॥